Book Title: Alankar Sarvasvam Author(s): Gaurinath Pathak Publisher: Sharda Bhavan View full book textPage 9
________________ अर्पयन्कमपि स्पन्दं धाम्नः सारस्वतस्य भूः । य एव सर्वशास्त्राणां साकारमिव जीवितम् ॥ २ ॥ विवृतीर्यो लिखत्यात्त लेखन्येकाकुलीतलः । प्रन्थेभ्योऽर्थस्य विश्रान्त्यै सूत्रिकामर्पयन्निव ॥ ३ ॥ यत्कृतिष्ववधानेन मूर्धा कस्य न वीप्सया । सारस्वतरसावर्तवलनेनेव चेष्टते ॥ ४॥ तं श्रीरुय्यकमालोक्य सप्रियं गुरुमग्रहीत् । • सौहार्दप्रश्रयरसस्रोतः सम्भेदमजनम् ॥ ५ ॥ तत्रैष-पुनः "न्युट्यद्भिराननपथावसथोक्तिदेवी हस्ताग्रपुस्तकमुखादिव बन्धसूत्रैः ॥ दन्तांशुभिः प्रसृमरैः पिहिताधरौष्टः श्रीरुय्यकस्तमथ सस्वगुरुर्वभाषे ॥१॥ यच्छीमङ्खक ? मुख्यतां गतवता व्युत्पत्तिविच्छित्तिभिः। श्रीश्रीकण्ठचरित्रमित्यमिधया काव्यं व्यधायि त्वया एतस्मिन् सदसि प्रसिद्धविविधोपासीनविद्वद्वरे । तत्सन्दर्शय यस्य रोहतरां साफल्यतः कल्पना ॥ १॥" जयसिंह महीपालस्य राज्यशासनकालः, खिस्तोय-११२७ प्रारभ्य ११४४ पर्यन्तं यावदासीत्। उत्पत्तिकालश्च ततो विंशतिः पञ्चविंशतिर्षा वर्षाणि प्रागवश्यम्भाव्य एव । महकमहाकवेरपि समयः, अस्य समयतः परमनुमानतः पश्च सप्त वा शरदायाति । यतः स तस्यैव समये विविध-विद्या-पारङ्गमोभूत्वा महाकविरिति पदवीं प्रतिपेदे। इतिरीत्या मङ्खकमहाकविरपि खिस्तीयद्वादशशतकारम्भीयपशसप्त वा संवत्सरे भारतभूमावाविबभूवेति वक्तुं सुशकमेव । प्रकृतग्रन्थनायको राजानकरुय्यकस्तु अस्य समयान्यूनतोऽपि पञ्चविंशतिर्वा वर्षाणि प्रागासीदेव। यतोऽयं महकमहाकवेर्गुरुः । महाकवि-गुरौ च सामान्यतः पञ्चविंशतिवर्षमितकालप्राक्तनत्वमवश्यमेवापेक्षते।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 134