Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३८
उत्तराध्ययन-मूलसूत्रम्-१-१/१ "अट्ठविहा गणिसंपइ चउग्गुणा नवरि होति बत्तीसा।
विनओ य चउन्भेओ छत्तीस गुणा हवंतेए।" तत्राष्टौ गणिसम्पद इमाः-आचारसम्पत् १ श्रुतसम्पत् २ शरीरसम्पत् ३ वचनसम्पत् ४ वाचनासम्पत् ५ मतिसम्पत् ६ प्रयोगमतिसम्पत् ७ संग्रहपरिज्ञासम्पत् ८ तथा चाह
"आयारसुयसरीरे वयणे वायणमतीपतोगमती।
एएसु संपया खलु अट्ठमिया संगहपरित्रा।" । तत्र चाचारसम्पत् चतुर्धा-संयमध्रुवयोगयुक्तता १ असम्प्रग्रहता २ अनियतवृत्तिः ३ वृद्धशीलता चेति ४ तत्र संयमः -चरणं तस्मिन् ध्रुवो-नित्यो योगः-समाधिस्तद्युक्तता, कोऽर्थः?सन्ततोपयुक्तता संयमध्रुवयोगयुक्तता १, असम्प्रग्रहः-समन्तात् प्रकर्षेण जात्यादिप्रकृष्टतालक्षणेन ग्रहणम्-आत्मनोऽवधारणं सम्प्रग्रहस्तदभावोऽसम्प्रग्रहः, जात्याद्यनुत्सिक्ततेत्यर्थः, २, अनियतवृत्तिः-अनियतविहाररूपा ३, वृद्धशीलता-वपुषि मनसिचनिभृतस्वभावता निर्विकारतेतियावत् ४, १ श्रुतसम्पच्चतुर्धा-बहुश्रुतता १ परिचितसूत्रता २ विचित्रसूत्रता ३ घोषविशुद्धिकरणता ४ च, तत्र बहुश्रुतता-युगप्रधानागमता १ परिचितसूत्रता-उत्क्रमक्रमवाचनादिभिः स्थिरसूत्रता २ विचित्रसूत्रता-स्वपरसमयविविधोत्सर्गापवादादिवेदिता ३ घोषविशुद्धिकरणता-उदात्तानुदात्तादिस्वरशुद्धिविधायिता ४, २
शरीरसम्पच्चतुर्धा-आरोहपरिणाहयुक्तता १ अनवत्राप्यता २ परिपूर्णेन्द्रियता ३ स्थिरसंहननता च ४, इह चाऽऽरोहो-दैy परिणाहो-विस्तर: ताभ्यां तुल्याभ्यां युक्तताऽऽरोहपरिणाहयुक्तता १ अविद्यमानमवत्राप्यम्-अवत्रपणं लज्जनं यस्य सोऽयमनवत्राप्यः, यद्वाऽवत्रापयितुं-लज्जयितुमर्हः शक्यो वाऽवत्राप्यो लज्जनीयः न तथाऽनवत्राप्यस्तद्भावोऽनवत्राप्यता २ उभयत्राहीनसर्वाङ्गत्वं हेतुः, परिपूर्णेन्द्रियता-अनुपहतचक्षुरादिकरणता ३ स्थिरसंहननतातपःप्रभृतिषु शक्तियुक्तता ४, ३ वचनसम्पच्चतुर्भेदा-आदेयवचनता १ मधुरवचनता २ अनिश्रितवचनता ३ असन्दिग्ध-वचनता ४, तत्राऽऽदेयवचनता-सकलजनग्राह्यवाक्यता १,मधुरं रसवद् यदर्थतो विशिष्टार्थवत्तयाऽर्थावगाढत्वेन शब्दतश्चापरुषत्वसौस्वर्यगाम्भीर्यादिगुणोपेतत्वेन श्रोतुराह्लादमुपजनयति तदेवंविधं वचनं यस्य स तथा तद्भावो मधुरवचनता २ अनिश्रितवचनता-रागाद्यकलुषित-वचनता ३ असन्दिग्धवचनता-परिस्फुटवचनता ४, ४
वाचनासम्पच्चतुर्धा-विदित्वोद्देशनं १ विदित्वा समुद्देशनं २ परिनिर्वाप्य वाचना ३ अर्थनिर्यापणेति ४, तत्र विदित्वोद्देशने विदित्वा समुद्देशने ज्ञात्वा परिणामिकत्वादिगुणोपेतं शिष्यं यद् यस्य योग्यं तस्य तदेवोद्दिशति समुद्दिशति वा, अपरिणामिकादावपक्वघटनिहितजलोदाहरणतो दोषसम्भवात्, २ परीति-सर्वप्रकारं निर्वापयतो निरो निर्दग्घादिषु भृशार्थस्यापि दर्शनात् भृशं गमयतः-पूर्वदत्तालापकादि सर्वात्मना स्वात्मनि परिणमयत: शिष्यस्य सूत्रगताशेषविशेषग्रहणकालं प्रतीक्ष्य शक्त्यनुरूपप्रदानेन प्रयोजकत्वमनुभूय परिनिर्वाप्य वाचना-सूत्रप्रदानं परिनिर्वाप्यवाचना ३, अर्थ:-सूत्राभिधेयं वस्तु तस्य निरिति भृशं यापनानिर्वाहणा पूर्वापरसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां च कथनतो निर्गमना निर्यापणा ४, ५।
मतिसम्पत् अवग्रहेहापायधारणारूपा चतुर्द्धा, अवग्रहादयश्च तत्र तत्र प्रपञ्चिता एवेति न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org