Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 331
________________ ३२८ उत्तराध्ययन- मूलसूत्रम् - १-१३ / ४२२ मुकुटाङ्गदादीनि 'भारा' तत्त्वतो भाररूपत्वात्तेषां तथाविधवनिता भर्तृकारितसुवर्णस्थगितशिलापुत्रकाभरणवत्, सर्वे 'कामा: ' शब्दादयो 'दुःखवहाः' मृगाजीनामियायतौ दुःखावाप्तिहेतुत्वात्, मत्सरेर्ष्याविषादादिभिश्चित्तव्याकुलत्वोत्पादकत्वान्नरकादिहेतुत्वाच्चेति । मू. (४२३ ) बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं !। विरत्तकामान तवोधनानं, जं भिक्खुणं सीलगुणे रयाणं ।। वृ. तथा बालानां - विवेकरहितानामभिरामाः - चित्ताभिरतिहेतवो ये तेषु 'दुःखावहेषु' उक्तन्यायेन दुःखप्रापकेषु न तत्सुखं 'कामगुणेषु' मनोज्ञशब्दादिषु, सेव्यमानेष्विति शेषः, ‘राजन!’ पृथ्वीपते! ‘विरत्तकामानं 'त्ति प्राग्वत्, कामविरक्तानां विषयपराड्युखानां तप एव धनं येषां ते तपोधनास्तेषां यत्सुखमिति सम्बन्धः, 'भिक्षुणां' यतीनां शीलगुणयोर्वा सूत्रत्वाद् ‘रतानां’ आसक्तानामिति सूत्रद्वयार्थः ॥ बालेत्यादिसूत्रं चूर्णिकृता न व्याख्यातं, क्वचित्तु दृश्यत इत्यस्माभिरुन्नीतं ।। सम्प्रति धर्मफलोपदर्शनपुरःसरमुपदेशमाह मू. (४२४ ) नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सव्वजनस्स वेसा, वसीअ सोवागनिवेसनेसुं ॥ वृ. ‘नरेन्द्र!' चक्रवर्त्तिन् ! जायन्तेऽस्यामिति जातिः ‘अधमा' निकृष्टा 'नराणां' मनुष्याणा मध्ये ‘श्वपाकजाति:’ चाण्डालजाति: 'दुहतो 'त्ति द्वयोरपि 'गतयो:' प्राप्तयोः किमुक्तं भवति?-यदाऽऽवां श्वपाकजातावुत्पन्नौ तदा सर्वजनगर्हिता जातिरासीत्, कदाचित्तामवाप्याप्यन्यत्रैवोषितौ स्यातामित्याह-यस्यां वयं प्राग्वच्च बहुवचनं, 'सर्वजनस्य' अशेषलोकस्य 'द्वैष्यौ' अप्रीतिकरौ 'वसीय'त्ति अवसाय-उपितौ, केषु ? - श्वपाकानां निवेशनानि-गृहाणि श्वपाकनिवेशनानि तेषु कदाचित्तत्रापि विज्ञानविशेषादिनाऽहीलनीयावेव स्यातामित्याह मू. (४२५) तीसे अ जाईइ उ पावियाए, वुच्छा मु सोवागनिवेसणेसुं । सव्वस्स लोगस्स दुर्गुर्छाणिज्जा, इहं तु कम्माई पुरेकडाई ॥ वृ. तस्यां च जातौ श्वपाकसम्बन्धिन्यां च, 'तुः ' विशेषणे, ततश्च जात्यन्तरेभ्यः कुत्सि - तत्वं विशिनष्टि, पापैव पापिका तस्यां कुस्तितायां, पापहेतुभूतत्वेन वा पापिका तस्यां प्रापिकायां वा नरकादिकुगतेरिति गम्यते, 'वुच्छे' ति उषितौ 'मु' इत्यावां, केपु ? - श्वपाकनिवेशनेपु, कीदृशौ ? - सर्वस्य लोकस्य 'जुगुप्सनीयौ' हीलनीयौ 'इह' इत्यस्मिन् जन्मनि 'तुः ' पुनरर्थस्तत इह पुन: ‘कर्माणि' शुभानुष्ठानानि 'पुरेकडाई 'ति पूर्वजन्मोपार्जितानि विशिष्टजात्यादिनिबन्धनानीति शेषः, तत उत्पन्नप्रत्ययैः पुनस्तदुपार्जन एव यत्त्रो विधेयो न तु विषयाभिष्वङ्गव्याकुलितमानसैरेव स्थेयमिति भाव इति ।। मू. (४२६) सो दानि सिं राय ! महानुभागो महिड्डिओ पुन्नफलोववेओ । चइत्तु भोगाई असासयाई, आयाणहेउं अभिनिक्खमाहि ॥ वृ. यतश्चैवमतः 'सः' इति यः पुरा संभूतनामाऽनगारा आसीद् 'इदानीम्' अस्मिन् काले 'स'त्ति पूरणे यद्वा 'दाणिसिं' ति देशीयमाषयेदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपेतश्च सन् दृष्टधर्मफलत्वेनाभिनिष्क्रोमेति सम्बन्धः, अथवा सोपस्कारत्वाद्यत् स एव त्वमिदानीं राजा महानुभागताद्यनवित इह जातस्तत्कर्माणि पुराकृतानीति पूर्वेण सम्बन्धः, कोऽर्थः ? - Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388