Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 332
________________ अध्ययनं - १३, [ नि. ३५५ ] ३२९ पुराकृतकर्मविजम्भितमेवैतत् कथमन्यथा तथाभूतस्यैवंविधसमृद्धवाप्तिरिति भाव:, यतश्चैवमतोऽभिनिष्क्रामेति सम्बन्धः, किं कृत्वेत्याह- 'त्यक्त्वा' अपहाय भुज्यन्त इति भोगाः - द्रव्यनिचया: कामा वा तान् 'अशाश्चतान्' अनित्यान् आदीयते- सद्विवेकैर्गृह्यत इत्यादान:चरित्रधर्मस्तद्धेतोरभिनिष्क्राम-आभिमुख्येन प्रव्रजितो भव, गृहस्थतायां हि न सर्वविरतिरूपचारित्रम्भव इति भावः पठन्ति च- 'आयाणमेवा अनुचितयाही 'ति, स्पष्टमिति सूत्रत्रयार्थः ॥ क एवमकरणे दोष इत्याह मू. (४२७ ) इह जीविए राय ! असासयंमि, धनियं तु पुन्नाइं अकुव्वमानो । से सोअई मच्चुमुहोवनीए, धम्मं अकाऊण परंमि लोगे ।। वृ . इह' जीविते' मनुष्यसम्बन्धिन्यायुपि राजन् ! 'अशाश्वते' अस्थिरे 'धनियं तु 'त्ति अतिशयेनैव न तु ध्वजपटप्रान्ताद्यन्यास्थिरवस्तु साधारणतया 'पुण्यानि' पुण्यहेतुभूतानि शुभानुष्ठानान्यकुर्वाणः 'सः' इति पुण्यानुपार्जकः 'शोचते' दुःखार्त्तः पश्चातापं विधते, मृत्युःआयुःपरिक्षयस्तस्य मुखमिव मुखं मृत्युमुखं शिथिलीभवद्बन्धनाद्यवस्था तदुपनीतस्तथाविधकर्मभिरुपढौकितो मृत्युमुखोपनीतः सन् 'धर्मं' शुभानुष्ठानम् 'अकृत्वा' अननुष्ठाय ‘परंमि’त्ति चस्य गम्यमानत्वात् परस्मिश्च 'लोके' जन्मान्तररूपे, गत इति शेषः, नरकादिषु ह्यसह्यासातवेदनार्दितशरीरः शशिनृपतिवत्कि न मया तदैव सदनुष्ठानमनुष्ठितमिति खिद्यत एवाधर्मकारीति सूत्रार्थः ॥ स्यादेतत्-मृत्युमुखोपनीतस्य परत्र वा दुःखाभिहतस्य स्वजनादयस्त्राणाय भविष्यन्ति, ततो न शोचिष्यन्ते इत्याशङ्क्याह मू. (४२८ ) जहेह सीहो व मियं गहाय, मच्चू नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया, कालंमि तंमंसहरा भवंति ॥ वृ.‘यथे'त्यौपम्ये ‘इहे’ति लोके ‘सिंह:' मृगपतिः, वेति पूरणे, यद्वा वाशब्दोऽयं विकल्पार्थे, ततो व्याघ्रादिर्वा 'मृगं' कुरङ्गं 'गृहीत्वा' उपादाय प्रक्रमात्खमुखं परलोकं वा नयतीति सम्बन्धः, एवं ‘मृत्युः' कृतान्त: ‘नरं' पुरुषं नयति 'हुः' अवधारणे, ततो नयत्येव, कदा ? - अन्तकाले जीवितव्यावसानसमये, कुमुक्तं भवति ? - यथाऽसौ सिंहने नीयमानो न तस्मै अलम्, एवमयमपि जन्तुर्मृत्युना, कदाचित्स्वजनस्तत्र साहय्यं करिष्यत्यत आह-न तस्यमृत्युना नीयमानस्य माता वा पिता वा 'भाय'त्ति वाशब्दस्येह गम्यमानत्वाद्भ्राता वा 'काले तस्मिन्' जीवितान्तरूपे अंशं-प्रक्रमाज्जीवितव्यभागं धारयन्ति-मृत्युना नीयमानं रक्षन्तीत्यंशधराः, यथा हि नृपादौ स्वजनसर्वस्वमपहरति स्वद्रविनदानतः स्वजनादिभिस्तद्रक्ष्यते नैवं स्वजीवितव्यांशदानतस्तजीवितं मृत्युना नीयमानम्, उक्तं हि "न पिता भ्रातरः पुत्रा, न भार्य न च बान्धवाः । न शुक्ताः मरणात्त्रातुं शक्ताः संसारसागरे ।" इति, अथवाऽंशो-दुःखभागस्तं हरन्ति-अपनयन्ति ये ते ऽंशहरा भवन्तीति, इदमेवाभिव्यनक्ति, आद्यव्याख्याने तु स्यादेतद्- जीवितारक्षणेऽपि दुःखांशहारिणो भविष्यन्त्यत आहमू, (४२९ ) न तस्स दुक्खं विभयंति नायओ, न मित्तवग्गा न सुआ न बंधवा । इक्को सयं पच्चनुहोइ दुक्खं, कत्तारमेवं अनुजाइ कम्मं ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388