Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 341
________________ ३३८ मू. (४४९ ) अहतायओ तत्थ मुनीन तेसिं, तवस्स वाधायकरं वयासी । इमं वयं वेयविओ वयंति, तहा न होई असुआण लोगो ॥ वृ.' अथ' अनन्तरं तायते सन्तानं करोति पालयति च सर्वापद्भ्य इति तातः स एव तातक: 'तत्र' तस्मिन् मंनिवेशेऽवसरे वा 'मुन्यो:' भावतः प्रतिपन्नमुनिभावयो: 'तयोः ' कुमारयोः ‘तपस:’ अनशनादे: उपलक्षणत्वाच्छ्रेपसद्धर्मानुष्ठानस्य च 'व्याधातकरं' बाधाविधायि, वचनमिति शेष:, 'वयासि 'त्ति अवादीत्, यदवादीत्तदाह इमां वाचं वेदविदो 'वदन्ति' प्रतिपादयन्ति, यथा--'न भवति' न जायते 'असुतानाम्' अविद्यमानपुत्राणां 'लोक:' परलोकः, तं विना पिण्डप्रदानाद्यभावे गत्याद्यभावात् तथा च वेदवचः - 'अनपत्यस्य लोका न सन्ति ", तथाऽन्यैर 2 प्युक्तम् तथा उत्तराध्ययन- मूलसूत्रम् - १-१४/४४९ Jain Education International "पुत्रेण जायते लोक:, इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ।। " "अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च । गृहिधर्ममनुष्ठाय तेन स्वर्गं गमिष्यति ॥" मू. ( ४५० ) अहिज्ज वेए परिविस्स विप्पे, पुत्ते परिद्वप्प गिहंसि जाया ! । भुच्चा न भोए सह इत्थियाहिं, आरन्नगा होह मुनी पसत्था ॥ वृ. यत एवं तस्माद् 'अधीत्य' पठित्वा 'वेदान्' ऋग्वेदादीन् 'परिवेष्य' भोजयित्वा 'विप्रान्' ब्राह्मणान्, तथा पुत्रान् 'प्रतिष्ठाप्य' कलाकलत्रग्रहणादिना गृहस्थधर्मे निवेश्य, कीदृशः पुत्रान ? - गृहे जातान्, न तु गृहीतप्रतिपन्नकादीन्, पाठान्तरे च पुत्रान् 'परिष्ठाप्य' स्वामित्वेन निवेश्य गृहे 'जाय'त्ति हे जातौ पुत्रौ !, तथा 'भुक्त्वा' भुक्त्वा 'ण' इति वाक्यालङ्कारे 'भोगान्' शब्दादीन् सह 'स्त्रीभिः' नारीभिस्ततोऽरण्ये भवौ आरण्यौ, 'अरण्यान्नो वक्यतव्यः' (अरण्यान्नः । वार्त्तिकं ) इति नप्रत्ययः, आरण्यावेव आरण्यको- आरण्यकव्रतधारिणी 'होह' ति भवतं सम्पद्येथां युवां 'मुनी' तपस्विनौ 'प्रशस्तौ' श्लाघ्यौ, इत्थमेव ब्रह्मचर्याद्याश्रमव्यव्स्थानात्, उक्तं हि-‘“ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथे" ति, इह च ' अधीत्य वेदानि' त्यनेन ब्रह्मचर्याश्रम उक्तः परिवेष्येत्यादिना च गृहस्थाश्रमः आरण्यकावित्यनेन च वानप्रस्थाश्रमः मुनिग्रहणेन च यत्याश्रम इति सूत्रद्वयार्थः ॥ इत्थं तेनोक्ते कुमारकौ यदकाष्ट तदाहमू. ( ४५१ ) सोअरग्गिणा आयगुणिधनेणं, मोहानिला पज्जलणाहिएणं । संतत्तभावं परितप्पमानं, लोलुप्पमानं बहुहा बहुं च ॥ वृ. सुतवियोगसम्भावना जनितं मनोदुःखमिह शोकः स चाग्निरिव शोकाग्निस्तेन, आत्मनो गुणा आत्मगुणाः - कर्मक्षयोपशमादिसमुद्भूताः सम्यग्दर्शनादयस्त इन्धनमिवेन्धनं दाह्यतया यस्य स तथा तेन, अनादिकालसहचरितत्वेन रागादयो वाऽऽत्मगुणास्त इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहो महताऽज्ञानमितियावत् सोऽनिल इव मोहानिलस्तस्मादधिकं महानगर-दाहादिभ्यो ऽप्यलं प्रज्वलनं प्रकर्षेण दीपनमस्येति अधिक प्रज्वलनः, यद्वा प्रज्वलनेनाधिक इतराग्न्यपेक्षया वस्तेन, पर्वत्र प्राकृतत्वादधिकशब्दस्य परनिपातः, तथा समिति- - समन्तात् तप्त इव तप्त: अनिर्वृतत्वेन भाव: अन्तःकरणमस्येति संतप्तभावस्तम्, अत एव च 'परितप्यमानं' For Private & Personal Use Only www.jainelibrary.org -


Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388