Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 359
________________ ३५६ उत्तराध्ययन-मूलसूत्रम्-१-१५/५०१ इत्यादि। तथा अङ्गविकार:' शिर:-स्फुरणादिस्तच्छुभाशुभसूचकं शास्त्रमप्यङ्गविकारो यथा 'दक्षिणाक्षिस्पन्दने प्रियं भविष्यती'त्यादि । तथा स्वर:-पोदकीशिवादिरुतरूपस्तस्य विषयः-तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, यथा "गतिस्तारा स्वरो वामः, पोदक्याः शुभदः स्मृतः। विपरीतः प्रवेशे तु, स एवाभीष्टदायकः ।। तथा "दुर्गास्वरत्रयं स्याज्ज्ञातव्यं शाकुनेन नैपुण्यात् । चिलिचिलिशब्दः सफलः सुसु मध्यश्चलचलो विफलः ।।" इत्यादि। ततो य एताभिर्विद्याभिर्न जीवति नैता एव जीविका: शुभाशुभ: प्रकल्प्य प्राणान् धारयति स भिक्षुरिति सूत्रार्थः ।। अनेन निमित्तलक्षणोत्पादनादोषपरिहार उक्तः, सम्प्रति मन्त्रादिरूपतदोषपरिहारायाहमू. (५०२) मंतं मूलं विविहं विज्जचिंतं, वमनविरेयनघूमनित्तसिणाणं। आउरे सरणं तिगिच्छियं च, तं परिन्नाय परिव्वए स भिक्खू ॥ वृ. 'मन्त्रम्' ॐकारादिस्वाहापर्यन्तो ीकारादिवर्णविन्यासात्मकस्तं, 'मूलं' सहदेवीमूलिकाकल्पादितत्तच्छास्त्रविहितं मूलकर्म वा 'विविधं' नानाप्रकारं वैद्यचिन्त' वैद्यसम्बन्धिनी नानाविधौषपथ्यादिव्यापारात्मिका, विविधामित्यत्रापि डमरुकमणिन्यायेन योज्यते, वमनम्-उद्गिरणं विरेचनं-कोष्ठशुद्धिरूपं धूम-मनःशिलादिसम्बन्धि नेत्तंति-नेत्रशब्देन नेत्रसंस्कारमिह समीराञ्जनादि परिगृह्यते, स्नानम्-अपत्यार्थं मन्त्रौषधिसंस्कृतजलाभिषेनं, वमनादीनां च स्नानावसानानामिह कृतसमाहाराणां निर्देशः, आउरे सरणं"ति, सुब्यत्ययाद् 'आतुरस्य' रोगादिपीडितस्य 'शरणं' स्मरणं हा तात! हा मातः ! इत्यादिरूपं 'चिकित्सितं च' आत्मनो रोगप्रतीकाररूपं 'तद्' इति यदनन्तरमुक्तं 'परिनाय'त्ति ज्ञपरिज्ञय परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'परिव्रजेत्' सर्वप्रकारं संयमाध्वनि यायाधः स भिक्षुरिति सूत्रार्थः ॥ अपरं चमू. (५०३) खत्तियगणउग्गरायपुत्ता, माहणभोई य विविहा य सिप्पिणो। नो तेसिं वयइ सिलोगपूअं, तं परिनाय परिव्वए स भिक्खू॥ व. क्षत्रियाः-हैहेयाद्यन्वयजा गणाः-मल्लादिसमूहा:उग्रा:-आरक्षकादयः राजपुत्राःनृपसुताः, एषां द्वन्द्वः, 'माहनभोगिकाः' तत्र माहना ब्राह्मणस्तथा भोगेन-विशिष्टनेपथ्यादिना चरन्ति भोगिका:-नृपतिमान्याः प्रधानपुरुषाः, "विविधाश्च' नानाप्रकाराः 'शिल्पिनः' स्थपतिप्रभृतयः, पठन्ति च-'सिप्पिनोऽन्ने' तत्र चान्ये इति शिल्पिविशेषणमुभयत्र च य इति शेषः, 'नो' नैव तेषां' क्षत्रियादीनां वदति' प्रतिपादयति, के?-'श्लोकपूजे' श्लोकं-श्लाघां यथैते शोभना इति, पूजां च-यथैतान् पूजयतेति, उभयत्र पापानुमत्यादिमहादोषसम्भवात्, किंतु 'तदिति श्लोकपूजादिकं द्विविधयाऽपि परिज्ञया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः॥ अनेन वनीपकत्वस्य परिहार उक्तः, साम्प्रतं संस्तवपरिहारमाहमू. (५०४ ) गिहिणो जे पव्वइएण दिट्ठा, अप्पव्वईएण व संथुया हविज्जा। तेसिं इहलोयफलट्ठयाए, जो संथवं न करेइ स भिक्खू॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388