Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 371
________________ ३६८ उत्तराध्ययन-मूलसूत्रम्-१-१६/५३६ धम्मारामरए दंते, बंभचेरसमाहिए। वृ. धर्म आराम इव पाप सन्तापोपतप्तानां जन्तूनां निर्वृत्तिहेतुतयाऽभिलषितफलप्रदानतश्च धर्मारामस्तस्मिन् ‘चरेत्' गच्छेत् प्रवर्तेतेतियावत्, यद्वा धर्मे आ-समन्ताद्रमत इति धर्मारामः 'संचरेत्' संयमाध्वनि यायाद् भिक्षुः प्राग्वत् 'धृतिमान्' धृतिः-चित्तस्वास्थ्यं तद्वान्, स चैवं धर्मसारथिः-"ठिओ उ ठावए परं" इति वचनादन्येषामपि धर्मे प्रवर्त्तयिता, ततोऽन्यानपि धर्मे व्यवस्थितानुपलभ्य विशेषतो धर्मारामे रतः- आसक्तिमान् धर्मारामरतः, तथा च 'दान्तः' उपशान्तो ब्रह्मचर्ये समाहितः-समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रद्वयार्थः ।। ब्रह्मचर्यविशुद्धयर्थोऽयं सर्वोऽप्युपक्रम इति तन्माहात्म्यमाहम. (५३७) देवदानवगंधव्या, जक्खरक्खसकिन्नरा। बंभयारिं नमसंति, दुक्करं जे करंति तं ।। वृ.देवाः-ज्योतिष्कवैमानिका: दानवाः- भुवनपतयः गन्धर्वयक्षराक्षसकिन्नराः-व्यन्तरविशेषाः समासः सुकर एव, उपलक्षणं चैतद्भूतपिशाचमहोरगकिंपुरुषाणाम्, एते सर्वेऽपि 'ब्रह्मचारिणं' ब्रह्मचर्यवन्तं यतिमिति शेषः, 'नमस्यन्ति' नमस्कृर्वन्ति 'दुष्करं' कातरजनदुरनुचरं 'जे' इति यः 'करोति' अनुतिष्ठति 'तदि'ति प्रक्रमाद्ब्रह्मचर्यमिति सूत्रार्थः ।। सम्प्रति सकलाध्ययनार्थोपसंहारामाहमू. (५३८) . एस धम्मे धुवे नियए, सासए जिनदेसिए। सिद्धा सिज्झति चानेनं, सिज्झिस्संति तहापरे।। वृ. 'एषः' इत्यनन्तरोक्तः धर्मः' ब्रह्मचर्यलक्षणः, ध्रुवः परप्रवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इतियावत् 'नित्यः' अप्रच्युतानुत्पन्नस्थिरैकस्वभावो द्रव्यार्थितया 'शाश्वत:' शश्वदन्यान्यरूपतया उत्पन्न(:)पर्यायार्थितया, यद्वा 'नित्यः' त्रिकालमपि सम्भवात् 'शाश्वत:' अनवरतभवनात्, एकार्थिकानि वा नानादेशजविनेयानुग्रहार्थमुक्तानि, जिनैः-तीर्थकृभिर्देशित:प्रतिपादितो जिनदेशितः, अस्यैव त्रिकालगोचरफलमाह-'सिद्धाः' पुरा अनन्तासूत्सपिण्यवसर्पिणीषु सिद्धयन्ति 'चः' समुच्चये महाविदेहे इहापि वा तत्कालापेक्षया 'अनेन' इति ब्रह्मचर्यलक्षणेन धर्मेण सेत्स्यन्ति तथा परे' अन्येऽनन्तायामनागताद्धायामिति सूत्रार्थः ।। इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् ।। अध्ययनं १६ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययसूत्रे षोडशअध्ययनस्य भद्रबाहुसूरिविरचिता नियुक्तिः एवं शान्त्याचार्यविरचिता टीका परिसमाप्तम् |४३-१ चतुर्थ-मूलसूत्रं "उत्तराध्यनानि-१" समाप्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388