Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३६६
उत्तराध्ययन- मूलसूत्रम् - १-१६/५२५ वृ. अङ्गानि - शिरः प्रभृतीनि प्रत्यङ्गानि कुचकक्षादीनि संस्थानं-कटीनिविष्टकरादिसन्निवेशात्मकम्, अमीषां समाहारनिर्देशः, अङ्गप्रत्यङ्गयोर्वा संस्थानम् - आकारविशेषोऽङ्गप्रत्यङ्गसंस्थानं चारुशोभनम् उल्लपितं च- मन्मनभाषितादि तत्सहगतमुखादिविकारोपलक्षणमेतत् प्रेक्षितं च-अर्द्धकटाक्षनिरीक्षितादि उल्लपितप्रेक्षितं ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुषा गृह्यत इति चक्षुर्ग्राह्यं सद्विवर्जयेत् किमुक्तं भवति ? - चक्षुषि हि सति रूपग्रहणमवश्यंभावि, परं तद्दर्शनेऽपि तत्परिहार एव कर्त्तव्यो न तु रागवशगेन पुनः पुनस्तदेव वीक्षणीयमिति, उक्तं हि'असक्का रूवमद्दट्टु, चक्खुगोयरमागयं । रागद्दोउ जे तत्थ, ते हो परिवज्जए || " कुइयं रुइअं गीयं, हसियं थणिय कंदियं । बंभचेररओ थीणं, सोअगिज्झं विवज्जए । व्याख्यातमेव, नवरं कुड्यन्तादिष्वति शेषः ॥ हासं खिड्डुं रइं दप्पं, सहसावत्तासियाणि य । बंभचेररओ थीणं, नानुचिंते कयाइवि ॥
46
वृ. हाससूत्रमपि तथैव, नवरं 'रतिं' दयिताङ्गसङ्गजनितां प्रीतिं 'दर्पं' मनस्विनीमानदलनोत्थं गर्वं ‘सहसाऽवत्रासितानि च' परांमुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनमर्मघट्टनादीनि, पठ्यते च-‘हस्सं दप्पं रइं किड्डुं सह भुत्तासियाणि य' अत्र च 'सहे 'ति स्त्रीभिः सार्द्ध भुक्तानि च - भोजनानि आसितानि च स्थितानि भुक्तासितानि, शेषं स्पष्टं, नवरं सर्वत्र पूर्वकृतत्वं प्रक्रमादपेक्षणीयम् ॥
मू. (५२८ )
मू. (५२६ )
वृ. कुइयंसूत्रं प्रायो मू. (५२७)
-
पनीयं भत्तपानं च, खिप्पं मयविवड्डूणं । बंभचेररओ भिक्खू, निच्चसो परिवज्जए ।
वृ. पणीयंसूत्रं निगदसिद्धमेव, नवरं मदः - कामोद्रेक इह गृह्यते, तस्य विवर्द्धनम्अतिबृंहकतया विशेषतो वृद्धिहेतुं परिवर्जयेत् ॥
मू. (५२९)
धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं ।
नाइमत्तं तु भुंजिज्जा, बंभचेररओ सया ॥
वृ. धर्मादनपेतं धर्म्यमेषणीयमित्यर्थः 'लब्धं' प्राप्तं गृहस्थेभ्य इति गम्यते, न तु स्वयमेवोपस्कृतं, पठ्यते च, ‘धम्मलद्धं 'ति धर्मेण हेतुनोपलक्षणत्वाद्धर्मलाभेन वा न तु कुण्डलादिकरणेन लब्धं धर्मलब्धं पठ्यते च- 'धर्म्मलद्धुं 'ति धर्म्मः उत्तमः क्षमादिरूप:, यथाऽऽह वाचक:'उत्तमः क्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः" इति, तं ' लब्धुं ' प्राप्तुं, कथं ममायं निरतिचारः स्यात् इति, 'मितम्' 'अद्धमसणस्स' इत्याद्योगमोक्तमानान्वितमाहारमिति गम्यते, 'काले' प्रस्तावे 'यात्रार्थं ' संयमनिर्वाहणार्थं न तु रूपाद्यर्थं 'प्रणिधानवान्' चित्तस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीत 'न' इति निषेधे मात्रामतिक्रान्तः अतिमात्र:अतिरिक्त इत्यर्थस्तं यदिवा 'ईषदर्थे क्रियायोगे, मर्यादायां परिच्छद' इत्यादिना मात्राशब्दस्य मर्यादार्थस्यापि दर्शनाद् 'अतिमात्रम्' अतिक्रान्तमर्यादं, तुशब्दस्यैवकारार्थत्वाद्वयवहितसम्बन्धत्वाच्चा नैव ‘भुञ्जीत' अभ्यवहरेद् ब्रह्मचर्ये रत: - आसक्तो ब्रह्मचर्यरतः 'सदा'
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388