Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 360
________________ अध्ययनं - १५, [ नि. ३७९ ] वृ. 'गृहिणः ' गृहस्था ये 'प्रव्रजितेन' गृहीतदीक्षेण दृष्टा उपलक्षणत्वात्परिचिताश्च ‘अप्रव्रजितेन वा' गृहस्थावस्थेन सह 'संस्तुताः ' परिचिता भवेयुर्गृहिणो य इति सम्बन्धः ‘तेसिं’ति ‘तै:' उभयावस्थयो: परिचित्तैर्गृहिभिः 'इहलौकिकफलार्थं वस्त्रपात्रादिलाभनिमित्तं 'य: 'संस्तवं' परिचयं न करोति स भिक्षुरिति सूत्रार्थः ॥ तथा मू. (५०५ ) ३५७ सयनासनपानभोयणं, विविहं खाइमसाइमं परेसिं । अदए पडिसेहिए नियंठे, जे तत्थ न पओसई स भिक्खू ।। वृ. 'शयनासनपानभोजन 'मिति शयनादीनि प्रतीतानि 'विविधम्' अनेकप्रकारं 'खादिमस्वादिम'मिति खादिमंपिण्डस्वर्जूरादि स्वादिमम्-एलालवङ्गादि, उभयत्र समाहारः 'परेसिं' ति 'परेभ्यः' गृहस्थादिभ्यः 'अदइ 'त्ति अददद्भ्यः 'प्रतिषिद्धः' क्वचित् कारणान्तरे याचमानो निराकृतः सः 'निर्ग्रन्थः ' मुक्तद्रव्यभावदग्रन्थो वः 'तत्र' इत्यदाने 'न प्रदुष्यति' न प्रद्वेषं याति पुनर्दास्यतीत्यभिधायकक्षपकर्षिवत्स भिक्षुरिति सूत्रार्थ: ।। अनेन क्रोधपिण्डपरिहार उक्तः, उपलक्षणं चैतदशेषभिक्षादोषपरिहारस्य, इदानीं ग्रासैषणादोषपरिहारमाहजं किंचाहारापानगं विविहं, खाइमसाइमं परेसिं लद्धुं । जो तं तिविहेण नानुकंपे, मनवयकायसुसंवुडे जे स भिक्खू ।। मू. (५०६ ) वृ. 'यत् किञ्चित्' अल्पमपि 'आहारपानम्' अशनपानीयं विविधं 'खाइमसाइमं 'ति चस्य गम्यमानत्वात् स्वादिमस्वादिमं च उक्तरूपं 'परेसिं' ति 'परेभ्यः ' गृहस्थेभ्य: 'लद्धुं 'ति' लब्ध्वा ' प्राप्य यः 'तं'ति सुब्व्यत्ययात्तेनाहारादिना 'त्रिविधेन' मनोवाक्कायलक्षणेन प्रकारत्रयेण नानुकम्पते, कोऽर्थः ।-ग्लानबालादीन्नोपकुरुते न स भिक्षुरिति वाक्यशेषः, यस्तु मनोवाक्कायैः सुष्ठु संवृतो निरुद्धतथाविधाहारद्यभिलाषः सुसंवृता वा मनोवाक्काया यस्येति सुसंवृतमनोवाक्कायः, तत एव ग्लानादीननुकम्पत इति गम्यते, सभिक्षुः, यदिवा 'नानुकम्पते' इत्यत्र 'ना' पुरुषोऽनुकम्पते (नानुरूपो न कम्पते) मनोवाक्कायसुसंवृतः सन् स भिक्षुरिति सूत्रार्थः ॥ अनेनार्थतो गृद्धयभावाभिधानादङ्गारदोषपरीहार उक्तः, सम्प्रति धुमपरिहारमाहमू. (५०७ ) आयामगं चेव जवोदनं च, सीयं सोवीरजवोदगं च । नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिव्वए स भिक्खू ॥ वृ.आयाममेव आयामकम् - अवश्रावणं चशब्द उत्तरापेक्षया समुच्चये स्वगतानेकभेदख्यापको वा, 'एव' इति प्राग्वत्, 'यवोदनं च' यवभक्तं 'सीयं 'ति शीतं - शीतलमन्तप्रान्तोपलक्षणं चैतत्, सोवीरं-आचाम्लं यवोदकं च-यवप्रक्षालनं पानीयं सोवीरयवोदकं, तच्च 'नो हीलयेत्' धिगिदं किमनेनामनोज्ञेनेति न निन्देत् पिण्ड्यते - सङ्घात्यते, कोऽर्थः ? गृहिभ्यः उपलभ्य संमील्यत इति पिण्डस्तमायामकाद्येन 'नीरसं' विगतास्वादं' 'तुः' अप्यर्थस्ततो नीरसमपि, अत एव 'प्रान्तकुलनि' तृच्छाशयगृहाणि दरिद्रकुलानि वा यः परिव्रजेत्स भिक्षुरिति सूत्रार्थः ॥ अन्यच्च मू. (५०८ ) सद्दा विविहा भवंति लोए, दिव्वा मानुसया तहा तिरिच्छा । भीमा भयभेरवा उराला, जो सुच्चा न बिहिज्जई स भिक्खू ॥ वृ.'शब्दाः' ध्वनयः ‘विविधाः ' विमर्शप्रद्वेषादिना विधीयमानतया नानाप्रकाराः 'भवन्ति' For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388