Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं-१६,[ नि.३८५]
३६१ त्वात्सूत्रस्य यथेति गम्यते, ततो यथेह क्षेत्रे प्रवचने वा 'खलु' निश्चयेन स्थविरैः-गणधरैः 'भगवद्भिः' परमैश्वर्यादियुक्तैर्दशब्रह्मचर्यसमाधिस्थानानि 'प्रज्ञप्तानि' प्ररूपितानि, कोऽभि-- प्रायः?-नैपामियं स्वमनीपिका, किन्तु भगवताऽप्येवमाख्यातं मया श्रुतं ततोऽत्रमा अनास्थां कृथाः, तान्येव विशिनष्टि-'ये' इति यानि ब्रह्मचर्यसमाधिस्थानानि भिक्षुः श्रुत्वा' आकर्ण्य शब्दतः 'निशम्य' अवधार्यार्थतः 'संजमबहुले'त्ति संयमम्-आश्रवविरमणादिकं बहु इतिबहुसङ्ख्यं यथाभवत्येवंलाति-गृह्णाति, ___ कोऽभिप्रायः?-विशुद्धविशुद्धतरं पुनः पुन: संयमं करोतीति संयमबहुलः, मयूरव्यंसकादित्वात्समासः, यदिवा बहुल:-प्रभूतः संयमोऽस्येति बहुलसंयमः, सूत्रे पूर्वापरनिपातस्यातन्त्रत्वात्, अत एव संवर:-आश्रवद्वारनिरोधः तद्बहुलो बहुलसंवरो वा, तत एव समाधिःचित्तस्वास्थ्यं तद्बहुलो बहुलसमाधिर्वा, 'गुप्ः' मनोवाक्कायगुप्तिभिः, गुप्तत्वादेव च गुप्तानि विषयप्रवृत्तितो रक्षितानि इन्द्रियाणि-श्रोत्रादीनी येन स तथा, तत एव गुप्तं नवगुप्तिसेवनात् 'ब्रह्मेति ब्रह्मचर्यं चरितुम्-आसेवितुंशीलमस्येति गुप्तब्रह्मचारी सदा' सर्वकालम् 'अप्रमत्तः' प्रमादविरहितः 'विहरेत्' अप्रतिबद्धविहारितया चरेत् ।। एतेन संयमबहुलत्वादि दशब्रह्मचर्यसमाधिस्थानफलमुक्तम्, एतदविनाभावित्यात्तस्येति सूत्रार्थः ।।
मू. (५१२) कयरे खलु थेरेहिं भगवंतेहिं दसबंभचेरसमाहिठाणा पन्नत्ता?, इमे खलु ते जावविहरिज्जा, तंजहा-विवित्ताई सयणासणाइंसेविज्जा से निग्गंथे, तो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाह
निग्गंथस्स खलु इतिथपसुपंडगसंसत्ताई, सयणासणाई सेवमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउनिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ धम्माओ वा भंसिज्जा, तम्हा नो इत्थिपसुपंडगसंसत्ताइ सयणासणाइंसेवित्ता हवइ से निग्गंथे॥
वृ.कतराणीत्यादिप्रश्नसूत्रम् इमानीत्यादि निर्वचनसूत्रं च प्राग्वत्, तान्येवाह-'तं जहे'त्यादि, 'तद्यथे' त्युपन्यासे 'विविक्तानि' स्त्रीपशुपण्डकाकीर्णत्वविरहितानि, शय्यते येषु तानि शयनानि च-फलकसंस्तारकादीनि, आस्यते येषु तानि आसनानि च-पादपीठापुञ्छनादीनिशयनासनानि, उपलक्षणत्वात्स्थानानि च सेवेत' भजेत यः सः 'निर्ग्रन्थः' द्रव्यभावग्रन्थानिष्क्रान्तो भवतीति शेषः । इत्थमन्वयेनाभिधायाव्युत्पन्नविनेयानुग्रहायामुमेवार्थं व्यतिरेकेणाह
. 'नो' नैव स्त्रियश्चदिव्या मानुष्यो वा पशवश्च-अजैडकादयः पण्डकाश्च-नपुंसकानि स्त्रीपशुपण्डकास्तैः संसक्तानि-आकीर्णानि स्त्रीपशुपण्डकसंसक्तानि 'शयनासनानि' उक्तरूपाणि 'सेविता' उपभोक्ता भवति, 'तदि'त्यनन्तरोक्तं 'कथं' केनोपपत्तिप्रकारेण ?, 'इति चेद्' एवं यदि मन्यसे, अत्रोच्यते-निर्ग्रन्थस्य खलं निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि 'सेवमानस्य' अपभुञ्जानस्य 'बंभयारिस्स'त्ति अपिशब्दस्य गम्यमानत्वाद् ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये 'शङ्का वा' किमेताः सेवे उत नेत्येवंरूपा, यदिवा इहान्येषामिति गम्यते, ततः शङ्का वाऽन्येषांयथा किमसावेवंविधशयनासनसेवी ब्रह्मचार्युत नेति, 'काङ्क्षा' वा स्त्र्याद्यभिलाषरूपा 'विचिकित्सा' वा धर्मं प्रति चित्तविप्लुतिः 'समुत्पद्यते' जायते, अथवा शङ्का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388