________________
अध्ययनं - १५, [ नि. ३७९ ]
वृ. 'गृहिणः ' गृहस्था ये 'प्रव्रजितेन' गृहीतदीक्षेण दृष्टा उपलक्षणत्वात्परिचिताश्च ‘अप्रव्रजितेन वा' गृहस्थावस्थेन सह 'संस्तुताः ' परिचिता भवेयुर्गृहिणो य इति सम्बन्धः ‘तेसिं’ति ‘तै:' उभयावस्थयो: परिचित्तैर्गृहिभिः 'इहलौकिकफलार्थं वस्त्रपात्रादिलाभनिमित्तं 'य: 'संस्तवं' परिचयं न करोति स भिक्षुरिति सूत्रार्थः ॥ तथा
मू. (५०५ )
३५७
सयनासनपानभोयणं, विविहं खाइमसाइमं परेसिं । अदए पडिसेहिए नियंठे, जे तत्थ न पओसई स भिक्खू ।। वृ. 'शयनासनपानभोजन 'मिति शयनादीनि प्रतीतानि 'विविधम्' अनेकप्रकारं 'खादिमस्वादिम'मिति खादिमंपिण्डस्वर्जूरादि स्वादिमम्-एलालवङ्गादि, उभयत्र समाहारः 'परेसिं' ति 'परेभ्यः' गृहस्थादिभ्यः 'अदइ 'त्ति अददद्भ्यः 'प्रतिषिद्धः' क्वचित् कारणान्तरे याचमानो निराकृतः सः 'निर्ग्रन्थः ' मुक्तद्रव्यभावदग्रन्थो वः 'तत्र' इत्यदाने 'न प्रदुष्यति' न प्रद्वेषं याति पुनर्दास्यतीत्यभिधायकक्षपकर्षिवत्स भिक्षुरिति सूत्रार्थ: ।। अनेन क्रोधपिण्डपरिहार उक्तः, उपलक्षणं चैतदशेषभिक्षादोषपरिहारस्य, इदानीं ग्रासैषणादोषपरिहारमाहजं किंचाहारापानगं विविहं, खाइमसाइमं परेसिं लद्धुं । जो तं तिविहेण नानुकंपे, मनवयकायसुसंवुडे जे स भिक्खू ।।
मू. (५०६ )
वृ. 'यत् किञ्चित्' अल्पमपि 'आहारपानम्' अशनपानीयं विविधं 'खाइमसाइमं 'ति चस्य गम्यमानत्वात् स्वादिमस्वादिमं च उक्तरूपं 'परेसिं' ति 'परेभ्यः ' गृहस्थेभ्य: 'लद्धुं 'ति' लब्ध्वा ' प्राप्य यः 'तं'ति सुब्व्यत्ययात्तेनाहारादिना 'त्रिविधेन' मनोवाक्कायलक्षणेन प्रकारत्रयेण नानुकम्पते, कोऽर्थः ।-ग्लानबालादीन्नोपकुरुते न स भिक्षुरिति वाक्यशेषः, यस्तु मनोवाक्कायैः सुष्ठु संवृतो निरुद्धतथाविधाहारद्यभिलाषः सुसंवृता वा मनोवाक्काया यस्येति सुसंवृतमनोवाक्कायः, तत एव ग्लानादीननुकम्पत इति गम्यते, सभिक्षुः, यदिवा 'नानुकम्पते' इत्यत्र 'ना' पुरुषोऽनुकम्पते (नानुरूपो न कम्पते) मनोवाक्कायसुसंवृतः सन् स भिक्षुरिति सूत्रार्थः ॥ अनेनार्थतो गृद्धयभावाभिधानादङ्गारदोषपरीहार उक्तः, सम्प्रति धुमपरिहारमाहमू. (५०७ ) आयामगं चेव जवोदनं च, सीयं सोवीरजवोदगं च ।
नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिव्वए स भिक्खू ॥ वृ.आयाममेव आयामकम् - अवश्रावणं चशब्द उत्तरापेक्षया समुच्चये स्वगतानेकभेदख्यापको वा, 'एव' इति प्राग्वत्, 'यवोदनं च' यवभक्तं 'सीयं 'ति शीतं - शीतलमन्तप्रान्तोपलक्षणं चैतत्, सोवीरं-आचाम्लं यवोदकं च-यवप्रक्षालनं पानीयं सोवीरयवोदकं, तच्च 'नो हीलयेत्' धिगिदं किमनेनामनोज्ञेनेति न निन्देत् पिण्ड्यते - सङ्घात्यते, कोऽर्थः ? गृहिभ्यः उपलभ्य संमील्यत इति पिण्डस्तमायामकाद्येन 'नीरसं' विगतास्वादं' 'तुः' अप्यर्थस्ततो नीरसमपि, अत एव 'प्रान्तकुलनि' तृच्छाशयगृहाणि दरिद्रकुलानि वा यः परिव्रजेत्स भिक्षुरिति सूत्रार्थः ॥ अन्यच्च
मू. (५०८ ) सद्दा विविहा भवंति लोए, दिव्वा मानुसया तहा तिरिच्छा । भीमा भयभेरवा उराला, जो सुच्चा न बिहिज्जई स भिक्खू ॥
वृ.'शब्दाः' ध्वनयः ‘विविधाः ' विमर्शप्रद्वेषादिना विधीयमानतया नानाप्रकाराः 'भवन्ति'
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International