________________
३५६
उत्तराध्ययन-मूलसूत्रम्-१-१५/५०१ इत्यादि। तथा अङ्गविकार:' शिर:-स्फुरणादिस्तच्छुभाशुभसूचकं शास्त्रमप्यङ्गविकारो यथा 'दक्षिणाक्षिस्पन्दने प्रियं भविष्यती'त्यादि । तथा स्वर:-पोदकीशिवादिरुतरूपस्तस्य विषयः-तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, यथा
"गतिस्तारा स्वरो वामः, पोदक्याः शुभदः स्मृतः।
विपरीतः प्रवेशे तु, स एवाभीष्टदायकः ।। तथा
"दुर्गास्वरत्रयं स्याज्ज्ञातव्यं शाकुनेन नैपुण्यात् ।
चिलिचिलिशब्दः सफलः सुसु मध्यश्चलचलो विफलः ।।" इत्यादि। ततो य एताभिर्विद्याभिर्न जीवति नैता एव जीविका: शुभाशुभ: प्रकल्प्य प्राणान् धारयति स भिक्षुरिति सूत्रार्थः ।। अनेन निमित्तलक्षणोत्पादनादोषपरिहार उक्तः,
सम्प्रति मन्त्रादिरूपतदोषपरिहारायाहमू. (५०२) मंतं मूलं विविहं विज्जचिंतं, वमनविरेयनघूमनित्तसिणाणं।
आउरे सरणं तिगिच्छियं च, तं परिन्नाय परिव्वए स भिक्खू ॥ वृ. 'मन्त्रम्' ॐकारादिस्वाहापर्यन्तो ीकारादिवर्णविन्यासात्मकस्तं, 'मूलं' सहदेवीमूलिकाकल्पादितत्तच्छास्त्रविहितं मूलकर्म वा 'विविधं' नानाप्रकारं वैद्यचिन्त' वैद्यसम्बन्धिनी नानाविधौषपथ्यादिव्यापारात्मिका, विविधामित्यत्रापि डमरुकमणिन्यायेन योज्यते, वमनम्-उद्गिरणं विरेचनं-कोष्ठशुद्धिरूपं धूम-मनःशिलादिसम्बन्धि नेत्तंति-नेत्रशब्देन नेत्रसंस्कारमिह समीराञ्जनादि परिगृह्यते, स्नानम्-अपत्यार्थं मन्त्रौषधिसंस्कृतजलाभिषेनं, वमनादीनां च स्नानावसानानामिह कृतसमाहाराणां निर्देशः, आउरे सरणं"ति, सुब्यत्ययाद् 'आतुरस्य' रोगादिपीडितस्य 'शरणं' स्मरणं हा तात! हा मातः ! इत्यादिरूपं 'चिकित्सितं च' आत्मनो रोगप्रतीकाररूपं 'तद्' इति यदनन्तरमुक्तं 'परिनाय'त्ति ज्ञपरिज्ञय परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'परिव्रजेत्' सर्वप्रकारं संयमाध्वनि यायाधः स भिक्षुरिति सूत्रार्थः ॥ अपरं चमू. (५०३) खत्तियगणउग्गरायपुत्ता, माहणभोई य विविहा य सिप्पिणो।
नो तेसिं वयइ सिलोगपूअं, तं परिनाय परिव्वए स भिक्खू॥ व. क्षत्रियाः-हैहेयाद्यन्वयजा गणाः-मल्लादिसमूहा:उग्रा:-आरक्षकादयः राजपुत्राःनृपसुताः, एषां द्वन्द्वः, 'माहनभोगिकाः' तत्र माहना ब्राह्मणस्तथा भोगेन-विशिष्टनेपथ्यादिना चरन्ति भोगिका:-नृपतिमान्याः प्रधानपुरुषाः, "विविधाश्च' नानाप्रकाराः 'शिल्पिनः' स्थपतिप्रभृतयः, पठन्ति च-'सिप्पिनोऽन्ने' तत्र चान्ये इति शिल्पिविशेषणमुभयत्र च य इति शेषः, 'नो' नैव तेषां' क्षत्रियादीनां वदति' प्रतिपादयति, के?-'श्लोकपूजे' श्लोकं-श्लाघां यथैते शोभना इति, पूजां च-यथैतान् पूजयतेति, उभयत्र पापानुमत्यादिमहादोषसम्भवात्, किंतु 'तदिति श्लोकपूजादिकं द्विविधयाऽपि परिज्ञया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः॥ अनेन वनीपकत्वस्य परिहार उक्तः, साम्प्रतं संस्तवपरिहारमाहमू. (५०४ ) गिहिणो जे पव्वइएण दिट्ठा, अप्पव्वईएण व संथुया हविज्जा।
तेसिं इहलोयफलट्ठयाए, जो संथवं न करेइ स भिक्खू॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org