SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - १५, [ नि. ३७९] ३५५ कौतुकम्, उपलक्षणत्वाद्भुक्तभोगताया स्मृति, च 'उपैति' गच्छति स भिक्षुरिति सूत्रार्थः ॥ इत्थं परीषहसहनेन भिक्षुत्वसमर्थनात् सिंहविहारित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाहमू. (५०१) छिन्नं सरं भोमं अंतलिक्खं, सुविनं लक्खणं दंड वत्थुविज्जं । अंगविगारं सरस्सविजयं, जो विज्जाहिं न जीवई स भिक्खू ।। वृ. छेदनं छिन्नं वसनदशनदार्वादीनां तद्विषयशुभाशुभनिरूपिका विद्याऽपि छिन्नमित्युक्ता, एवं सर्वत्र। 'देवेसु उत्तमो लाभो' इत्यादि, तथा 'सरं 'त्ति स्वरस्वरूपाभिधानं, "सज्जं वइ मयूरो, कुक्कुडो रिसभं सरं । हंसो त गंधारं, मज्झिमं तु गवेलए ॥" "सज्जेण लहइ वित्ति, कयं च न विनस्सई । गाव पुत्ताय मित्ताय, नारीणं होइ वल्लहो ।।" इत्यादि, तथा रिसहेण उईसारियं, सेणावच्चं धणाणि य" इत्यादि । तथा भूमिः - पृथ्वी भूमौ भवं भौमंभूकम्पादिलक्षणं, यथा "शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ।। " इत्यादि । तथा अन्तरिक्षम् - आकाशं तत्र भवम् आन्तरिक्षं-- गन्धर्वनगरादिलक्षणं, यथा"कपिलं शस्यघाताय, माजिष्टे हरणं गवाम् । अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः ॥ १ ॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । सौम्या दिशं समाश्रित्य राज्ञस्तद्विजयङ्करम् ॥२॥” इत्यादि । तथा 'स्वप्नं' स्वप्नगतं शुभाशुभकथनं, यथा “गायने रोदनं ब्रूयान्नर्त्तने वधबन्धनम् । हसने शोचनं ब्रूयात्पठने कलहं तथा ॥ " इत्यादि । तथा 'लक्षणं' स्त्रीपुरुषयोर्यथा Jain Education International 'चक्खुसिनेहे सुहितो दंतसिनेहे य भोयणं मिट्ठे । तयहेण य सोक्खं नहने होइ परमघनं ।। " इत्यादि, गजादीनां च यथायथं वालुकाप्यादिविहितम् । तथा 'दंड' त्ति 'दण्डः' यष्टित्सत्स्वरूपकथनम्, “एवपव्वं पसंसंति, दुपव्वा कलहकारिय"त्ति, इत्यादि । तथा 'वास्तुविद्या" प्रासादादिलक्षणाभिधायिशास्त्रात्मिका "कुटिला भूमिजाश्चैव, वैनीका द्वन्द्वजास्तथा । लतिनो नागराश्चैव, प्रासादाः क्षितिमण्डनाः ||१|| सूक्ता: पदविभागेन, कर्ममार्गेण सुन्दराः । फलावाप्तिकरा लोके, भङ्गभेदयुता विभोः ॥२॥ अण्डकैस्तु विविक्तास्ते, निर्गमैश्चारुरूपकैः । चित्रपत्रैर्विचित्रैश्च विविधाऽऽकाररूपकैः ||३|| For Private & Personal Use Only ? www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy