________________
३५४
स्यापि दर्शनात् उक्तं हि
उत्तराध्ययन- मूलसूत्रम् - १-१५ / ४९७
“धर्मभृत्यग्निधीन्द्वर्कत्वक्तत्त्वस्वार्थदेहिषु । शीलानिलमनोयत्नैकवीर्येष्वात्मनः स्मृतिः ॥” इति,
तेन गुप्त आत्मगुप्तो न यतस्तत: करणचरणादिविक्षेपकृत्, यद्वा गुप्तो- रक्षितोऽसंयमस्थानेभ्य् आत्मा येन स तथा, अव्यग्रम्- अनाकुलमसमञ्जसचिन्तोपरमतो मनः--चित्तमस्येत्यव्य ग्रमना न संप्रहृष्टः असंप्रहृष्टः- आक्रोशादिषु न प्रहर्षवान्, यथा कश्चिदाह - "कश्चित् पुमान् क्षिपति मां परिरूपवाक्यैः, श्रीमत्क्षमाभरणमेत्य मुदं व्रजामि" इत्यादि, प्रकृतोपसंहारमाह-य: 'कृत्स्नम्' उत्कृष्टादिभेदतः समस्तमाक्रोशवधम् 'अध्यास्ते' सहते समतयेति गम्यते, स भिक्षुरिति सूत्रार्थः ॥ किं च
मू. (४९८ ) पंतं सयनासनं भइत्ता, सीउण्हं विविहं च दंसमसगं । अव्वग्गमने असंपहिट्टे, जो कसिणं अहिआसए स भिक्खू ॥
-
वृ. 'प्रान्तम्' अवमं शयनं च संस्तारकादि आसनं च- पीठकादि शयनासनम् उपलक्षणत्वाद्भोजनाच्छादनादि च 'मुक्त्वा' सेवित्वा शीतं चोषणं च शीतोषणम् उक्तरूपं, चस्य गम्यमानत्वात्तच्च सेवित्वा 'विविधं च' नानाप्रकारं दंशाश्च मशकाश्च दंशमशकं प्राग् व्याख्यातमेव प्राप्येति शेषो, मत्कुणाद्युपलक्षणं चैतत्, अव्यग्रमना असंप्रहृष्टो यः कृत्स्नमध्यास्ते स भिक्षुरिति प्राग्वत् । इह च प्रान्तं शयनासनं भुक्त्वेति अतिसात्त्विकतादर्शनार्थं, प्रान्तशयनादितायां हि सुदुःसहाः शीतादयः, अनेन शीतोष्णदंशमशकपरीषहसहनमुक्तमिति सूत्रार्थः ॥ अपरं - मू. (४९९ ) नो सक्कियमिच्छई न पूअं, नोवि य वंदणगं कुओ पसंसं ? । से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ।।
-
वृ.'नो' निषेधे ‘सत्कृतं' सत्कारमभ्युत्थानानुगमादिरूपम् 'इच्छति' अभिलषति, प्राकृतत्वाच्च सूत्रे दीर्घनिर्देशः, न 'पूजां' वस्त्रपात्रादिभिः सपर्यां, 'नो अपि च' इति नैव च 'वन्दनकं' द्वादशावर्त्तादिरूपं, कुतः ‘प्रशंसां' निजगुणोत्कीर्त्तनरूपां ?, नैवेच्छतीत्यभिप्रायः, 'सः' एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतोऽत एव च सुव्रतः सुव्रतत्वाच्च 'तपस्वी' प्रशस्यातपाः, तथा च सहितः सम्यग्ज्ञानक्रियाभ्यां यद्वा सह हितेन - आयतिपध्येन अर्थादनुष्ठानेन वर्त्तत इति सहितः, तत एव चात्मानं कर्मविगमाच्छुद्धस्वरूपं गवेषयति-कथमयमित्थंभूतो भवेदित्यन्वेषयते यः स आत्मगवेषकः, यद्वा आयः सम्यग्दर्शनादिलाभः सूत्रत्वादायतो वामोक्षस्तं गवेषयतीत्वाय गवेषक आयतगवेषको वा यः स भिक्षुरिति सूत्रार्थः ॥
अनेन सत्कारपुरस्कारपरीषहसहनमुक्तं, सम्प्रति स्त्रीपरीषहसहनमाहमू. (५०० ) जेन पुनो जहाइ जीवियं, मोहं वा कसिणं नियच्छई । नरनारिं पयहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू ॥
वृ. येन हेतुना, पुनः शब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतकः, 'जहाति' त्यजति ‘जीवितं' संयमजीवितं ‘मोहं वा' मोहनीयं वा कषायनोकषायापायादिरूपं 'कृत्स्नं' समस्तं कृष्णं वा शुद्धाशयविनाशकतया 'नियच्छति' बन्धाति तदेवंविधं नरश्च नारी च नरनारी 'प्रजह्यात्' प्रकर्षेण त्यजेत् य: 'सदा' सर्वकालं तपस्वी, न च 'कुतूहलम्' अभुक्तभोगतायां स्त्र्यादिविषयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org