Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 361
________________ ३५८ उत्तराध्ययन- मूलसूत्रम् - १-१५/५०८ जायनत्‘लोके' जगति ‘दिव्याः' देवसम्बन्धिनः 'मानुष्यकाः' मनुष्यसम्बन्धिनस्तथा 'तैरश्चा: ' तिर्यक्सम्बन्धिनः ‘भीमाः ' रौद्राः भयेन भैरवाः - अत्यन्तसाध्वसोत्पादका भयभैरवाः 'उदाराः ' महान्तो यः ‘श्रुत्वा' आकर्ण्य प्रक्रमादुक्तविशेषणविशिष्टानेव शब्दान् 'न व्यथते' न बिभेति धर्मध्यानतो न चलति वा स भिक्षुरिति सूत्रार्थः ॥ अनेनोपसर्गसहिष्णुत्वं सिंहविहारितायां निमित्तमुक्तं, सम्प्रति समस्तधर्माचारमूलं सम्यक्त्वस्थैर्यमाह मू. (५०९ ) वायं विविहं समिच्च लोए, सहिए खेयानुगए अ कोवियप्पा । पन्ने अभिभूय सव्वदंसी, उवसंते अविहेडए स भिक्खू ।। वृ.‘वादं' च स्वस्वदर्शनाभिप्रायवचनविज्ञानात्मकं 'विविधम्' अनेकप्रकारं, धर्मविषयेऽपि ह्यनेकधा विवदन्ते, यथोक्तं "सेतुकरणेऽपि धर्मो भवत्यसेतुकरणेऽपि किल धर्मः । गृहवासेऽपि च धर्मो वनेऽपि वसतां भवति धर्मः ॥" मुण्डस्य भवति धर्मस्तथा जटाभिः सवाससां धर्मः" इत्यादिरूपं 'समेत्य' ज्ञात्वा लोके सहितः स्वहितो वा पाग्वत् खेदयत्यनेन कर्मेति खेदः -संयमस्तेनानुगतो- युक्तः खेदानुगतः 'चः' पूरणे कोविदः-लब्धशास्त्रपरमार्थ आत्माऽस्येति कोविदात्मा, ‘पन्ने अभिभूय सव्वदंसी उवसंते'त्ति प्राग्वत्, 'अविहेठक: ' न कस्यचिद्विबाधको यः स भिक्षुरिति सूत्रार्थः । तथा मू. (५१० ) असिप्पजीवि अगिहे अमित्ते, जिइंदिओ सव्वओ विप्पमुक्के । अनुक्कसाई लहु अप्पभक्खी, चिच्चा गिहं एगचरे स भिक्खू ।। वृ. शिल्पेन - चित्रपत्रच्छेदादिविज्ञानेन जीवितुं शीलमस्येति शिल्पजीवी न तथाऽशिल्पजीवी 'अगृहः' गृहविरहितः तथा अविद्यमानानि मित्राणी-अभिष्वङ्गहेतवो वयस्या यस्यासावमित्रः, जितानि-वशीकृतानि 'इन्द्रियाणि' श्रोत्रादीनि येन स तथा, 'सर्वतः 'बाह्यादभ्यन्तराच्च ग्रन्थादिति गम्यते, विविधैः प्रकारै: प्रकर्षेण मुक्तो विप्रमुक्तः, तथा अनवः - स्वल्पाः सञ्ज्वलन -- नामान इतियावत् कषायाः - क्रोधादयो यस्येति सर्वधनादित्यादिनि प्रत्ययेऽणुकषायी, प्राकृतत्वात्सूत्रे ककारस्य द्वित्वं यद्वा उत्कषायी - प्रबलकषायी न तथाऽनुत्कषायी अल्पानि - स्तोकानि लघूनि-नि: निष्पावादीनि भक्षयितुं शीलमस्येति अल्पलघुभक्षी, सूत्रे तिव्यत्ययः प्राग्वत्, 'त्यक्त्वा' अपहा भेदभिन्नम्, एको- रागद्वेषरहितः तथाविधयोग्यतावाप्तावसहायो वा चरतिविहरत्येकचरो अनेनैकाकिविहार उपलक्षित इति सूत्रार्थः ॥ 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववदेव, अध्ययनं - १५ समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे पञ्चदशमध्ययनं सनिर्युक्तिः सटीकं समाप्तम् अध्ययनं - १६ - ब्रह्मचर्य समाधिः वृ. उक्त पञ्चदशमध्ययनम्, अधुना षोडशमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने भिक्षुगुणा उक्ताः, ते च तत्त्वतो ब्रह्मचर्यव्यवस्थितस्य भवन्ति, तदपि च ब्रह्मगुप्तिपरिज्ञानत Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388