Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 357
________________ ३५४ स्यापि दर्शनात् उक्तं हि उत्तराध्ययन- मूलसूत्रम् - १-१५ / ४९७ “धर्मभृत्यग्निधीन्द्वर्कत्वक्तत्त्वस्वार्थदेहिषु । शीलानिलमनोयत्नैकवीर्येष्वात्मनः स्मृतिः ॥” इति, तेन गुप्त आत्मगुप्तो न यतस्तत: करणचरणादिविक्षेपकृत्, यद्वा गुप्तो- रक्षितोऽसंयमस्थानेभ्य् आत्मा येन स तथा, अव्यग्रम्- अनाकुलमसमञ्जसचिन्तोपरमतो मनः--चित्तमस्येत्यव्य ग्रमना न संप्रहृष्टः असंप्रहृष्टः- आक्रोशादिषु न प्रहर्षवान्, यथा कश्चिदाह - "कश्चित् पुमान् क्षिपति मां परिरूपवाक्यैः, श्रीमत्क्षमाभरणमेत्य मुदं व्रजामि" इत्यादि, प्रकृतोपसंहारमाह-य: 'कृत्स्नम्' उत्कृष्टादिभेदतः समस्तमाक्रोशवधम् 'अध्यास्ते' सहते समतयेति गम्यते, स भिक्षुरिति सूत्रार्थः ॥ किं च मू. (४९८ ) पंतं सयनासनं भइत्ता, सीउण्हं विविहं च दंसमसगं । अव्वग्गमने असंपहिट्टे, जो कसिणं अहिआसए स भिक्खू ॥ - वृ. 'प्रान्तम्' अवमं शयनं च संस्तारकादि आसनं च- पीठकादि शयनासनम् उपलक्षणत्वाद्भोजनाच्छादनादि च 'मुक्त्वा' सेवित्वा शीतं चोषणं च शीतोषणम् उक्तरूपं, चस्य गम्यमानत्वात्तच्च सेवित्वा 'विविधं च' नानाप्रकारं दंशाश्च मशकाश्च दंशमशकं प्राग् व्याख्यातमेव प्राप्येति शेषो, मत्कुणाद्युपलक्षणं चैतत्, अव्यग्रमना असंप्रहृष्टो यः कृत्स्नमध्यास्ते स भिक्षुरिति प्राग्वत् । इह च प्रान्तं शयनासनं भुक्त्वेति अतिसात्त्विकतादर्शनार्थं, प्रान्तशयनादितायां हि सुदुःसहाः शीतादयः, अनेन शीतोष्णदंशमशकपरीषहसहनमुक्तमिति सूत्रार्थः ॥ अपरं - मू. (४९९ ) नो सक्कियमिच्छई न पूअं, नोवि य वंदणगं कुओ पसंसं ? । से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ।। - वृ.'नो' निषेधे ‘सत्कृतं' सत्कारमभ्युत्थानानुगमादिरूपम् 'इच्छति' अभिलषति, प्राकृतत्वाच्च सूत्रे दीर्घनिर्देशः, न 'पूजां' वस्त्रपात्रादिभिः सपर्यां, 'नो अपि च' इति नैव च 'वन्दनकं' द्वादशावर्त्तादिरूपं, कुतः ‘प्रशंसां' निजगुणोत्कीर्त्तनरूपां ?, नैवेच्छतीत्यभिप्रायः, 'सः' एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतोऽत एव च सुव्रतः सुव्रतत्वाच्च 'तपस्वी' प्रशस्यातपाः, तथा च सहितः सम्यग्ज्ञानक्रियाभ्यां यद्वा सह हितेन - आयतिपध्येन अर्थादनुष्ठानेन वर्त्तत इति सहितः, तत एव चात्मानं कर्मविगमाच्छुद्धस्वरूपं गवेषयति-कथमयमित्थंभूतो भवेदित्यन्वेषयते यः स आत्मगवेषकः, यद्वा आयः सम्यग्दर्शनादिलाभः सूत्रत्वादायतो वामोक्षस्तं गवेषयतीत्वाय गवेषक आयतगवेषको वा यः स भिक्षुरिति सूत्रार्थः ॥ अनेन सत्कारपुरस्कारपरीषहसहनमुक्तं, सम्प्रति स्त्रीपरीषहसहनमाहमू. (५०० ) जेन पुनो जहाइ जीवियं, मोहं वा कसिणं नियच्छई । नरनारिं पयहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू ॥ वृ. येन हेतुना, पुनः शब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतकः, 'जहाति' त्यजति ‘जीवितं' संयमजीवितं ‘मोहं वा' मोहनीयं वा कषायनोकषायापायादिरूपं 'कृत्स्नं' समस्तं कृष्णं वा शुद्धाशयविनाशकतया 'नियच्छति' बन्धाति तदेवंविधं नरश्च नारी च नरनारी 'प्रजह्यात्' प्रकर्षेण त्यजेत् य: 'सदा' सर्वकालं तपस्वी, न च 'कुतूहलम्' अभुक्तभोगतायां स्त्र्यादिविषयं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388