Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं-१५,[नि. ३७९]
३५३ त्प्राकृतत्वात्, छिन्ननिदानो वा अप्रमत्तसंयत इत्यर्थः, संस्तवं' पूर्वसंस्तुतैर्मात्रादिभिः, पश्चात्संस्तुतैश्च श्वश्र्वादिभिः परिचयं 'जह्यात्' त्यजेत्, 'शकि च लिङ्' इत्यनेन शक्याथै लिङ् ततः संस्तवं हातुं शक्तो य इति, ___ एवं लिडर्थभावना सर्वत्र कार्या, तथा कामान्-इच्छाकाममदनकामभेदान् कामयते-प्रार्थयते यः स कामकामो न तथा अकामकाम: यद्वाऽकामो-मोक्षस्तत्र सकलाभिलाषनिवृत्तेस्तं कामयते यः स तथा, अत एव अज्ञातः-तपस्वितादिभिर्गुणैरनवगतः एषयते-ग्रासादिकं गवेषयतीत्येवंशीलोऽज्ञातैषी 'परिव्रजेद्' अनियतविहारितया विहरेत् ‘स भिक्खुत्ति' यत्तदोर्नित्याभिसम्बन्धाद् य एवंविधः स भिक्षुः, अनेन सिंहतयैव विहरणं भिक्षुत्वनिबन्धनमुक्तमिति सुत्रार्थः ॥ तच्च सिंहतया विहरणं यथा स्यात्तथा विशेषत आहमू. (४९६) राओवरयं चरिज्ज लाढे, विरए वेदवियाऽऽयरक्खिए।
पन्ने अभिभूय सव्वदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ॥ वृ. राग:-अभिष्वङ्ग उपरतो-निवृत्तो यस्मितद्रागोपरतं यथा भवत्येवं 'चरेद्' विहरेत्, क्तान्तस्य परनिपातः प्राग्वत्, अनेन मैथुननिवृत्तिरुक्ता, रागाविनाभावित्वान्मैथुनस्य, यद्वाऽऽवृत्तिन्यायेन 'रातोवरयं'ति रात्र्युपरतं 'चरेत्' भक्षयेदित्यनेनैव रात्रिभोजननिवृत्तिरप्युक्ता, 'लाढे'त्ति सदनुष्ठानतया प्रधानो विरत:-असंयमानिवृत्तः, अनेन च संयमस्याक्षेपात्प्राणातिपातनिवृत्तिः सावधवचननिवत्तिरूपत्वाद्वाक्संयमस्य मृषावादनिवृत्तिश्चाभिहिता बेदितव्या, वेद्यतेऽनेन तत्त्वमिति वेदः-सिद्धान्तस्तस्य वेदनं वित्तया आत्मा रक्षितो-दुर्गतिपतनान्त्रातोऽनेनेति वेदविदात्मरक्षितः, यद्वा वेदं वेत्तीति वेदवित्, तथा रक्षिता आयाः-सम्यग्दर्शनादिलाभा येनेति रक्षितायः, रक्षितशब्दस्य परनिपातः प्राग्वत्, 'प्राज्ञः' हेयोपादेयबुद्धिमान् 'अभिभूय' पराजित्य परीषहोपसर्गानिति गम्यते, 'सर्व' समस्तं गम्यमानत्वात्प्राणिगणं पश्यतिआत्मवत्प्रेक्षत इत्येवंशीलः, अथवाऽभिभूय रागद्वेषौ सर्वं वस्तु समतया पश्यतीत्येवंशील: सर्वदर्शी, यदिवा सर्वं दशति-भक्षयतीत्येवंशीलः सर्वदंशी, उक्तं हि
"पडिग्गहं संलिहित्ता णं, लेवमायाए संजए।
दुग्गंधं वा सुगंधं वा, सव्वं भुंजे न छड्डए ।।" अत एव यः कस्मिंश्चित्सचित्तादिवस्तुनि न मूच्छितः-प्रतिबद्धः, एतेन परिग्रहे निवृत्तेरभिधानमप्रतिबद्धश्च कथमदत्तमाददीत? इत्यदत्तादाननिवृत्तेश्च, तथा च य एवं मूलगुणान्वितः स भिक्षुरित्युक्तं भवतीति सूत्रार्थः ।। अन्यच्च
मू.(४९७) अक्कोसवहं विदित्तु धीरे, मुनी चरे लाढे निच्चमायगुत्ते । - अव्वग्गमने असंपहिढे, जो कसिणं अहिआसए स भिक्खू॥ वृ. आक्रोशनमाक्रोश:-असभ्यालापो वधो-घातस्ताडनं वा, अनयोः समाहारद्वन्द्वे आक्रोशवधं तद्विदित्या स्वकृतकर्मफलमेतदिति मत्वा धीरः' अक्षोभ्यः सम्यक् सोढेतियावत् 'मुनिः' यतिः 'चरेत्' पर्यटद् अनियतविहारतयेति गम्यते, ततश्चानेनाक्रोशवधचर्यापरीषहसहनमुक्तं, 'लाढे'त्ति प्राग्वत्, 'नित्यम्' इति सदा 'आत्मा' शरीरम्, आत्मशब्दस्य शरीरवचन28/23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388