Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 354
________________ अध्ययनं - १४, [ नि. ३७३ ] ३५१ अचिरेणेव कालेन, दुक्खस्संतमुवागया ॥ वृ. 'शासने' दर्शने विगतमोहानाम् - अर्हतां 'पूर्व' मित्यन्यजन्मनि भावनया - अभ्यासरूपया भावितानि -वासितानि भावनाभावितानि, यद्वा भाविता भावना यैस्तानि भावितभावनानि, पूर्वोत्तरनिपातस्यातन्त्रत्वाद्, अत एवाचिरेणैव स्वल्पेनैव कालेन 'दुःखस्यान्तं' मोक्षम् ' उपागतानि' प्राप्तानि, सर्वत्र च प्राकृतत्वात्पुंल्लिङ्गनिर्देशः । मन्दमतिस्मरणायाध्ययनार्थमुपसंहर्तृमाहमू. ( ४९४ ) राया सह देवीए, माहणो उ पुरोहिओ । माहणी दारगा चेव, सव्वे ते परिनिव्वुडि ॥ त्तिबेमि वृ. 'राजा' इषुकारः सह 'देव्या' कमलावत्या ब्राह्मणश्च पुरोहितो भृगुनामा ब्राह्मणी तत्पत्त्री यसा दारकौ तत्पुत्रौ चैवेति पूर्ववत्सर्वाणि तानि 'परिनिर्वृतानि' कर्माग्न्युपशमतः शीतीभूतानि मुक्तिं गतानीतियावदिति सूत्रत्रयार्थः ॥ 'इति' परिसमाप्तौ ब्रवमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् । अध्ययनं - १४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययसूत्रे चतुर्दशअध्ययनस्य भद्रबाहुसूरिविरचिता निर्युक्तिः एवं शान्त्याचार्यविरचिता टीका परिसमाप्ता अध्ययनं - ९५ - सभिक्षुकः " वृ. व्याख्यातं चतुर्दशमध्ययनं सम्प्रति पञ्चदशमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतो भिक्षोरेव, भिक्षुश्च गुणत इति तद्गुणा अनेनोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववद्वयावर्ण्यानि तावद्यावन्नामनिष्पन्ननिक्षेपे सभिक्षुकमिति नाम, तत्र च सशब्दो भिक्षुशब्दश्च दशवैकालिक एव निक्षिप्तस्तथाऽपि स्थानाशून्यार्थं भिक्षुनिक्षेपमाह नियुक्तिकृत् नि. [ ३७४ ] नि. [ ३७५ ] निक्खेव भिक्खुमी चउव्विहो० ॥ जाणयसरीरभविए तव्वइरित्ते अ निण्हगाईसु । जो भइ खुहं खलु सो भिक्खू भावओ होइ || वृ. 'निक्षेप:' न्यासः भिक्षौ विचार्ये चतुर्विधो नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे, द्विविधो भवति द्रव्ये विचार्ये आगमतो नोआगमतः, तत्रागमतो भिक्षुपदार्थज्ञस्तत्र चानुपयुक्तो, नोआगमतश्च स त्रिविध:- 'जाणगसरीरभविए'त्ति ज्ञशरीरभव्यशरीरे तद्व्यतिरिक्तश्च तत्राद्यौ सुगमावेव तद्यतिरिक्तस्तु द्रव्यभिक्षुर्निह्नवादिषु, आदि शब्दात्सरजस्कादिषु चान्यतरो विवक्षित इति गम्यते, द्रव्यत्वं चास्य रागादिलक्षणक्षुद्धेत्तृत्वाभावात्, भावभिक्षुमाह-यो 'भिनत्ति' विदारयति क्षुधं 'खलुः' अवधारणे भिन्नक्रमश्च, ततः स एव भिक्षुर्भावतो भवतीति गाथाद्वयारथः । इह च भिनत्तीत्युक्तमतः कर्तुकरणकर्मभिः प्रयोजनं, सकर्मकत्वाद्भिदेः, अत आह नि. [ ३७६ ] भेत्ता य अणं वा नायव्वं भिदियव्वयं । इक्किकंपि अ दुविहं दव्वे भावे अ नायव्वं ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388