Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 355
________________ नि. [ ३७७ ] उत्तराध्ययन- मूलसूत्रम् - १-१५ / ४९४ रहकारपरसुमाई दारुगमाई अ दव्वओ हुंति । साहू कम्मट्ठविहं तवो अ भावंमि नायव्वो । रागद्दोसा दंडा जोगा तह गारवा य सल्ला य । विगहाओ सन्नाओ सुहं कसाया पमाया य ।। नि. [ ३७८ ] वृ. भेत्ता च कर्त्ता यो भिनत्ति, भेदनं करणं येन भिनत्ति 'वा' समुच्चये 'ज्ञातव्यं' बोद्धव्यं भेत्तव्यमेव भेत्तव्यकं कर्म यद्भिद्यते, 'च: ' समुच्चये, 'एव' इति पूरणे, 'एकैकमपि चे 'ति भेत्ता भेदनं भेत्तव्यकं च 'द्विविधं' द्विभेदं द्रव्ये भावे च विचार्यमाने 'ज्ञातव्यम्' अवगन्तव्यं । तत्र द्रव्ये 'रहगारपरसुमाइ 'त्ति आदिशब्दस्य प्रत्येकमभिसम्बन्धातद् रथकारः - तक्षकस्तदादिर्द्रव्यतो भेत्ता, आदिशब्दादयस्कारादिपग्रहः, परशुः - कुठारस्तदादिर्द्रव्यतो भेदनम्, आदिशब्दाद् घनादयो गृह्यन्ते, 'दारुगमाई य'त्ति दारुकं-काष्ठं तदादि च द्रव्यतो भेद्यम्, आदिशब्दालोहादि परिग्रहः, भवन्तीति सर्वापेक्षं बहुवचनम् । 'साधुः' तपस्वी 'कर्म' ज्ञानावरणादि 'अष्टविधम्' अष्टप्रकारं 'तपश्च' अनशनादि भावे विचार्ये भेत्ता भेत्तव्यं भेदनं च क्रमेण ज्ञातव्यम् । इत्थं 'जो भिदई खुहं खलु' इति ग्रहणकवाक्यं गतं, भिनत्तीति व्याख्याय क्षुधं व्याख्यातुमाह ‘रागद्वेषौ' उक्तरूपौ ‘दण्डाः' मनोदण्डादयो 'योगा' करणकारणानुमतिरूपाः, पठन्ति च- 'रागद्दोसा छुहं दंडा' अत्र च 'छुहं' ति क्षुध् बुभुक्षा उच्यते, तथा 'गौरवाणि च ' ऋद्धिगौरवादीनि 'शल्यानि च' मायाशल्यादीनि 'विकथा: ' स्त्रीकथादयः 'सञ्ज्ञा:' आहारसञ्ज्ञादयः, 'खुहं' ति एतद्भावभावित्वादष्टविधकर्मरूपायाः क्षुधः एतान्यपि क्षुदित्युच्यन्ते, प्राकृतत्वाच्च नपा निर्देशः, 'कषायाः ' क्रोधादयः 'प्रमादाश्च' मद्यादयः क्षुदिति सम्बन्धनीयमिति गाथात्र्यार्थः ।। उपसंहर्तृमाह - नि. [ ३७९ ] या तु खुहाई जे खलु भिदंति सुव्वया रिसओ । भिन्नकम्मी उविंति अयरामरं ठाणं || ३५२ वृ. 'एतानि' रागादीनि 'खुहाई' ति क्षुच्छब्दवाच्यानि ये खलु 'भिदिति' विदारयन्ति, खलुशब्द एवकारार्थो भिन्दन्त्येवेति शोभनानि अनतिचारतया व्रतानि प्राणातिपातविरत्यादीनि येषां ते सुव्रताः 'ऋषय्:' मुनयः, ते किमित्याह-भिन्नः कर्मैवातिदुर्भेदतया ग्रन्थिः कर्मग्रन्थियैस्ते तथाविधाः 'उपयान्ति' प्राप्नुवन्ति 'अजरामरं स्थानं' मुक्तिपदमिति गाथार्थः || उक्त नामनिष्पन्ननिक्षेपः सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम् ', मू. (४९५ ) मोनं चरिस्सामि समिच्च धम्मं, सहिए उज्जुकडे नियाणछिन्ने । संथवं जहिज्ज अकामकामे, अन्नायएसी परिव्वए स भिक्खू ।। वृ. मुनेः कर्म मौनं तच्च सम्यक्चारित्रं 'चरिस्सामो' त्ति सूत्रत्वात् चरिष्यामि - आसेविष्ये इत्यभिप्रायेणेत्युपस्कार:, 'समेत्य' प्राप्य 'धर्म' श्रुतचारित्रभेदं दीक्षामित्युक्तं भवति, 'सहितः ' सम्यग्दर्शनादिभिरन्यसाधुभिर्वेति गम्यते, स्वस्मै हितः स्वहितो वा सदनुष्ठानकरणतः, कश्चैवम् ? - ऋजुः -संयमस्तत्प्रधानं ऋजु वा मायात्यागतः कृतम् - अनुष्ठानं यस्येति ऋजुकृतः, हक्क इत्याह-निदानं - विषयाभिष्वङ्गात्मकं, यदिवा 'निदान बन्धने' ततश्च करणे ल्यूटू, , निदानंप्राणातिपातादिकर्मबन्धकरणं छिन्नम् - अपनीतं येन स तथा, क्तान्तस्य परनिपातः प्राग्व Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388