________________
नि. [ ३७७ ]
उत्तराध्ययन- मूलसूत्रम् - १-१५ / ४९४ रहकारपरसुमाई दारुगमाई अ दव्वओ हुंति । साहू कम्मट्ठविहं तवो अ भावंमि नायव्वो । रागद्दोसा दंडा जोगा तह गारवा य सल्ला य । विगहाओ सन्नाओ सुहं कसाया पमाया य ।।
नि. [ ३७८ ]
वृ. भेत्ता च कर्त्ता यो भिनत्ति, भेदनं करणं येन भिनत्ति 'वा' समुच्चये 'ज्ञातव्यं' बोद्धव्यं भेत्तव्यमेव भेत्तव्यकं कर्म यद्भिद्यते, 'च: ' समुच्चये, 'एव' इति पूरणे, 'एकैकमपि चे 'ति भेत्ता भेदनं भेत्तव्यकं च 'द्विविधं' द्विभेदं द्रव्ये भावे च विचार्यमाने 'ज्ञातव्यम्' अवगन्तव्यं ।
तत्र द्रव्ये 'रहगारपरसुमाइ 'त्ति आदिशब्दस्य प्रत्येकमभिसम्बन्धातद् रथकारः - तक्षकस्तदादिर्द्रव्यतो भेत्ता, आदिशब्दादयस्कारादिपग्रहः, परशुः - कुठारस्तदादिर्द्रव्यतो भेदनम्, आदिशब्दाद् घनादयो गृह्यन्ते, 'दारुगमाई य'त्ति दारुकं-काष्ठं तदादि च द्रव्यतो भेद्यम्, आदिशब्दालोहादि परिग्रहः, भवन्तीति सर्वापेक्षं बहुवचनम् । 'साधुः' तपस्वी 'कर्म' ज्ञानावरणादि 'अष्टविधम्' अष्टप्रकारं 'तपश्च' अनशनादि भावे विचार्ये भेत्ता भेत्तव्यं भेदनं च क्रमेण ज्ञातव्यम् । इत्थं 'जो भिदई खुहं खलु' इति ग्रहणकवाक्यं गतं, भिनत्तीति व्याख्याय क्षुधं व्याख्यातुमाह
‘रागद्वेषौ' उक्तरूपौ ‘दण्डाः' मनोदण्डादयो 'योगा' करणकारणानुमतिरूपाः, पठन्ति च- 'रागद्दोसा छुहं दंडा' अत्र च 'छुहं' ति क्षुध् बुभुक्षा उच्यते, तथा 'गौरवाणि च ' ऋद्धिगौरवादीनि 'शल्यानि च' मायाशल्यादीनि 'विकथा: ' स्त्रीकथादयः 'सञ्ज्ञा:' आहारसञ्ज्ञादयः, 'खुहं' ति एतद्भावभावित्वादष्टविधकर्मरूपायाः क्षुधः एतान्यपि क्षुदित्युच्यन्ते, प्राकृतत्वाच्च नपा निर्देशः, 'कषायाः ' क्रोधादयः 'प्रमादाश्च' मद्यादयः क्षुदिति सम्बन्धनीयमिति गाथात्र्यार्थः ।। उपसंहर्तृमाह
-
नि. [ ३७९ ] या तु खुहाई जे खलु भिदंति सुव्वया रिसओ । भिन्नकम्मी उविंति अयरामरं ठाणं ||
३५२
वृ. 'एतानि' रागादीनि 'खुहाई' ति क्षुच्छब्दवाच्यानि ये खलु 'भिदिति' विदारयन्ति, खलुशब्द एवकारार्थो भिन्दन्त्येवेति शोभनानि अनतिचारतया व्रतानि प्राणातिपातविरत्यादीनि येषां ते सुव्रताः 'ऋषय्:' मुनयः, ते किमित्याह-भिन्नः कर्मैवातिदुर्भेदतया ग्रन्थिः कर्मग्रन्थियैस्ते तथाविधाः 'उपयान्ति' प्राप्नुवन्ति 'अजरामरं स्थानं' मुक्तिपदमिति गाथार्थः || उक्त नामनिष्पन्ननिक्षेपः सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्
',
मू. (४९५ ) मोनं चरिस्सामि समिच्च धम्मं, सहिए उज्जुकडे नियाणछिन्ने । संथवं जहिज्ज अकामकामे, अन्नायएसी परिव्वए स भिक्खू ।।
वृ. मुनेः कर्म मौनं तच्च सम्यक्चारित्रं 'चरिस्सामो' त्ति सूत्रत्वात् चरिष्यामि - आसेविष्ये इत्यभिप्रायेणेत्युपस्कार:, 'समेत्य' प्राप्य 'धर्म' श्रुतचारित्रभेदं दीक्षामित्युक्तं भवति, 'सहितः ' सम्यग्दर्शनादिभिरन्यसाधुभिर्वेति गम्यते, स्वस्मै हितः स्वहितो वा सदनुष्ठानकरणतः, कश्चैवम् ? - ऋजुः -संयमस्तत्प्रधानं ऋजु वा मायात्यागतः कृतम् - अनुष्ठानं यस्येति ऋजुकृतः, हक्क इत्याह-निदानं - विषयाभिष्वङ्गात्मकं, यदिवा 'निदान बन्धने' ततश्च करणे ल्यूटू, , निदानंप्राणातिपातादिकर्मबन्धकरणं छिन्नम् - अपनीतं येन स तथा, क्तान्तस्य परनिपातः प्राग्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org