Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 343
________________ ३४० उत्तराध्ययन- मूलसूत्रम् - १-१४/४५४ वृ. क्षणमात्रं सौख्यं येषु ते तथा, बहुकालं नरकादिषु दुःखं शारीरं मानसं च येभ्यस्ते तथाविधाः, कदाचित्खल्पकालमपि सुखमतिशायि स्याद् दुःखं त्वन्यथेति स्वल्पकालमपि तद्बहुकाल भाविनोऽपि दुःखस्योपहन्तृ स्यादत आह- प्रकामम्-अतिशयेन दुःखं येभ्यस्ते तथा, 'अनिकामसौख्या:' अप्रकृष्टसुखाः, ईदृशा अप्यायतौ शुभफलाः स्युरत आह-संसारान्मोक्षोविश्लेष: संसारमोक्षो निर्वृत्तिरित्यर्थस्तस्य विपक्षभूताः- तत्प्रतिबन्धकतयाऽत्यन्तप्रतिकूलाः, किमित्येवंविधास्ते इत्याह- खनिरिव खनिः - आकर: 'अनर्थानाम्' इहपरलोकदुःखावाप्तिरूपाणां तुशब्दोऽवधारणे भिन्नक्रमश्च ततः खनिरवे, के एवंविधाः ? - 'कामभोगाः ' उक्तरूपाः, अनर्थखनित्यमेव स्पष्टयितुमाह मू. (४५५) - परिव्वयंते अनियत्तकामे, अहो अ राओ परितप्यमाने । अन्नप्पमत्ते घनमेसमाने, पप्पुत्ति मच्चुं पुरिसो जरं च ॥ वृ. 'परिव्रजन्' विषयसुखलाभार्थमितस्ततो भ्राम्यन् 'अनिवृत्तकामः' अनुपरतेच्छ: सन् 'अहो य राओ' त्ति आर्षत्वाच्चस्य च भिन्नक्रमादह्नि रात्रौ च अहर्निशमितियावत् 'परितप्यमानः ' तदवाप्त्यै समन्ताच्चिन्ताग्निना दह्यमानः, अन्ये- सुहृत्स्वजनादयः, अथवाऽन्नं भोजनं तदर्थं प्रभत्तः-तत्कृत्यासक्तचेता अन्यप्रमत्तः अन्नप्रमत्तो वा 'धनं' वित्तं 'एसमाने 'त्ति 'एषयन्' विविधोपायैर्गवेपयमानः 'पप्पोत्ति' प्राप्नोति 'मृत्युं' प्राणत्यागं, कोऽसौ ? - पुरुष : 'जरां च' वयोहानिलक्षणाम्। मू. (४५६ ) इमं च मे अत्थि इमे च नत्थि, इमं च मे किच्च इम अकिच्चं । तं एवमेवं लालप्पमानं, हरा हरंतित्ति कहं पमाओ ? ॥ वृ. किञ्च - इदं च मेऽस्ति रजतरूप्यादि न कर्तुमुचितं 'त' मिति पुरुषमेवमेव-वृथैव 'लालप्यमानम्' अत्यर्थं व्यक्तवाचा वदन्तं हरन्ति - अपनयन्त्यायुरिति हराः - दिनरजन्यादयो व्याधिविशेषा वा 'हरन्ति' जन्मान्तरं नयन्ति, उपसंहर्त्तुमाह- 'इती' त्यस्माद्धेतोः 'कथं केन प्रकारेण 'प्रमादः' अनुद्यमः प्रक्रमाद्धर्मे कर्त्तुमुचित इति शेष: ?, इति सूत्रषट्कार्थः ॥ सम्प्रति तौ धनादिभिर्लोभयितुं पुरोहितः प्राह मू. (४५७) धनं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पए जस्स लोगो, तं सव्व साहीणमिहेव तुज्झं ॥ वृ. ‘धनं' द्रव्यं 'प्रभूतं' प्रचुरं 'सह स्त्रीभिः ' समं नारीभिः 'स्वजना: ' पितृपितृव्यादयः, तथा 'कामगुणाः' शब्दादय: 'पगाम'त्ति 'प्रकामा:' इतिशायिन: 'तपः' कष्टानुष्ठानं 'कृते' निमित्तं 'तप्यते' अनुतिष्ठति 'यस्य' धनादेः 'लोके:' जनस्तत् 'सर्वम्' अशेषं 'स्वाधीनम्' आत्मायत्तम् 'इहैव' अस्मिन्नेव गृहे 'तुज्झं 'ति सूत्रत्याद्युवयोः, यद्यपि च तयोः स्त्रियस्तदा न सन्ति तथाऽपि तदवाप्तियोग्यताऽस्तीति तासामभिधानमिति सूत्रार्थः ॥ तावाहतुः - मू. (४५८) धनेन किं धम्मधुराहिगारे ?, सयणेन वा कामगुणेहिं चेव । समणा भवस्सामु गुणोहधारी, बर्हिविहारा अभिगम्म भिक्खं ॥ वृ. 'धनेन' द्रव्येण किं ?, न किञ्चिदित्यर्थः, धर्म एवातिसात्त्विकैरुह्यमानतया धूरिव धूर्धर्मधुरा तदधिकारेतत्प्रस्तावे स्वजनेन वा कामगुणैश्चैव ?, तथा च वेदऽप्युक्तं - " न प्रजया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388