Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 349
________________ ३४६ उत्तराध्ययन- मूलसूत्रम् - १-१४/४७४ इति खलु निश्चितं 'भिक्षाचर्या' भिक्षाटनं 'विहारः ' ग्रामादिष्वप्रतिबद्धविहारो, दीक्षोपलक्षणं चैतदिति सूत्रार्थः । पुरोहित आह मू. (४७५) जहा य भोई! तनुयं भुयंगे. निम्मो अणि हिच्च पलाइ मुत्तो । एमेए जाया पजहंति भोए, तेऽहं कहं नाणुगमिस्समिक्को ? | वृ. यथा हे भवति! पठ्यते च - ' भोगि 'त्ति हे भोगिनि ! तनुः शरीरं तत्र जातां तनुजां 'भुजङ्गमः' सर्प: 'निर्मोचनीं' निर्मोकं हित्वा 'पर्येति' समन्ताद्गच्छति 'मुक्त:' इति निरपेक्षोऽनभिष्वक्त इत्यर्थः, 'एमेए 'त्ति एवमेतौ, पठ्यते च 'इमेति'त्ति अत्र च तथेति गम्यते, ततस्तथेमौ 'ते' तव 'जात' पुत्रो 'पजहंति' प्रजहीत: प्रकर्षेण त्यजतो भोगान्, ततः किमित्याहतौ भोगांस्त्यजन्तौ जातौ अहं कथं न 'अनुगमिष्यामि' प्रव्रज्याग्रहणेनानुसरिष्यामि 'एकः ' अद्वितीयः ? । यदि तावदनयोः कुमारकयोरपीयान् विवेको यन्निर्मोकवदत्यन्तसहचरितानपि भोगान् भुजङ्गवत्त्यजतस्तत्किमिति भुक्तभोगोऽप्यहमेतान्न त्यक्ष्यामि ?, किं वा ममासहायस्य गृहवासेनेत भावः । मू. (४७६) छिंदित्तु जालं अबलं व रोहिया, मच्छा जहा कामगुणे पहाय । धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरंति ॥ वृ. तथा 'छित्त्वा द्विधाकृत्वा तीक्ष्णपुच्छादिना 'जालम्' आनायम् 'अबलमिव' जीर्णत्वादिना निःसारमिव, बलीयोऽपीति गम्यते, 'रोहिता: ' रोहितजातीया: 'मत्स्या' मीनाश्चरन्तीति सम्बन्धः, 'यथै 'ति दृष्टान्तोपदर्शने, यत्तदोश्च नित्यसम्बन्धात्तथेति गम्यते, ततस्तथा जालप्रायान् कामगुणान् 'प्रहाय' परित्यज्य, धुरिवहन्ति धौरेयास्तेषामिव शीलम् - उत्क्षिप्तभारवाहितालक्षणं स्वभावो येषां ते धौरेयशीलाः 'तपसा' अनशनादिना 'उदाराः ' प्रधानाः 'धीराः ' सत्त्ववन्त: हुरिति यस्माद् भिक्षाचर्यां 'चरन्ति' आसेवन्ते, व्रतग्रहणोपलक्षणमेतद्, अतोऽहमपीत्थं व्रतमेव ग्रहीष्ये इति भाव इति सूत्रद्वयार्थः ॥ इत्थं तत्प्रतिबोधित ब्राह्मण्याह मू. (४७७ ) नहेव कुंचा समइक्कमंता, तयाणि जालाणि दलित्तु हंसा । पलिंति पुत्ता य पई य मज्झं, तेऽहं कहं नाणुगमिस्समिक्का ? ।। वृ.‘नभसीव' आकाश इव 'कौश्चा:' पक्षिविशेषाः 'समतिक्रामन्तः ' तांस्तान् देशानुल्लङ्घयन्तः ‘ततानि' विस्तीर्णानि 'जालानि' बन्धनविशेषरूपाण्यात्मनोऽनर्थहेतुन् 'दलयित्वा' भित्त्वा 'हंस' त्ति चशब्दस्य गम्यमानत्वाद्धंसाश्च 'पलिंति'त्ति परियन्ति - समन्ताद्गच्छन्ति 'पुत्रौ च' सूतौ 'पतिश्च' भर्त्ता मम सम्बन्धिनो, गम्यमानत्वादेतत् (नं) जालोपमविषयाभिष्वङ्गं भित्त्वा नभः कल्पे निरुपलेपतया संयमाध्वनि तानि तानि संयमस्थानानि अतिक्रामन्तस्तानहं कथं नानुगमिष्याम्येका सती ? किन्त्वनुगमिष्याम्येव, एवंविधवयसां हि स्त्रीणां भर्त्ता वा पुत्रो वा गतिरिति, यदिवा जालानि भित्त्वेति हंसानामेव सम्बध्यते, समतिक्रामन्तः स्वातन्त्रयेण गच्छन्त इति तु क्रौञ्चानां ततश्च क्रौञ्चोदाहरणमजाकलत्रादिबन्धनसुतापेक्षं, हंसोदाहरणं तु तद्विपरीतपत्यपेक्षमिति बावनीयमिति सूत्रार्थः ॥ इत्थं चतुर्णामप्येकवाक्यतायां प्रव्रज्याप्रतिपत्तौ यदभूत्तदाह- मू. (४७८) पुरोहियं तं ससुयं सदारं, सुच्चाऽभिनिक्खम्म पहाय भोए । For Private & Personal Use Only 1 Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388