________________
३४६
उत्तराध्ययन- मूलसूत्रम् - १-१४/४७४ इति खलु निश्चितं 'भिक्षाचर्या' भिक्षाटनं 'विहारः ' ग्रामादिष्वप्रतिबद्धविहारो, दीक्षोपलक्षणं चैतदिति सूत्रार्थः । पुरोहित आह
मू. (४७५) जहा य भोई! तनुयं भुयंगे. निम्मो अणि हिच्च पलाइ मुत्तो । एमेए जाया पजहंति भोए, तेऽहं कहं नाणुगमिस्समिक्को ? |
वृ. यथा हे भवति! पठ्यते च - ' भोगि 'त्ति हे भोगिनि ! तनुः शरीरं तत्र जातां तनुजां 'भुजङ्गमः' सर्प: 'निर्मोचनीं' निर्मोकं हित्वा 'पर्येति' समन्ताद्गच्छति 'मुक्त:' इति निरपेक्षोऽनभिष्वक्त इत्यर्थः, 'एमेए 'त्ति एवमेतौ, पठ्यते च 'इमेति'त्ति अत्र च तथेति गम्यते, ततस्तथेमौ 'ते' तव 'जात' पुत्रो 'पजहंति' प्रजहीत: प्रकर्षेण त्यजतो भोगान्, ततः किमित्याहतौ भोगांस्त्यजन्तौ जातौ अहं कथं न 'अनुगमिष्यामि' प्रव्रज्याग्रहणेनानुसरिष्यामि 'एकः ' अद्वितीयः ? । यदि तावदनयोः कुमारकयोरपीयान् विवेको यन्निर्मोकवदत्यन्तसहचरितानपि भोगान् भुजङ्गवत्त्यजतस्तत्किमिति भुक्तभोगोऽप्यहमेतान्न त्यक्ष्यामि ?, किं वा ममासहायस्य गृहवासेनेत भावः ।
मू. (४७६) छिंदित्तु जालं अबलं व रोहिया, मच्छा जहा कामगुणे पहाय । धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरंति ॥
वृ. तथा 'छित्त्वा द्विधाकृत्वा तीक्ष्णपुच्छादिना 'जालम्' आनायम् 'अबलमिव' जीर्णत्वादिना निःसारमिव, बलीयोऽपीति गम्यते, 'रोहिता: ' रोहितजातीया: 'मत्स्या' मीनाश्चरन्तीति सम्बन्धः, 'यथै 'ति दृष्टान्तोपदर्शने, यत्तदोश्च नित्यसम्बन्धात्तथेति गम्यते, ततस्तथा जालप्रायान् कामगुणान् 'प्रहाय' परित्यज्य, धुरिवहन्ति धौरेयास्तेषामिव शीलम् - उत्क्षिप्तभारवाहितालक्षणं स्वभावो येषां ते धौरेयशीलाः 'तपसा' अनशनादिना 'उदाराः ' प्रधानाः 'धीराः ' सत्त्ववन्त: हुरिति यस्माद् भिक्षाचर्यां 'चरन्ति' आसेवन्ते, व्रतग्रहणोपलक्षणमेतद्, अतोऽहमपीत्थं व्रतमेव ग्रहीष्ये इति भाव इति सूत्रद्वयार्थः ॥ इत्थं तत्प्रतिबोधित ब्राह्मण्याह
मू. (४७७ ) नहेव कुंचा समइक्कमंता, तयाणि जालाणि दलित्तु हंसा । पलिंति पुत्ता य पई य मज्झं, तेऽहं कहं नाणुगमिस्समिक्का ? ।। वृ.‘नभसीव' आकाश इव 'कौश्चा:' पक्षिविशेषाः 'समतिक्रामन्तः ' तांस्तान् देशानुल्लङ्घयन्तः ‘ततानि' विस्तीर्णानि 'जालानि' बन्धनविशेषरूपाण्यात्मनोऽनर्थहेतुन् 'दलयित्वा' भित्त्वा 'हंस' त्ति चशब्दस्य गम्यमानत्वाद्धंसाश्च 'पलिंति'त्ति परियन्ति - समन्ताद्गच्छन्ति 'पुत्रौ च' सूतौ 'पतिश्च' भर्त्ता मम सम्बन्धिनो, गम्यमानत्वादेतत् (नं) जालोपमविषयाभिष्वङ्गं भित्त्वा नभः कल्पे निरुपलेपतया संयमाध्वनि तानि तानि संयमस्थानानि अतिक्रामन्तस्तानहं कथं नानुगमिष्याम्येका सती ? किन्त्वनुगमिष्याम्येव, एवंविधवयसां हि स्त्रीणां भर्त्ता वा पुत्रो वा गतिरिति, यदिवा जालानि भित्त्वेति हंसानामेव सम्बध्यते, समतिक्रामन्तः स्वातन्त्रयेण गच्छन्त इति तु क्रौञ्चानां ततश्च क्रौञ्चोदाहरणमजाकलत्रादिबन्धनसुतापेक्षं, हंसोदाहरणं तु तद्विपरीतपत्यपेक्षमिति बावनीयमिति सूत्रार्थः ॥
इत्थं चतुर्णामप्येकवाक्यतायां प्रव्रज्याप्रतिपत्तौ यदभूत्तदाह-
मू. (४७८) पुरोहियं तं ससुयं सदारं, सुच्चाऽभिनिक्खम्म पहाय भोए ।
For Private & Personal Use Only
1
Jain Education International
www.jainelibrary.org