SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१४,[नि.३७३ ] ३४७ कुडुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी॥ वृ. 'पुरोहितं' पुरोधसं 'तम' इति भृगुनामानं 'ससुतं' पुत्रद्वयान्वितं 'सदारं' सपत्नीकं 'श्रुत्वा' आकर्ण्य 'अभिनिष्क्रम्य' गृहानिर्गत्य 'प्रहाय' प्रकर्येण त्यक्त्वा भोगान्' शब्दादीन् प्रव्रजितमिति गम्यते, 'कुटुम्बसारं' धनधान्यादि विपुलंच-विस्तीर्णतया उत्तमंच-प्रधानतया विपुलोत्तमं तदि'ति यत्पुरोहितेन त्यक्तं गृह्णन्तमिति शेपः, 'राय'ति राजानं नृपतिम् ‘अभीक्ष्णं' पुनः पुनः 'समुवाच' सम्यगुक्तवती 'देवी' कमलावती नाम तदग्रमहिपी, किमुक्तवतीत्याहमू. (४७९) वंतासी पुरिसो रायं!, न सो होइ पसंसिओ। ___ माहणेण परिच्चत्तं, धनं आदाउमिच्छसि । वृ.वान्तम्-उद्गीर्णमशितुं-भोक्तुं शीलमस्येति वान्ताशी 'पुरुषः' पुमान्, य इति गम्यते, 'राजन् !' नृप ! न स भवति प्रशंसितः' श्लाघितो विद्वद्भिरिति शेपः, स्यादेतत्-कथमहं वान्तात्रीत्यत आह-ब्राह्मणेन ‘परित्यक्तं' परिहतं 'धनं' द्रव्यम् ‘आदातुं' गृहीतुमिच्छसि, परिहतधनं हि गृहीतोज्झितत्वाद्वान्तमिय तत्तदादातुमिच्छंस्त्वमपि वान्ताशीव, न चेदमुचितं भवादृशामित्यभिप्रायः । अथवा काक्वा नीयते-राजन् ! वान्ताशी यः स प्रशस्यो न भवत्यतो ब्राह्मणेन परित्यक्तं धनं त्वमादातुमिच्छसि नैवैतद्भवत उचितं, यतत्वमप्येवं वान्ता - शितयाऽश्लाध्य एव भविष्यसीति काक्वर्थः ।। मू. (४८०) सव्वं जगं जइ तुहं, सव्व वावि धनं भवे। सव्वंपि ते अपज्जत्तं, नेव ताणाय तं तव ॥ वृ.किं?-'सर्व' निरवशेष 'जगद्' भुवनं, भवेदिति सम्बन्धः, 'यदी'त्यस्यायमर्थः-न संभवत्येवैतत्, कथञ्चित्सम्भवे वा 'तुह'न्ति तव सर्वं वाऽपि धनं-रजतरूप्यादिद्रव्यं भवेत् यदि तवेतीहापि योज्यते, तदा सर्वमपि 'ते' तव अपर्याप्तम्' अशक्तम्, इच्छापरिपूर्ति प्रतीति शेपः, आकाशसमत्वेन तस्या अपर्यवसितत्वात्, तथा नैव त्राणाय' जरामरणाद्यापदपनोदाय 'तदिति सर्वं जगद्धनं वा भवति ते, इह च पुनः पुनः सर्वशब्दस्य युष्मदश्चोपादानं भिन्नवाक्यत्वादपुनरुक्तमिति भावनीयं, पूर्वेण गर्हितत्वमनेन चानुपकारितां पुरोहितधनाद्यग्रहणहेतुमादर्थ्य सम्प्रत्यनित्यतां तद्धेतुमाहमू. (४८१) मरिहिसि रायं! जया तया वा, मनोरमे कामगुणे पहाय। इक्को हु धम्मो नरदेव! ताणं, न विज्जई अज्जमिहेह किं च। ७. 'मरिष्यसि' प्राणांस्त्यक्ष्यसि 'राजन् !' नृप ! 'यदा तदा वा' यस्मिस्तस्मिन् वा कालेऽवश्यमेव मर्त्तव्यं, 'जातस्य हि ध्रुवो मृत्यु'रिति, उक्तं हि "कश्चित्तावत्त्यवा दृष्टः, श्रुतो वा शङ्कितोऽपि वा। क्षितौ वा यदिवा स्वर्गे, यो जातो न मरिष्यति ।।" तत्रापि च कदाचिदभिलषितवस्त्वादायैव मरिष्यतीत्यत आह-'मनोरमान्' चित्तह्लादकान् 'कामगुणान्' उक्तरूपान् ‘प्रहाय' प्रकर्षण त्यक्त्वा ‘त्वम्' एकाक्येव मरिष्यसि, न किञ्चिदन्यत्त्वया सह यास्यतीत्यभिप्रायः। तथा 'एक्को हु'त्ति एक एव-अद्वितीयः 'धर्म एव' सम्यग्दर्शनादिरूपः 'नरदेव !' नृप ! 'त्राणं' शरणमापत्परिरक्षणे क्षमं 'डन विद्यते' नास्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy