________________
३४८
उत्तराध्ययन-मूलसूत्रम्-१-१४/४८१ 'अन्यद्' अपरम् 'अहेहे'ति वीप्साभिधानं सम्भ्रमख्यापनार्थं, किञ्चिदिति स्वजनधनादिकं, यदिवा 'इहे'ति लोके 'इहे'त्यस्मिन् मृत्यौ धर्म एवैकस्त्राणं, मुक्तिहेतुत्वेन, नान्यत्किञ्चित्, ततः स एवानुष्ठेय इति भाव, इति सूत्रचतुष्टयार्थः ।। यतश्च धर्मादृते नान्यन्त्राणमत:मू. (४८२) नाहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिसामि मोनं ।
अकिंचणा उज्जुकडा निरामिसा, परिग्गहारंभनियत्तादोसा। वृ. 'ने'ति निषेधे, 'अह'मित्यात्मनिर्देशे 'रमे' इति रतिमवाप्नोमि पक्खिणि पंजरेव'त्ति वाशब्द औपम्ये भिन्नक्रमश्च ततः 'पक्षिणीव' शकुनिकेव सारिकादि: 'पञ्जरे' प्रतीत एव, किमुक्तं भवति ?- यथाऽसौ दुःखोत्पादिनि पञ्जरे न रतिं प्राप्नोति एवमहमपि जरामरणाधुपद्रवविद्रुते भवपञ्जरे न रमे, अतरिछनसन्ताना प्रक्रमाद् विनाशितस्नेहसन्ततिः सती, छिनशब्दस्य सूत्रे परनिपातः प्राग्वत्, ‘चरिष्यामि' अनुष्ठास्यामि ‘मौनं' मुनिभावम्, अविद्यमानं किञ्चनं-द्रव्यतो हिरण्यादि भावतः कषायादिरूपमस्या इत्यकिञ्चना, अत एव ऋजुमायाविरहितं कृतम्-अनुष्ठितमस्या इति ऋजुकृता, कथं चैवंभूतेत्याह-निष्क्रान्ता आमिषाद्गृद्धिहेतोरभिलषितविपयादेः निर्गतं वा आमिर्दोपा:-अभिष्वङ्गनिस्तूंशतादयस्येभ्यो निवृत्ताउपरता परिग्रहारम्भदोषनिवृत्ता, यद्वा परिग्रहारम्भनिवृत्ता अत एव चादोषा-विकृतिविरहिता, अनयोर्विशेषणसमासः। मू.(४८३) दवग्गिणा जहा रन्ने, डज्झमानेसु जंतुसुं।
अन्ने सत्ता पमोयंति, रागद्दोसवसं गया। वृ.अपरं च 'दवाग्निना' दावानलेन यथा 'अरण्ये' वने 'दह्यमानेषु' भस्मसाक्रियमानेष 'जन्तुषु' प्राणिषु 'अन्ये' अपरे ‘सत्त्वाः' प्राणिनोऽविवेकिन: 'प्रमोदन्ते' प्रकर्षेण हष्यन्ति, किमित्येवंविधास्ते इत्याह-रागद्वेषयोर्वश:-आयत्तता रागद्वेषवशस्तं गताः-प्राप्ताः। मू. (४८४) एवमेव वयं मूढा, कामभोगेसु मुच्छिया।
डज्झमानं न बुज्झामो, रागद्दोसग्गिणा जगं। वृ. 'एवमेवं'ति बिन्दोरलाक्षणिकत्वादेवमेव वयं 'मूढ'त्ति 'मूढानि' मोहवशगानि 'कामभोगेषु' उक्तरूपेषु 'मुच्छिय'त्ति मूर्छितानि गृद्धानि दह्यमानमिव दह्यमानं न बुध्यामहे' नावगच्छामो रागद्वेपावग्निरिव रागद्वेषाग्निस्तेन, किं तत्?-'जगत्' प्राणिसमूह, यो हि सविवेको रागादिमांश्च न भवति स दावानलेन दह्यमानानन्यसत्त्वानवलोक्य अहमप्येवमनेन दहनीय इति तद्रक्षणोपायतत्पर एव भवति, न तु प्रमादवशगः सन् प्रमोदते, यस्त्वत्यन्तमज्ञो रागादिमांश्च स आयतिमचिन्तयन् हृष्यति न तु तदुपशमनोपाये प्रवर्तते, ततो वयमपि भोगापरित्यागादेवंविधान्येवेति भावः । ये त्वेवंविधा न भवन्ति ते किं कुर्वन्तीत्याहमू.(४८५) भोगे मुच्चा वमित्ता य, लहुभूयविहारिणो।
आमोअमाना गच्छंति, दिया कामकमा इव।। वृ.'भोगान्' मनोज्ञशब्दादीन् 'भोच्च'त्ति 'भुक्त्वा' आसेव्य पुनरुत्तरकालं 'वान्त्वा च' अपहाय विपाकदारुणत्वाल्लघुः-वायुस्तद्वद्भूतं-भवनमेषां लघुभूताः, कोऽर्थः?-वायूपमाः तथाविधाः सन्तो विहरन्तीत्येवंशीला: लघुभूतविहारिणः-अप्रतिबद्धविहारिण इत्यर्थः, यद्वा Jain Education International
For Private & Personal Use Only
www.jainelibrary.org