________________
अध्ययनं-१४,[नि. ३७३ ] लघुभूतः-संयमस्तेन विहर्तुं शीलं येषां ते तथाविधाः, आ-समन्तान्मोदमाना हश्यन्त आमोदमानाः, तथाविदानुष्ठानेनेति गम्यते, गच्छन्ति वियक्षितं स्थानमिति शेषः, क इव?-'दिया कामकमा इव' त्ति इवशब्दो भिन्त्रक्रमस्ततो द्विजा इव-पक्षिण इव काम:-अभिलाषस्तेन क्रामन्तीति कामक्रमाः, यथा पक्षिणः स्वेच्छया यत्र यत्रावभासते तत्र तत्रामोदमाना भ्राम्यन्ति एवमेतेऽप्यभिष्वङ्गस्य परतन्त्रताहेतोरभावाद्यत्र यत्र संयमयात्रानिर्वहणं तत्र तत्र यान्तीत्याशयः।
पुनर्वहिरास्थां निराकुर्वन्त्याहमू. (४८६) इमे य बद्धा फंदंति, मम हत्थऽज्जमागया।
वयं च सत्ता कामेसु, भविस्सामो जहा इमे। वृ. 'इमे' इत्यनुभूयमानतया प्रत्यक्षाः शब्दादयः, 'च:' समुच्चये 'बद्धाः' नियन्त्रिता अनेकधोपायै रक्षिता इथ्यर्थः, एते किमित्याह-स्पन्दन्त इव स्पन्दन्ते अस्थितिधर्मतया, ये कीदृश इत्याह-'मम हत्थऽज्जभाग- य'त्ति 'ममे' त्यात्मनिर्देशे उपलक्षणत्वात्तव च 'हस्तं' करम्, आर्य! अद्य वा 'आगताः' प्राप्ताः, कोऽर्थः?-स्ववशाः, आत्मनोऽज्ञतां दर्शयितुमाह'वयं च सत्त'त्ति वयं पुनः 'सक्तानि' संबद्धानि अभिष्वङ्गवन्तीत्यर्थः, अबहुत्वेऽप्यस्मदोर्द्वयोश्चेति बहवचनं, 'कामेषु' अभिलषणीयशब्दादिषु, एवंविधेष्वपि चामीष्वभिष्वङ्ग इति मोहविलसितमिति भावः, यद्वा 'इमे चे'त्ति चशब्दाद्वयं च स्पन्दामह इव स्पन्दामहे आयुषश्चलतया परलोकगमनाय, शेषं तथैव, यत एवमतो भविष्यामो यथेमे पुरोहितादयः, किमुक्तं भवति?-यथाऽभिश्चञ्चलत्वमवलोक्यैते परित्यक्तास्तथा वयमपि त्यक्ष्याम इति । स्यादेतद्-अस्थिरत्वेऽपि सुखहेतुत्वात्किमित्यमी त्यज्यन्ते इत्याहमू.(४८७) सामिसंकुललं दिस्सा, बज्झमानं निरामिसं।
आमिसं सव्वमुज्झित्ता, विहरिस्सामो निरामिसा ।। वृ.सहामिषेण-पिशितरूपेण वर्तत इति सामिषस्तं कुललमिह गृणं शकुनिकां वा 'दृष्ट्वा' अवलोक्य 'बाध्यमानं' पीड्यमानं पक्ष्यन्तरैरिति गम्यते, निरामिषम्-आमिषविरहितमन्यथाभूतं दृष्ट्वति गम्यते, 'आमिषम्' अभिष्वङ्गहेतुं धनधान्यादि 'सर्व' निरवशेषम् 'उज्झित्वा' त्वक्त्वा 'विहरिस्सामो'त्ति विहरष्याम्यप्रतिबद्धविहारितया चरिष्यामीत्यर्थः, 'निरामिषा' परित्यक्ताभिष्वङ्गहेतुः । उक्तानुवादेनोपदेष्टुमाहमू.(४८८) गिद्धोवमे य नच्चा णं, कामे संसारवड्डणे।
. उरगो सुवन्नपासिव्व, संकमानो तणुं चरे। वृ. गृद्धेणोपमा येषां ते गृद्धोपमास्तानुक्तन्यायेन, 'तुः' समुच्चये भिन्नक्रमश्च योक्ष्यते, 'ज्ञात्वा' अवबुध्य, नमिति प्राग्वत्, कान्?-प्रक्रमाद्विषयामिषवतो लोकान् ‘कामाश्च' विषयांश्च 'संसारवर्द्धनान्' संसारवृद्धिहेतून् ज्ञात्वेति सम्बन्धः, अथवा कामयन्त इति कामा इति व्युत्पत्त्या कामयोगाद्वाऽत्यन्तगृद्धिख्यापनार्थं कामा विषयिण एवोक्ता अतस्तान् गृद्धोपमान् संसारवर्द्धनांश्च ज्ञात्वा किमित्याह-'उरगोसुवनपासेव'त्ति इवशब्दस्य भिन्नक्रमत्वात् आर्षत्वाच्च 'उरग इव' भुजग इव ‘सौपर्णेयपाइँ' गरुडसमीपे 'शङ्कमानः' भयत्रस्तस्तन्विति-स्तोकं मन्दं यतनयेतियावत् 'चरे:' क्रियासु प्रवर्तस्व, अस्यायमाशयः-यथा सौर्पणेयोपमैर्विषयैर्न बाध्यसे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org