SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३५० तथा संयममासेवस्व, ततश्च किमित्याहमू. (४८९) उत्तराध्ययन- मूलसूत्रम् - १-१४ /४८८ नागुव्व बंधनं छित्ता, अप्पणो वसहिं वए। इति एत्थं महारायं !, उसुआरित्ति मे सुयं ॥ - वृ. 'नागोव्व' अर्द्ध स्पष्टम्, आशयश्चायं यथा नागः बन्धनं वरत्रान्दुकादि 'छित्त्वा' द्विधा विधायात्मनो ‘वसतिं' विन्ध्याटवीं व्रजति, एवं भवानपि कर्मबन्धनमुपहत्यात्मनो वसतिःकर्मविगमतः शुद्धो यत्रात्माऽवतिष्ठते सा च मुक्तिरेव तां व्रजेः, अनेन दीक्षायाः प्रसङ्गतः फलमुक्तम् । एवं चोपदिश्य निगमयितुमाह- 'एतद्' यन्मयोक्तं 'पथ्यं' हितं 'महाराज !' प्रशस्यभूपते ? 'इषुकार!' इषुकारनामन् !, एतच्च न मया स्वमनीषिकयैवोच्यते, किन्तु 'इति' इत्येतन्मया ‘श्रुतम्' अवधारितं साधुसकाशादिति गम्यत इति सूत्राष्टकार्थः ॥ एवं च तद्वचनमाकर्ण्य प्रतिवुद्धो नृप:, ततश्च यत्तौ द्वावपि चक्रतुस्तदाह मू. (४९० ) चइत्ता विपुलं रज्जं, कामभोगे अ दुच्चए। निव्विसया निरामिसा, निन्नेहा निष्परिग्गहा ॥ सम्मं धम्मं वियाणित्ता, चिच्चा कामगुणे चरे। तवं पगिज्झऽ हक्खायं, घोरं घोरपरक्कमा ! ॥ मू. (४९१ ) वृ. ' त्यक्त्वा' प्रहाय 'विपुलं' विस्तीर्णं 'राष्ट्र' मण्डलं, पाठान्तरतो राज्यं वा 'कामभोगांश्च' उक्तरूपान् ‘दुस्त्यजान्' दुष्परिहारान् 'निर्विपयौ' शब्दादिविषयरहितौ अत एव निरामिषौ, यद्वा विषयो-देशस्तद्विरहितौ राष्ट्रपरित्यागतः काभोगात्यागतश्च निरामिषौ-अभिष्वङ्गहेतुविरहितौ, कुतः पुनरेवंविधौ ?, यतो 'निःस्नेहौ' निष्प्रतिबन्धौ 'निष्परिग्रहौ' क्वचिदविद्यमानस्वीकारौ ‘सम्यग्' अविपरीतं 'धर्मं' श्रुतचारित्रात्मकं 'विज्ञायं' विशेषतोऽवबुद्धय 'चेच्च'त्ति त्यक्त्वा 'कामगुणान्' शब्दादीन् 'वरान्' प्रधानान् पूर्वविशेषणैर्गताथत्वेऽपि पुनरभिधानमतिशयख्यापकं, 'तपः' अनशनादि 'प्रगृह्य' अभ्युपगम्य 'यथाख्यातं' येन प्रकारेण तीर्थकरादिभिः कथितं 'घोरम्' अत्यन्तदुरनुचरं घोरकर्मा - वैरिणः प्रति रौद्रः पराक्रमो धर्मानुष्ठानविषयसामर्थ्यात्मको ययोस्तौ तथा देवीनृपौ तथैव च कृतवन्ताविति शेष इति सूत्रद्वयार्थः ॥ सम्प्रति समस्तोपसंहारामाहमू. (४९२ ) एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभउव्विग्गा, दुक्खस्संतगवेसिणो । वृ. 'एवम्' अमुना प्रकारेण 'तानि' अनन्तरमुक्तरूपाणि षडपि 'क्रमश:' अभिहितपरिपाट्य 'बुद्धानि' अवगततत्त्वानि 'सर्वाणि' अशेषाणि 'धर्मपरायणानि' धर्मैकनिष्टानि, पठयते च'धम्मपरंपर'त्ति परम्परया धर्मो येषां तानि परम्पराधर्माणि, प्राकृतत्वाच्च परम्पराशब्दस्य परनिपातः, तथा हि- साधुदर्शनात्कुमारकयो: कुमारवचनात्तत्पित्रोस्तदवलोकनात्कमलावत्यास्ततोऽपि च राज्ञ इति परम्परयैव धर्मप्राप्तिः, जन्ममृत्युभयेभ्यः - उक्तरूपेभ्य एवोद्विग्नानित्रस्तानि जन्ममृत्यु भयोद्विग्नानि 'दुःखस्य' असातस्यान्तः - पर्यन्तस्तद्गवेषकाणि तदन्वेषकाणि सापेक्ष स्यापि समासो यथा देवदत्तस्य गुरुकुलमिति । पुनस्तद्वक्तव्यतामेवाहसासणि विगयमोहाणं, पुव्विं भावणभाविया । मू. (४९३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy