SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१४,[नि. ३७३ ] ३४५ भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामु पहाणमगं॥ __ वृ.सुष्टु-अतिशयेन संभृताः-संस्कृताः सुसंभृताः, के ते? - 'कामगुणा' वेणुवीणाक्वनितकाकलीगीतादयः ‘इमे' इति स्वगृहवर्तिनः, तान् प्रत्यक्षतया निर्दिशति, 'ते' तव तथा 'संपिण्डिताः' सम्यकपञ्जीकृताः 'अग्गरस'त्ति चशब्दस्य गम्यमानत्वादग्र्या रसाश्च-प्रधाना मधुरादयश्च प्रभृताः-प्रचुराः, कामगुणान्तर्गतत्वेऽपि रसानां पृथगुपादानमतिगृद्धिहेतुत्वाच्छब्दादिष्वपि चैषामेव प्रवर्तकत्वात्, कामगुणविशेषणं वा अग्र्या रसास्त एव शृङ्गारादयो वा येषु ते तथा, वृद्धास्त्वाहुः-रसानां-सुखानामग्रं रसाग्रं ये कामगुणाः, सूत्रे च प्राकृतत्वादग्रशब्दस्य पूर्वनिपातः, 'भुंजामो'त्ति भुञ्जीमहि 'तत्' तस्मादमी सुसंभृतादिविशेषणविशिष्टास्ते च स्वाधीनाः सन्ति, 'कामगुणान्' उक्तरूपान् ‘प्रकामम्' अतिशयेन, ततो भुक्तभोगा: ‘पश्चाद्' इति वृद्धावस्थायां 'गमिष्यामः' प्रतिपत्स्यामहे 'प्रधानमार्ग' महापुरुपसेवितं प्रव्रज्यारूपं मुक्तिपथमिति सूत्रार्थः ।। पुरोहितः प्राहमू.(४७३) भुत्ता रसा भोई! जहाइ णे वओ, न जीवियट्ठा पजहामि भोए। लाभं अलाभं च सुहं च दुक्खं, संचिक्खमानो चरिसामि मोनं ।। वृ. 'भुक्ताः ' सेविता: “रसाः' मधुरादयः, उपलक्षणत्वाच्छेषकामगुणाश्च, यद्वा रसा इह सामान्येनैवास्वाद्यमानत्वाद्भोगा भण्यन्ते 'होतित्ति हे भवति!, आमन्त्रणवचनमेतत्, 'जहाति' त्यजति 'नः' इत्यस्मान् वयः शरीरावस्था कालकृतोच्यते, सा चेहाभिमतक्रियाकरणक्षमा गृह्यते, ततश्च यतो भुक्ता एवानेक शो भोगा वयश्चाभिमतक्रियाकरणक्षमं जहाति, उपलक्षणत्वाज्जीवितं च, ततो यावन्नैतत्त्यजति तावद्दीक्षां प्रतिपद्यामह इत्यभिप्रायः, तक्तिं वयःस्थैर्याद्यर्थं दीक्षां प्रतिपद्यसे?, उच्यते हि कैश्चित् दीक्षा वयःस्थैर्यादिविधायिनीत्याशङ्कयाह'न' इति निषेधे जीवितम्-असंयमजीवितम्, उपलक्षणत्वाद्वयश्च तदर्थं 'प्रजहामि' प्रकर्षण त्यजामि भोगान्' शब्दादीन्, किन्तु लाभम्' अभिमतवस्त्वाप्तिरूपम् 'अलामंच' तदभावरूपं 'सुखम्' अभिलषणीयविषयसम्भोगजं, चस्य भिन्नक्रमत्वाद् 'दुःखंच' बाधात्मकं 'संचिक्खमानो'त्ति समतया ईक्षमानः-पश्यन्, किमुक्तं भवति?-लाभालाभयोस्तथा सुखदुःखयोरुपलक्षणत्वाज्जीवितमरणादीनां च समतामेव भावयन् 'चरिप्यामि' आसेविण्ये, किं तत् ?'मौनं' मुनिभावं, ततो मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरिति भाव इति सूत्रार्थः ।। वाशिष्टयाहमू. (४७४) मा हू तुमं सोदरियाण संभरे, जुन्नो व हंसो पडिसोयगामी। भुंजाहि भोगाईमए समानं, दुक्ख खुभिक्खायरिया विहारो॥ वृ. 'मा' इति निषेधे 'हूः' इति वाक्यालङ्कारे त्वं सोदरे शयिताः सोदर्याः, 'सोदराद्य इति यः प्रत्ययः, ते च समानकुक्षिभवा भ्रातरस्तेषाम्, उपलक्षणात्वाच्छेषस्वजनानां भोगानां च, 'संभरे'त्ति अस्मार्षीः, क इव?-'जुन्नो व हंसो'त्ति इवशब्दस्य भिन्नक्रमत्वात् 'जीर्णः' वयोहानिमुपगतो 'हंस इव' प्रधानपक्षीव प्रतिकूलं स्रोतः प्रतिस्रोतस्तद्गामी सन्, किमुक्तं भवति ? -यथाऽसौ नदीस्रोतस्यतिकष्टं प्रतिकूलगमनमारभ्यापि तत्राशक्तः पुनरनुस्रोत एवानुधावति, एवं भवानपि दुरनुचरं संयमभारं वोढुमसमर्थः पुनः सहोदरादीन् भोगान् वा स्मरिष्यति, तदिदमेवास्तु, भुङ्क्ष भोगान् मया 'समानं'ति सह 'दुःख'मिति दुःखहेतुः 'खु' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy