________________
३४४
उत्तराध्ययन-मूलसूत्रम्-१-१४/४६९ वामो'त्ति न पुनर्भविष्यामो-न पुनर्जन्मानुभविष्यामः, तन्निबन्धनभूतकर्मापगमात्, जरामरणाद्यभावोपलक्षणं चैतत्, किञ्च-'अनागतम्' अप्राप्तं नैव चास्ति किञ्चिदिति मनोरममपि विषयसौख्यादि अनादौ संसारे सर्वस्य प्राप्तपूर्वत्वात्ततो न तदर्थमपि गृहावस्थानं युक्तमिति भावः, यद्वा 'अनागतम्' आगतिविरहितं नैव चास्ति किंचित्, किन्तु सर्वमागतिमदेव जरामरणादि व्यसनजातं, ध्रुवभावित्वादस्य भवस्थानां, यद्वाऽनागतं यत्र मृत्युरोगतिर्नास्ति तन्न किञ्चित्स्थानमस्ति, यतश्चैवमतः श्रद्धा-अभिलाषः क्षम-युक्तमिहलोकपरलोकयोझ श्रेयःप्राप्तिनिमित्तमनुष्ठानं कर्तुमिति शेषः, 'न' इति नोऽस्माकं 'निनीय' अपसार्य, कं ?-'रागं' स्वजनाभिष्वङ्गलक्षणं, तत्त्वतो हि कः कस्य स्वजनो न वा स्वजन इप्ति, उक्तं च-"अयं णं' भंते ! जीवे एगमेगस्स जीवस्स माइत्ताइ (पियताए) भाइत्ताए पुत्तत्ताए धूयत्ताए सुण्हत्ताए भज्जत्ताए सुहिसयणसंबंधसंथुयत्ताए उववनपुव्वे ?, हंता गोयमा !, असतिं अदुवा अनंतखुत्तो"त्ति, इति सूत्रद्वयार्थः ।। ततस्तयोर्वचनमाकर्ण्य पुरोहित उत्पन्नव्रतग्रहणपरिणामो ब्राह्मणी धर्मविघ्नकारिणी मत्वेदमाहमू. (४७०) पहीणपुत्तस्स हु नत्थि वासो, वासिट्ठि! भिक्खायरियाइ कालो।
साहाहि रुक्खो लहई समाहि, छिन्नाहिं साहाहिं तमेव खाणुं।। वृ. प्रहीणौ-प्रभ्रष्टौ पुत्रौ यस्मात्स प्रहीणपुत्रः, अथवा प्राकृते पूर्वापरनिपातस्यातन्त्रत्वात्पुत्राभ्यां प्रहीणः-त्यक्तः पुत्रप्रहीणः तस्य 'हुः' पूरणे 'नास्ति' न विद्यते 'वासः' अवस्थानं, मम गृह इति गम्यते, वाशिष्टि!-वशिष्टगोत्रोद्भवे, गौरवख्यापनार्थं गोत्राभिधानं. तच्च कथं नु नाम धर्माभिमुख्यमस्याः स्यादिति, भिक्षाचर्यायाः-भिक्षाटनस्य, उपलक्षणं चैतद्व्रतग्रहणस्य कालः-प्रस्तावो वर्तत इति शेषः । किमित्येवमत आह-'शाखाभिः' प्रतीताभिः 'वृक्षः' द्रुमः 'लभते' प्राप्नोति 'समाधि' स्वास्थ्यं, 'छिन्नाभिः' द्विधाकृताभिः शाखाभिः 'तमेव' वृक्षं यस्ताभिः समाधिमाप्तवान् ‘खाणु'ति स्थाणुं जनोऽप्युपदिशतीत्युपस्कारः, यथा हि तास्तस्य शोभासंरक्षणसहायकृत्यकरणादिना समाधिहेतवः एवं ममाप्येतौ सुतावतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति किं ममैवंविधस्य स्वपरयोः कञ्चिदुपकारमपुष्णत एव गृहवासेनेत्यभिप्रायः। मू. (४७१) पंचाविहूणो व जहेव पक्खी, भिच्चविहूणो व रणे नरिंदो।
विवनसारो वणिउव्व पोए, पहीणपुत्तोमि तहा अहंपि॥ वृ.किञ्च-पक्षाभ्यां-पततत्त्राभ्यां विहीनो-विरहित: पक्षविहीनः, 'वा' दृष्टान्तान्तरसमुच्चये, यथा 'इह' अस्मिल्लोके 'पक्षी' विहङ्गमः पलायितुमप्यशक्त इति मार्जारादिभिरभिभूयते । तथा भृत्याः-पदातयस्तद्विहीनो, वा प्राग्वत्, ‘रणे' सङ्ग्रामे नरेन्द्रः' राजा शत्रुजनपराजयस्थानमेव जायते, तथा विपन्नः-विनष्टः सारो-हिरण्यरत्नादिरस्येति विपन्नसारो वणिक् सांयात्रिको, वेति प्राग्वत्, 'पोते' प्रवहणे भिन्न इति गम्यते नार्वाग् न च परत इत्युदधिमध्यवर्ती विषीदति, पुत्रप्रहीणोऽस्मि तथाऽहमपि, कोऽर्थः?-पक्षभृत्यार्थसारभूताभ्यां सुताभ्यां विरहितोऽहमप्येवंविध एवेति सूत्रद्वयार्थः ॥ वाशिष्ट्याह
मू. (४७२) सुसंभिया कामगुणा इमे ते. संपिंडिया आग्गरसा पभूया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org