________________
अध्ययनं-१४,[नि. ३७३]
३४३ तस्या एव तदभिधातयोग्यतापादनपटीयत्वात्, अमोघा 'रयणि'त्ति रजन्य उक्ताः, दिवसाविनाभावित्वात्तासां दिवसाश्च, तत्पतने ह्यवश्यंभावी जनस्याभिधातः, एवं तात ! 'विजानीत' अवगच्छतेति सूत्रार्थः ।। किञ्चमू.(४६५) जा जा वच्चइ रयणी, न सा पडिनियत्तई।
अहम्मं कुणमानस्स, अहला जति राइओ। वृ.या या वच्चति' व्रजति 'रजनी' रात्रिरुपलक्षणत्वाद्दिनं च न सा 'प्रतिनिवर्त्तते' पुनरागच्छति, तदागमने हि सर्वदा सैवैका जन्मरात्रिः स्यात्ततो न द्वितीया मरणारात्रिः कदाचित्प्रादुण्यात्, ताश्चाधर्मं कुर्वतो जन्तोरिति गम्यते अफला यान्ति रात्रयः, अधर्मनिबन्धनं च गृहस्थतेत्यायुपोऽनित्यत्वादधर्मकरणे च तस्य निष्फलत्वात्तत्परित्याग एव श्रेयानिति भावः ।
इत्थं व्यतिरेकद्वारेण प्रव्रज्याप्रतिपत्तिहेतुमभिधाय तमेवान्वयमुखेनाहमू.(४६६) जा जा वच्चइ रयणी, न सा पडिनियत्तई।
धम्मं तु च कुणमानस्स, सफला जंति राईओ॥ वृ. 'जा जे'त्यादि पूर्ववत्, नवरं 'धम्मं च' त्ति चशब्दः पुनरर्थे धर्मं पुनः कुर्वतः सफला धर्मलक्षणफलोपार्जनतो, न च व्रतप्रतिपत्तिं विना धर्म इत्यतो व्रतं प्रतिपत्स्यावहे इत्यभिप्राय इति सूत्रद्वयार्थः । इत्थं कुमारवचनादाविर्भूतसम्यक्त्वस्तद्वचनमेव पुरस्कुर्वन् भृगुराहमू. (४६७) एगओ संवसित्ता णं, दुहओ संमत्तसंजुया।
पच्छा जाया ! गमिस्सामो, भिक्खमाना कुले कुले। वृ. 'एकतः' एकस्मिन स्थाने 'समुष्य' सहैवासित्वा 'दुहतो'त्ति द्वयं च द्वयं च द्वये आवां युवां च, व्यक्त्यपेक्षया बहुवचनं पुरुपप्राधान्याच्च लिङ्गता, 'सम्यक्त्वसंयुताः' सम्यक्त्वेनतत्त्वरुचिलक्षणेन संयुताः-सहिताः, उपलक्षणत्वाद्देशविरत्या च पश्चाद्' यौवनावस्थोत्तरकालं, कोऽर्थः?-पश्चिमे वयसि, ‘जातौ' पुत्रौ! 'गमिष्यामः' व्रजिष्यामो वयं ग्रामनगरादिपु, मासकल्पादिक्रमेणेति शेषः, अर्थाच्च प्रव्रज्यां प्रतिपद्य, 'भिक्षमानाः' याचमानाः, पिण्डादिकमिति गम्यते, क्व?-'कुले कुले' गृहे गृहे न त्वेकस्मिन्नेव वेश्मनि, किमुक्तं भवति?-अज्ञातोञ्छवृत्त्येति सूत्रार्थः ।। कुमारावाहतुःमू.(४६८) जस्सऽत्थि मच्चुणा सक्खं, जस्स वऽत्थि पलायनं ।
जो जाणइ न मरिस्सामि, सो ह कंखे सुए सिया॥ वृ. 'यस्य' इत्यनिदिष्टस्वरूपस्य 'अस्ति' विद्यते 'मृत्युना' कृतान्तेन 'सख्यं' मित्रत्वं, यस्य चास्ति 'पलायनं' नशतं, मृत्योरिति प्रक्रमाः, तथा 'जो जाणइ'त्ति यो जानीते यथाऽहं न मरिष्यामि, 'सो हु कंखे सुए सिय'त्ति स एव 'काङ्क्षति' प्रार्थयते 'श्व:' आगामिनि दिने स्यादिदमिति गम्यते। न च कस्यचिन्मृत्युना सह सख्यं ततो वा पलायनं तदभावज्ञानं वा। मू. (४६९) अज्जेव धम्म पडिवज्जयामो, जहिं पवना न पुणब्भवामो।
अनागयं नेव य अस्थि किंची, सद्धाखमं नो विणइत्तु रागं। वृ. अतोऽद्यैव 'धर्म' प्रक्रमाद्यतिधर्मं 'पडिवज्जयामो'त्ति 'प्रतिपद्यामहे' अङ्गीकुर्महे, तमेव फलोपदर्शनद्वारेण विशिनष्टि- 'जहिं ति आर्पत्वाद्यं धर्म 'प्रपन्नाः' आश्रिताः 'न पुनब्भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org