________________
३४२
उत्तराध्ययन-मूलसूत्रम्-१-१४/४६० विनाशानवस्थाने प्रत्युक्ते, न चैवममूर्त्तत्वादेव तस्य बन्धासम्भवः सम्भवे वा सर्वस्य सर्वदा तत्प्रसङ्ग इति वाच्यं, यतः 'अज्झत्थहेउं निययऽस्स बंधो' अध्यात्मशब्देन आत्मस्था मिथ्यात्वादय इहोच्यन्ते, ततस्तद्धेतः-तन्निमित्तोऽपरस्थहेतुकृतत्वेऽतिप्रसङ्गादिदोषसम्भवानियतो-निश्चितो न संदिग्धो, जगद्वैच्चित्र्यान्यथानुपपत्तेः, 'अस्य' जन्तोर्बन्धः-कर्मभिः संश्लेपः, यथा ह्यमूर्तस्यापि व्योम्नो मूर्तेरपि घटादिभिः सम्बन्धः एवमस्याप्यमूर्तस्यापि मूर्तेरपि कर्मभिरसौ न विरुध्यते, तथा चाह
"अरूपं हि यथाऽऽकाशं, रूपिद्रव्यादिभाजनम् ।
तथा ह्यरूपी जीवो, रूपिकर्मादिभाजनम्॥" इति, मिथ्यात्दिहेतुत्वाच्च न सर्वस्य सर्वदा तत्प्रसङ्ग इत्यदोपः, एवं हि येषामेव मिथ्यात्वादितद्धेतसम्भवस्तेषामेवासौ न त तद्विरहितानां सिद्धानामपि, तथा संसार:-चतुर्गतिपर्यटनरूपस्तद्धेतुं च-तत्कारणं बदन्ति बन्धं' कर्मबन्धम्, एतेनामूर्तत्वाद्योम्न इव निष्क्रियत्वमपि निराकृतमिति सूत्रार्थः ।। यत एवमस्त्यात्मा नित्योऽत एव च भवान्तरानुयायी तस्य च बन्धो बन्धादेव मोक्ष इत्यतःमू. (४६१) जहा वयं धम्ममजाणमाना, पावं पुरा कम्ममकासि मोहा।
ओरुज्झमाना परिरक्खयंता, तं नेव भुज्जोऽवि समायरामो ।। वृ. 'यथा' येन प्रकारेण वयं 'धर्म' सम्यग्दर्शनादिकम् 'अजानानाः' अनवबुध्यमानाः 'पावं' पापहेतुं 'पुरा' पूर्वं 'कर्म' क्रियाम् 'अकासि'त्ति अकार्म कृतवन्त: 'मोहात्' तत्त्वानवबोधात् 'अवरुध्यमानाः' गृहान्निर्गममलभमानाः 'परिरक्षमानाः' अनुजीविभिरनुपाल्यमानाः 'तद्' इति पापकर्म 'नेव'त्ति नैव भूयोऽपि' पुनरपि समाचरामः' अनुतिष्ठामो, यतः सम्प्रत्युपलब्धमेवास्माभिर्वस्तुतत्त्वमिति भावः, सर्वत्र च 'अस्मदो द्वयोश्चे'ति द्वित्वेऽपि बहुवचनमिति मू.(४६२) अब्भाहयमि लोगंमि, सव्वओ परिवारिए।
अमोहाहिं पडतीहिं, गिहसि न रइं लभे॥ वृ. 'अभ्याहते' आभिमुख्येन पीडिते 'लोके' जने 'सर्वत्र' सर्वासु दिक्षु 'परिवारिते' परिवेष्टिते अमोधाभिः' अवन्ध्यामिः, प्रहरणोपमाभिः पतन्तीभि' आगच्छन्तीभिः 'गिहंसि'त्ति गृहे तस्य चोपलक्षणत्वाद् गृहवासे न 'रतिम्' आसक्ति 'लभे'त्ति लभावहे, यथा हि वागुरया परिवेष्टितो मृगोऽमोधैश्च प्रहरणैाधेनाभ्याहतो न रतिं लभते, एवमावामपीति सूत्रार्थः । भृगुराहमू.(४६३) केन अब्भाहओ लोओ, केन वा परिवारिओ।
का वा अमोहा वुत्ता?, जाया! चिंतावरो हुमि।। वृ. केन व्याधतुल्येनाभ्याहतो लोकः?, केन वा वागुरास्थानीयेन परिवारितः?, का वा 'अमोघा' अमोघप्रहरणोपमा अभ्याहतिक्रियां प्रति करणतयोक्ता?, 'जातौ !' पुत्रौ चिन्तापर: 'हुमि'त्ति भवामि, ततो ममावेद्यतामयमर्थ इति भाव इति सूत्रार्थः ।। तावाहतुःमू. (४६४) मच्चुणाऽब्भाहओ लोओ, जराए परिवारिओ।
__ अमोहा रयणी वुत्ता, एवं ताय! वियाणह॥ वृ.'मृत्युना' कृतान्तेनाभ्याहतो लोकः, तस्य सर्वत्राप्रतिहतप्रसरत्वात्, जरया परिवारितः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org