SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३४१ अध्ययनं-१४,[नि. ३७३] न धनेन त्यागेनैकेनामृतत्वमानशु"रित्यादि, ततः ‘श्रमणौ' तपस्विनौ भविष्याव:, गुणोघंसम्यग्दर्शनादिगुणसमूहं धारयत इथ्येवंशीलौ गुणौघधारिणौ बहि:- ग्रामनगरादिभ्यो बहिर्वतित्वाद् द्रव्यतो भावतश्च क्वचिदप्रतिबद्धत्वाद विहारः- विहरणं ययोस्तौ बहिविहारौ अप्रतिबद्धविहारावितियावत् 'अभिगम्य' आश्रित्य 'भिक्षा' शुद्धोञ्छां तामेवाहारयन्ताविति भाव इति सूत्रार्थः ।। आत्मास्तित्वमूलत्वात्सकलधर्मानुष्ठानस्य तन्निराकरणायाह पुरोहितःमू. (४५९) जहा य अग्गी अरणीउसंतो, खीरे घयं तिल्लमहा तिलेसु। एमेव जाया सरीरंमित्ता, संमच्छई नासइ नावचिढ़े। वृ. 'यथे' त्यौपम्ये चशब्दोऽवधारणे, यथैव 'अग्निः' वैश्वानरः 'अरणिउ'त्ति अरणितःअग्निमन्थनकाष्ठाद् ‘असन्' अविद्यमान एव संमूर्छति, तथा क्षीरे घृतं तैलमथ तिलेषु, एवमेव 'हे जातौ' पुत्रौ ! 'सरीरंसि'त्ति शरीरे काये 'सत्त्वाः' प्राणिनः 'समुच्छंति'त्ति संमूर्छन्ति, पूर्वमसन्त एव शरीराकारपरिणतभूतसमुदायत उत्पद्यन्ते, तथा चाहुः- "पृथिव्यपस्तेजोवायुरिति तत्त्वानि, एतेभ्यश्चैतन्यं, मद्याङ्गेभ्यो मदशक्तिवत्", तथा 'नासइ'त्ति नश्यन्ति-अभ्रपटलवत्प्रलयमुपयान्ति नावचिट्टे'त्ति न पुनः अवतिष्ठन्ते-शरीरनाशे सति न क्षणमप्यवस्थितिभाजो भवन्ति, यद्वा शरीरे सत्यप्यमी सत्त्वा नश्यन्ति, नावतिष्ठन्ते, जलबुट्ठदवत्, उक्तं हि-"जलबुद्बुदवज्जीवाः" अत्र च प्रत्यक्षतोऽनुपलम्भ एव प्रमानं, न ह्यसौ शरीरेशरीरव्यतिरिक्तो वा भवान्तरप्राप्ती प्रत्यक्षत उपलभ्यत इति नास्ति, शशविषाणवदिति भाव इति सूत्रार्थः ।। कुमारकावाहतुःमू.(४६०) नो इंदियग्गिज्झु अमुत्तभावा, अमुत्तभावा चिय होइ निच्चो। अज्झत्थहेउं निययऽस्स बंधो, संसारहेउं च वयंति बंधं । वृ.'नो' इति प्रतिपेधे इन्द्रियैः-श्रोत्रादिभिर्लाह्यः-संवेद्य इन्द्रियग्राह्यः, सत्त्व इति प्रक्रमः, असत्त्वादेवायमिन्द्रियाग्राह्य इथ्याशक्याह-'अमूर्तभावात्' इन्द्रियग्राह्यरूपाद्यभावात्, अयमाशयः-यदिन्द्रियग्राह्यं सन्नोपलभ्यते तदसदिति निश्चियते, यथा प्रदेशविशेषे घटो, यत्तु तद्ग्राह्यमेव न भवति न तस्यानुपलम्भेऽप्यभावनिश्चयः, पिशाचादिवत्, तद्विषयानुपलम्भस्य संशयहेतुत्वात्, न च साधकबाधकप्रमानाभावात् संशयविषयतैवास्त्विति वाच्यं, तत्साधकस्यानुमानस्य सद्भावात्, तथाहि-अस्त्यात्मा अहं पश्यामि जिघ्रामीत्याद्यनुगतप्रत्ययान्यथानुपपत्तेः, आत्माभावे हीन्द्रियाण्येव द्रष्ट्टणि स्युः, तेषु च परस्परं विभिन्नेष्वहं पश्यामि जिघ्रामीत्यादिरनुगतोऽहमितिप्रत्ययोऽनेकेष्विवप्रतिपत्तृषु न स्यात्, उक्तं हि "अहं शृणोमि पश्यामि, जिघ्राम्यास्वादयामि च । चेतयाम्यध्यवस्यामि, बध्यामीत्येवमस्ति सः॥" वृद्धास्तु व्याचक्षते-अमूर्त्तत्वान्नोइन्द्रियग्राह्यो, नोइन्द्रियं च मनो, मनश्चात्मैव, अत: स्वप्रत्यक्ष एवायमात्मा, कस्मात् ?, उच्यते, त्रैकाल्यकार्यव्यपदेशात्, तद्यथा-कृतवानहं करोम्यहं करिष्याम्यहमुक्तवानहं ब्रवीम्यहं ज्ञातवानहं जानेऽहं ज्ञास्येऽहमिति योऽयं त्रिकालकार्यव्यपदेशहेतुरहंप्रत्ययो नायमानुमानिको न चागमिकः, किं तर्हि ?, प्रत्यक्षकृत एवायम्, अनेनैवात्मानं प्रतिपद्यस्व, नायमनात्मके घटादावुपलभ्यत इति, तथाऽमूर्तभावादपि च भवति नित्यः, तथाहि-यद्रव्यत्वे सत्यमूर्तं तत्रित्यं, यथा व्योम, अमूर्तश्चायं द्रव्यत्वे सत्यनेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy