________________
३४०
उत्तराध्ययन- मूलसूत्रम् - १-१४/४५४ वृ. क्षणमात्रं सौख्यं येषु ते तथा, बहुकालं नरकादिषु दुःखं शारीरं मानसं च येभ्यस्ते तथाविधाः, कदाचित्खल्पकालमपि सुखमतिशायि स्याद् दुःखं त्वन्यथेति स्वल्पकालमपि तद्बहुकाल भाविनोऽपि दुःखस्योपहन्तृ स्यादत आह- प्रकामम्-अतिशयेन दुःखं येभ्यस्ते तथा, 'अनिकामसौख्या:' अप्रकृष्टसुखाः, ईदृशा अप्यायतौ शुभफलाः स्युरत आह-संसारान्मोक्षोविश्लेष: संसारमोक्षो निर्वृत्तिरित्यर्थस्तस्य विपक्षभूताः- तत्प्रतिबन्धकतयाऽत्यन्तप्रतिकूलाः, किमित्येवंविधास्ते इत्याह- खनिरिव खनिः - आकर: 'अनर्थानाम्' इहपरलोकदुःखावाप्तिरूपाणां तुशब्दोऽवधारणे भिन्नक्रमश्च ततः खनिरवे, के एवंविधाः ? - 'कामभोगाः ' उक्तरूपाः, अनर्थखनित्यमेव स्पष्टयितुमाह
मू. (४५५)
-
परिव्वयंते अनियत्तकामे, अहो अ राओ परितप्यमाने । अन्नप्पमत्ते घनमेसमाने, पप्पुत्ति मच्चुं पुरिसो जरं च ॥
वृ. 'परिव्रजन्' विषयसुखलाभार्थमितस्ततो भ्राम्यन् 'अनिवृत्तकामः' अनुपरतेच्छ: सन् 'अहो य राओ' त्ति आर्षत्वाच्चस्य च भिन्नक्रमादह्नि रात्रौ च अहर्निशमितियावत् 'परितप्यमानः ' तदवाप्त्यै समन्ताच्चिन्ताग्निना दह्यमानः, अन्ये- सुहृत्स्वजनादयः, अथवाऽन्नं भोजनं तदर्थं प्रभत्तः-तत्कृत्यासक्तचेता अन्यप्रमत्तः अन्नप्रमत्तो वा 'धनं' वित्तं 'एसमाने 'त्ति 'एषयन्' विविधोपायैर्गवेपयमानः 'पप्पोत्ति' प्राप्नोति 'मृत्युं' प्राणत्यागं, कोऽसौ ? - पुरुष : 'जरां च' वयोहानिलक्षणाम्।
मू. (४५६ ) इमं च मे अत्थि इमे च नत्थि, इमं च मे किच्च इम अकिच्चं ।
तं एवमेवं लालप्पमानं, हरा हरंतित्ति कहं पमाओ ? ॥
वृ. किञ्च - इदं च मेऽस्ति रजतरूप्यादि न कर्तुमुचितं 'त' मिति पुरुषमेवमेव-वृथैव 'लालप्यमानम्' अत्यर्थं व्यक्तवाचा वदन्तं हरन्ति - अपनयन्त्यायुरिति हराः - दिनरजन्यादयो व्याधिविशेषा वा 'हरन्ति' जन्मान्तरं नयन्ति, उपसंहर्त्तुमाह- 'इती' त्यस्माद्धेतोः 'कथं केन प्रकारेण 'प्रमादः' अनुद्यमः प्रक्रमाद्धर्मे कर्त्तुमुचित इति शेष: ?, इति सूत्रषट्कार्थः ॥
सम्प्रति तौ धनादिभिर्लोभयितुं पुरोहितः प्राह
मू. (४५७) धनं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पए जस्स लोगो, तं सव्व साहीणमिहेव तुज्झं ॥
वृ. ‘धनं' द्रव्यं 'प्रभूतं' प्रचुरं 'सह स्त्रीभिः ' समं नारीभिः 'स्वजना: ' पितृपितृव्यादयः, तथा 'कामगुणाः' शब्दादय: 'पगाम'त्ति 'प्रकामा:' इतिशायिन: 'तपः' कष्टानुष्ठानं 'कृते' निमित्तं 'तप्यते' अनुतिष्ठति 'यस्य' धनादेः 'लोके:' जनस्तत् 'सर्वम्' अशेषं 'स्वाधीनम्' आत्मायत्तम् 'इहैव' अस्मिन्नेव गृहे 'तुज्झं 'ति सूत्रत्याद्युवयोः, यद्यपि च तयोः स्त्रियस्तदा न सन्ति तथाऽपि तदवाप्तियोग्यताऽस्तीति तासामभिधानमिति सूत्रार्थः ॥ तावाहतुः -
मू. (४५८) धनेन किं धम्मधुराहिगारे ?, सयणेन वा कामगुणेहिं चेव । समणा भवस्सामु गुणोहधारी, बर्हिविहारा अभिगम्म भिक्खं ॥
वृ. 'धनेन' द्रव्येण किं ?, न किञ्चिदित्यर्थः, धर्म एवातिसात्त्विकैरुह्यमानतया धूरिव धूर्धर्मधुरा तदधिकारेतत्प्रस्तावे स्वजनेन वा कामगुणैश्चैव ?, तथा च वेदऽप्युक्तं - " न प्रजया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org