Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३३९
अध्ययनं-१४,[ नि. ३७३] समन्ताद्दह्यमानम्, अर्थात् शरीरे दाहस्यापि शोकावेशत उत्पत्तेः, लोलुप्यमानं तद्वियोगशङ्कावशोत्पन्नदुःखपरशुभिरतिशयेन हृदि छिद्यमानं, वृद्धास्तु व्याचक्षते-'लोलुप्यमानं'ति लालप्यमानं- 'भरणपोषणकुलसंताणेसु य तुब्भे भविस्सह'त्ति, 'बहुधा' अनेकप्रकारं 'बहु' च प्रभूतं यथा भवत्येवं लोलुप्यमानं लालप्यमानं वेति सम्बन्धः, । मू. (४५२) पुरोहियं तं कमसोऽनुणतं, निमंतयंतं च सुए धनेनं ।
जहक्कम कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वक्कं ॥ वृ. 'पुरोहितं' 'पुरोधसं' 'तं'मिति प्रक्रान्तं 'कमसो'त्ति क्रमेण-परिपाठ्या 'अनुनयन्तं' स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च-तौ भोगैरुपच्छन्दयन्तं 'सुतौ' पुत्रौ धनेन' द्रव्येण यथाक्रमं प्रक्रमानतिक्रमेण 'कामगुणैः' अभिलपणीयशब्दादिविषयैः, पाठान्तरतः-कामगुणेषु वा, 'च:' समुच्चये एव' इति पूरणे, कुमारको तावनन्तरप्रक्रान्तौ 'प्रसमीक्ष्य' प्रकर्षेणाज्ञानाच्छादितमतिमालोच्य वाक्यं' वचो वक्ष्यमानमुक्तवन्ताविति गम्यते। मू.(४५३) वेआ अधीआ न भवंति ताणं, भुत्ता दिया निति तमं तमेणं।
जाया य पुत्ता न हवंति ताणं, को नाम तं अनुमनिज्ज एवं?।। वृ. किं तदित्याह 'वेदाः' ऋग्वेदादयः 'अधीताः' पठिता न भवन्ति' जायन्ते 'त्राणं' शरणं, तदध्ययनमात्रतो दुर्गतिपतनरक्षणासिद्धः, उक्तं हि तैरपि -
"अकारणमधीयानो, ब्राह्मणस्तु युधिष्ठिरः।
दुष्कुलेनाप्यधीयन्ते, शीलं यस्य स रोचते ।।" (तथा)
"शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम्।
वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान्॥" तथा 'भुज्ज'त्ति अन्तर्भावितण्यर्थत्वाद्भोजिताः 'द्विजाः' ब्राह्मणाः ‘नयन्ति' प्रापयन्ति तमोरूपत्वात्तमो-नरकस्तत्तमसा-अज्ञानेन यद्वा तमसोऽपि यत्तमस्तस्मिन्-अतिरौद्रे रौरवादिनरके नमिति वाक्यालङ्कारे, ते हि भोजिता: कुमार्गप्ररूपणपशुवधादावेव कर्मोपचयनिबन्धने असद्धयापारे प्रवर्त्तन्त इत्यसत्प्रवर्त्तनतस्तद्भोजनस्य नरकगतिहेतुत्वमेव, अनेन च तेषां निस्तारकत्वं दुरापास्तमित्यर्थादुक्तं, तथा जाताश्च' उत्पन्नाः ‘पुत्रा:' सुता न भवन्ति 'त्राणं' शरणं नरकादिगतौ निपततामिति गम्यते, उक्तं हि तन्मतानुसारिभिरपि
"यदि पुत्राद्भवेत्स्वर्गो, दानधर्मो न विद्यते। मुषितस्तत्र लोकोऽयं, दानधर्मो निरर्थकः ॥"
बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च।
तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति ॥" यतश्चैवं तत: को नाम? न कश्चित्सम्भाव्यते यस्ते-तवानुमन्येत-शोभनमिदमित्यनुजानीयात्सविवेक इति गम्यते, 'एतद्' अनन्तरमुक्तं वेदाध्ययनादित्रितयमिति, भुक्त्वा भोगानिति च चतुर्थोपदेशप्रतिवचनमाहमू. (४५४)खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा। - संसारमुक्खस्स विपक्खभूआ, खाणी अनत्थाण उ काम भोगा।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388