Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 346
________________ अध्ययनं-१४,[नि. ३७३] ३४३ तस्या एव तदभिधातयोग्यतापादनपटीयत्वात्, अमोघा 'रयणि'त्ति रजन्य उक्ताः, दिवसाविनाभावित्वात्तासां दिवसाश्च, तत्पतने ह्यवश्यंभावी जनस्याभिधातः, एवं तात ! 'विजानीत' अवगच्छतेति सूत्रार्थः ।। किञ्चमू.(४६५) जा जा वच्चइ रयणी, न सा पडिनियत्तई। अहम्मं कुणमानस्स, अहला जति राइओ। वृ.या या वच्चति' व्रजति 'रजनी' रात्रिरुपलक्षणत्वाद्दिनं च न सा 'प्रतिनिवर्त्तते' पुनरागच्छति, तदागमने हि सर्वदा सैवैका जन्मरात्रिः स्यात्ततो न द्वितीया मरणारात्रिः कदाचित्प्रादुण्यात्, ताश्चाधर्मं कुर्वतो जन्तोरिति गम्यते अफला यान्ति रात्रयः, अधर्मनिबन्धनं च गृहस्थतेत्यायुपोऽनित्यत्वादधर्मकरणे च तस्य निष्फलत्वात्तत्परित्याग एव श्रेयानिति भावः । इत्थं व्यतिरेकद्वारेण प्रव्रज्याप्रतिपत्तिहेतुमभिधाय तमेवान्वयमुखेनाहमू.(४६६) जा जा वच्चइ रयणी, न सा पडिनियत्तई। धम्मं तु च कुणमानस्स, सफला जंति राईओ॥ वृ. 'जा जे'त्यादि पूर्ववत्, नवरं 'धम्मं च' त्ति चशब्दः पुनरर्थे धर्मं पुनः कुर्वतः सफला धर्मलक्षणफलोपार्जनतो, न च व्रतप्रतिपत्तिं विना धर्म इत्यतो व्रतं प्रतिपत्स्यावहे इत्यभिप्राय इति सूत्रद्वयार्थः । इत्थं कुमारवचनादाविर्भूतसम्यक्त्वस्तद्वचनमेव पुरस्कुर्वन् भृगुराहमू. (४६७) एगओ संवसित्ता णं, दुहओ संमत्तसंजुया। पच्छा जाया ! गमिस्सामो, भिक्खमाना कुले कुले। वृ. 'एकतः' एकस्मिन स्थाने 'समुष्य' सहैवासित्वा 'दुहतो'त्ति द्वयं च द्वयं च द्वये आवां युवां च, व्यक्त्यपेक्षया बहुवचनं पुरुपप्राधान्याच्च लिङ्गता, 'सम्यक्त्वसंयुताः' सम्यक्त्वेनतत्त्वरुचिलक्षणेन संयुताः-सहिताः, उपलक्षणत्वाद्देशविरत्या च पश्चाद्' यौवनावस्थोत्तरकालं, कोऽर्थः?-पश्चिमे वयसि, ‘जातौ' पुत्रौ! 'गमिष्यामः' व्रजिष्यामो वयं ग्रामनगरादिपु, मासकल्पादिक्रमेणेति शेषः, अर्थाच्च प्रव्रज्यां प्रतिपद्य, 'भिक्षमानाः' याचमानाः, पिण्डादिकमिति गम्यते, क्व?-'कुले कुले' गृहे गृहे न त्वेकस्मिन्नेव वेश्मनि, किमुक्तं भवति?-अज्ञातोञ्छवृत्त्येति सूत्रार्थः ।। कुमारावाहतुःमू.(४६८) जस्सऽत्थि मच्चुणा सक्खं, जस्स वऽत्थि पलायनं । जो जाणइ न मरिस्सामि, सो ह कंखे सुए सिया॥ वृ. 'यस्य' इत्यनिदिष्टस्वरूपस्य 'अस्ति' विद्यते 'मृत्युना' कृतान्तेन 'सख्यं' मित्रत्वं, यस्य चास्ति 'पलायनं' नशतं, मृत्योरिति प्रक्रमाः, तथा 'जो जाणइ'त्ति यो जानीते यथाऽहं न मरिष्यामि, 'सो हु कंखे सुए सिय'त्ति स एव 'काङ्क्षति' प्रार्थयते 'श्व:' आगामिनि दिने स्यादिदमिति गम्यते। न च कस्यचिन्मृत्युना सह सख्यं ततो वा पलायनं तदभावज्ञानं वा। मू. (४६९) अज्जेव धम्म पडिवज्जयामो, जहिं पवना न पुणब्भवामो। अनागयं नेव य अस्थि किंची, सद्धाखमं नो विणइत्तु रागं। वृ. अतोऽद्यैव 'धर्म' प्रक्रमाद्यतिधर्मं 'पडिवज्जयामो'त्ति 'प्रतिपद्यामहे' अङ्गीकुर्महे, तमेव फलोपदर्शनद्वारेण विशिनष्टि- 'जहिं ति आर्पत्वाद्यं धर्म 'प्रपन्नाः' आश्रिताः 'न पुनब्भ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388