________________
३३८
मू. (४४९ ) अहतायओ तत्थ मुनीन तेसिं, तवस्स वाधायकरं वयासी । इमं वयं वेयविओ वयंति, तहा न होई असुआण लोगो ॥
वृ.' अथ' अनन्तरं तायते सन्तानं करोति पालयति च सर्वापद्भ्य इति तातः स एव तातक: 'तत्र' तस्मिन् मंनिवेशेऽवसरे वा 'मुन्यो:' भावतः प्रतिपन्नमुनिभावयो: 'तयोः ' कुमारयोः ‘तपस:’ अनशनादे: उपलक्षणत्वाच्छ्रेपसद्धर्मानुष्ठानस्य च 'व्याधातकरं' बाधाविधायि, वचनमिति शेष:, 'वयासि 'त्ति अवादीत्, यदवादीत्तदाह इमां वाचं वेदविदो 'वदन्ति' प्रतिपादयन्ति, यथा--'न भवति' न जायते 'असुतानाम्' अविद्यमानपुत्राणां 'लोक:' परलोकः, तं विना पिण्डप्रदानाद्यभावे गत्याद्यभावात् तथा च वेदवचः - 'अनपत्यस्य लोका न सन्ति ", तथाऽन्यैर
2
प्युक्तम्
तथा
उत्तराध्ययन- मूलसूत्रम् - १-१४/४४९
Jain Education International
"पुत्रेण जायते लोक:, इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ।। " "अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च । गृहिधर्ममनुष्ठाय तेन स्वर्गं गमिष्यति ॥"
मू. ( ४५० ) अहिज्ज वेए परिविस्स विप्पे, पुत्ते परिद्वप्प गिहंसि जाया ! । भुच्चा न भोए सह इत्थियाहिं, आरन्नगा होह मुनी पसत्था ॥
वृ. यत एवं तस्माद् 'अधीत्य' पठित्वा 'वेदान्' ऋग्वेदादीन् 'परिवेष्य' भोजयित्वा 'विप्रान्' ब्राह्मणान्, तथा पुत्रान् 'प्रतिष्ठाप्य' कलाकलत्रग्रहणादिना गृहस्थधर्मे निवेश्य, कीदृशः पुत्रान ? - गृहे जातान्, न तु गृहीतप्रतिपन्नकादीन्, पाठान्तरे च पुत्रान् 'परिष्ठाप्य' स्वामित्वेन निवेश्य गृहे 'जाय'त्ति हे जातौ पुत्रौ !, तथा 'भुक्त्वा' भुक्त्वा 'ण' इति वाक्यालङ्कारे 'भोगान्' शब्दादीन् सह 'स्त्रीभिः' नारीभिस्ततोऽरण्ये भवौ आरण्यौ, 'अरण्यान्नो वक्यतव्यः' (अरण्यान्नः । वार्त्तिकं ) इति नप्रत्ययः, आरण्यावेव आरण्यको- आरण्यकव्रतधारिणी 'होह' ति भवतं सम्पद्येथां युवां 'मुनी' तपस्विनौ 'प्रशस्तौ' श्लाघ्यौ, इत्थमेव ब्रह्मचर्याद्याश्रमव्यव्स्थानात्, उक्तं हि-‘“ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथे" ति, इह च ' अधीत्य वेदानि' त्यनेन ब्रह्मचर्याश्रम उक्तः परिवेष्येत्यादिना च गृहस्थाश्रमः आरण्यकावित्यनेन च वानप्रस्थाश्रमः मुनिग्रहणेन च यत्याश्रम इति सूत्रद्वयार्थः ॥ इत्थं तेनोक्ते कुमारकौ यदकाष्ट तदाहमू. ( ४५१ ) सोअरग्गिणा आयगुणिधनेणं, मोहानिला पज्जलणाहिएणं । संतत्तभावं परितप्पमानं, लोलुप्पमानं बहुहा बहुं च ॥
वृ. सुतवियोगसम्भावना जनितं मनोदुःखमिह शोकः स चाग्निरिव शोकाग्निस्तेन, आत्मनो गुणा आत्मगुणाः - कर्मक्षयोपशमादिसमुद्भूताः सम्यग्दर्शनादयस्त इन्धनमिवेन्धनं दाह्यतया यस्य स तथा तेन, अनादिकालसहचरितत्वेन रागादयो वाऽऽत्मगुणास्त इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहो महताऽज्ञानमितियावत् सोऽनिल इव मोहानिलस्तस्मादधिकं महानगर-दाहादिभ्यो ऽप्यलं प्रज्वलनं प्रकर्षेण दीपनमस्येति अधिक प्रज्वलनः, यद्वा प्रज्वलनेनाधिक इतराग्न्यपेक्षया वस्तेन, पर्वत्र प्राकृतत्वादधिकशब्दस्य परनिपातः, तथा समिति- - समन्तात् तप्त इव तप्त: अनिर्वृतत्वेन भाव: अन्तःकरणमस्येति संतप्तभावस्तम्, अत एव च 'परितप्यमानं'
For Private & Personal Use Only
www.jainelibrary.org
-