SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१४,[नि. ३७३] ३३७ मू. (४४६) पियपुत्तगा दुनिवि माहनस्स, सकम्मसीलस्स पुरोहियस्स। सरित्तु पोराणिय तत्थ जाई, तहा सुचिण्णं तव संजमं च॥ __ वृ.जातिः-जन्म जरा-विश्रसा मृत्युः-प्राणत्यागलक्षणस्तेभ्यो भयं-साध्वसं तेनाभिभूतौबाधितौ जातिजरामृत्युभयाभिभूतौ, पाठान्तरतश्च जातिजरामृत्युभयाभिभूते सत्यर्थात् संसारिजने बहिः संसाराद्विहारः-स्थानं बहिर्विहारः, स चार्थान्मोक्षस्तस्मिन्नभिनिविष्टं बद्धाग्रहं चित्तम्-- अन्त:करणं ययोस्तो, तथा संसारश्चक्रमिव चक्रं भ्रमणोपलक्षितत्वात्संसारचक्रं तस्य विमोक्षणार्थ-परित्यागनिमित्तं दृष्ट्वा' निरीक्ष्य साधूनिति शेषः, यद्वा 'दृष्ट्वे' ति प्रेक्ष्य मुक्तिपरिपन्थिनोऽमी कामगुणा इति पर्यालोच्य 'तो' अनन्तरोक्तौ कामगुणे'त्ति सुब्ब्यत्ययात् 'कामगुणेभ्यः' शब्दादिभ्यो, विषयसप्तमी वा, 'विरक्तौ' पराङ्मुखीभूतौ प्रियो -वल्लभौ तौ च तौ पुत्रावेव पुत्रको, द्वावपि नैक एव इत्यपिशब्दार्थः 'मोहनस्य' ब्राह्मणस्य 'स्वकर्मशीलस्य' यजनयाजनादिस्वकीयानुष्ठाननिरतस्य 'पुरोहितस्य' शान्तिकर्तुः 'सरित्तु'त्ति स्मृत्वा 'पोराणिय'त्ति सूत्रत्वात्पुराणामेव पौराणिकी-चिरन्तनीं 'तत्रे'ति सन्निवेशे कुमारभावेवा,वर्तमानाविति शेषः, 'जाति' जन्म तथा 'सुचिन्नं'त्ति सुचीर्णं सुचरितं वा निदानादिनाऽनुपहतत्वात् तपः-अनशनादि:, प्राकृतत्वाद्विन्दुलोपः, संयमं च, तपःसंयममिति समाहारद्वन्द्वो वा, अत्र कामगुणविरक्तिरेव जिनेन्द्रमार्गप्रतिपत्तिरिति सूत्रद्वयार्थः । ततस्तौ किमकार्टाम्? इत्याहमू.(४४७) ते कामभोगेसु असज्जमाना, मानुस्सएसुं जे यावि दिव्वा। मुक्खाभिकंखी अभिजायसद्धा, तातं उवागम्म इमं उदाहु॥ वृ. 'तो' पुरोहितपुत्रौ 'कामभोगेषु' उक्तरूपेषु असज्जमान'त्ति असंसजतौ-सङ्गमकुर्वन्तौ 'मानुष्यकेपु' मनुजसम्वन्धिषु, ये चापि 'दिव्याः' देवसम्बन्धिन: कामभोगास्तेषु चेति प्रक्रमः, 'मोक्षाभिकाक्षिणौ' मुक्त्यभिलापिणौ 'अभिजातश्रद्धौ' उत्पन्नतत्त्वरुची 'तातं' पितरमुपागम्य 'इदं' वक्ष्यमानं उदाहु'त्ति उदाहरताम्। तयोहि साधुदर्शनानन्तरं क्वास्माभिरित्थंभूतानि रूपाणि पुराऽपि दृष्टानीति चिन्तयतोर्जातिस्मरणमुत्पन्न, ततो जातवैराग्यौ प्रव्रज्याभिमुखावात्ममुत्कलीकरणाय तयोश्च प्रतिबोधोत्पादनाय वक्ष्यमानमुक्तवन्ताविति सूत्रार्थः ।। यच्च तावुक्तवन्तौ तदाहमू. (४४८) असासयं दह्र इमं विहारं, बहुअंतरायं न य दीहमाउं। तम्हा गिहसिं न रइं लभामो, आमंतयामो चरिसामु मोनं। वृ.'अशाश्वतम्' अनित्यं दृष्ट्वा 'इम' प्रत्यक्षं विहरणं विहारं, मनुष्यत्वेनावस्थानमित्यर्थः, भण्यते हि-"भोगभोगाई भुजमाने विहरति"ति, किमित्येवमत आह. बहवः-प्रभूता अन्तरायाः-विघ्ना व्याध्यादयो यस्य तद्बह्वन्तरायं, बह्वन्तरायमपि दीर्घत्वा (र्घाद्धा)वस्थायि स्यादित्याह-'नच' नैव'दीर्घ' दीर्घकालस्थित्या 'आय:' जीवितं, सम्प्रति पल्योपमायुष्कताया अप्यभावात्, यत एवं सर्वमनित्यं तस्माद् 'गिर्हसि'न्ति 'गृहे' वेश्मनि न 'रति' धृति 'लभामो'त्ति लभावहे-प्राप्नुवः, अतश्च 'आमन्त्रयावहे' पृच्छाव आवां यथा 'चरिष्यामः' आसेविष्यावहे 'मौनं' मुनिभावं संयममिति सूत्रार्थः ॥ एवं च ताभ्यामुक्ते28/22 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy