________________
उत्तराध्ययन-मूलसूत्रम्-१-१४/४४१ हिज्जंति-जहा एए पव्वइयगा दिव्वरूवाइं घेत्तुंमारंति, पच्छा तेसि मंसं खायंति, मा तुब्भे कयाइं एएसिं अल्लियस्सह। __ अन्नया ते तम्मि गामे रमंता बाहिं निग्गया, इओ य अद्धाणपडिवन्ना साहू आगच्छंति, ततो ते दारगा साहू दट्ठम भयभीया पलायंता एगम्मि वडपायवे आरूढा, साहूणो समावत्तीए गहियभत्तपाना तम्मि चेव वडपायवहिडेठिया, मुहत्तं च वीसमिऊणं अँजिउं पयत्ता, ते वडारूढा पासंति साभावियं भत्तपाणं, नत्थि मंसंति तओ चिंतिउं पयत्ता-कत्थ अम्हेहिं एयारिसाणि रूवाणि दिट्ठपुव्वाणित्ति ?, जाई संभरिया, संबुद्धा, साहुणो वंदिउं गया अम्मापिउसमीवं, मायावित्तं संबोहिऊण सह मायावित्ते पव्वया, देवी संबूद्धा, देवीए राया संबोहिओ, तानिवि पव्वइयाणि, एवं तानि छावि केवलनाणं पाविऊण निव्वाणमुवगयाणि त्ति।
इह तु सूत्रोक्तस्याप्यर्थस्याभिधानं प्रसङ्गत इत्यदोषः। उक्तो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (४४२) देवा भवित्ताण पुरे भवंमी, केई चुया एगविमानवासी।
पुरे पुराणे इसुयारनामे, खाए समिद्धे सुरलोगरम्मे॥ वृ. 'देवाः' सुराः 'भूत्वा' उत्पद्य 'पुरे भवंमि'त्ति अनन्तरातीतजन्मनि केचित्' इत्यनिर्दिष्टनामानः 'च्युताः' भ्रष्टाः एकस्मिन् पद्मगुल्मनाम्नि विमाने वसन्तीत्येवंशीला एकविमानवासिनः 'पुरे' नगरे ‘पुराणे' चिरन्तने इषुकारनाम्नि 'ख्याते' प्रथिते 'समृद्धे' ऋद्धिमत्यत एव 'सुरलोकरम्ये' देवलोकवद्रमणीये ते च किं सर्वथोपभुक्तपुण्या एव ततश्च्युता उतान्यथेत्याहमू. (४४३)सकम्मसेसेण पुराकएणं, कुलेसु उग्गे(सुदत्ते०) सु य ते पसूआ।
निम्विन्नसंसारभया जहाय, जिणिंदमग्गं सरणं पवन्ना॥ वृ.स्वम्-आत्मीयं कर्म-पुण्यप्रकृतिलक्षणं तस्य शेषम्-उद्धरितं स्वकर्मशेषस्तेन, लक्षणे तृतीया, 'पुराकृतेन' पूर्वजन्मान्तरोपार्जतेन 'कुलेषु' अन्वयेषु 'उदात्तेषु' उच्चेषु 'च:' पूरणे, 'ते' इति ये देवा भूत्वा च्युचा: 'प्रसूताः' उत्पन्नाः, निविन्न'त्ति आर्षत्वात् 'निर्विनाः' उद्विग्नाः, कुतः?-संसारभयात्, ‘जहाय'त्ति परित्यज्य, भोगादीनिति गम्यते, किमित्याह-'जिनेन्द्रमार्ग' तीर्थकृदुपदर्शितं सम्यग्दर्शनज्ञानचारित्रात्मकं मुक्तिपथं 'शरणम्' अपायरक्षाक्षममाश्रयं 'प्रपन्नाः' अभ्युपगता इत्यध्ययनार्थसूचनम्। कश्च किंरूप: सन् जिनेन्द्रमार्गं शरणं प्रपन्न इत्याहमू. (४४४) पुमत्तमागम्म कुमार दोऽवि, पुरोहिओ तस्स जसा य पत्ती।
विसालकित्ती य तहेसुआरो, रायऽत्थ देवी कमलावई य॥ वृ. 'पुंस्त्वं' पुरुषत्वम् आगम्य' प्राप्य 'कुमार'त्ति कुमारौ' अकृतपाणिग्रहणौ द्वौ, 'अपि:' पूरणे, सुलभ बोधिकत्वेन प्राधान्यख्यापनार्थं चानयोः पूर्वमुपादानम्, पुरोहितस्तृतीयस्तस्य जसा च नाम्ना पत्नी चतुर्थः, विशालकीर्तिश्च' विस्तीर्णयशाश्च तथेषुकारो नाम राजा पञ्चमः, 'अत्र' एतस्मिन भवे 'देवी' इति प्रधानपत्नि, प्रक्रमात्तस्यैव राज्ञः कमलावती नाम्ना षष्ठ इति सूत्रत्रयार्थः ।। सम्प्रति यथैतेषु जिनेन्द्रमार्गप्रतिपत्तिः कुमारयोर्जाता तथा दर्शयितुमाहमू. (४४५) जाईजरामच्चुभयाभिभृया, बहिविहाराभिनिविट्ठिचित्ता।
संसारचक्कस्स विमुक्खणट्ठा, द₹ण ते कामगुणे विरत्ता ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org