Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 334
________________ अध्ययनं - १३, [ नि. ३५५ ] मू. (४३३) अहंपि जाणामि जहेह साहू ! जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा भवंति, जे दुज्जया अज्जो ! अम्हारिसेहिं ॥ वृ. अहमपि, न केवलं भवानित्यापिशब्दार्थः, 'जानामि' अवबुध्ये, तथा इति शेषः, 'यथा' येन प्रकारेण 'इह' अस्मिन् जगति साधो ! यत् 'मे' मम त्वं 'साधयसि' कथयसि 'वाक्यम्' उपदेशरूपं वचः ‘एतत्' यदनन्तरं भवतोक्तं, तत् किं न विपयान् परित्यजस्यत आह-'भोगाः ' शब्दादयः 'इमे' प्रत्यक्षा: 'सङ्गकरा: ' :' प्रतिबन्धोत्पादका भवन्ति ये यत्तदोश्च नित्याभिसम्बन्धात्ते दुःखेन जीयन्ते - अभिभूयन्ते इति दुर्जयाः दुस्त्यजा इतियावत् 'अज्जो' त्ति आर्य ! अस्मादृशैः, गुरुकर्मभिर्जन्तुभिरिति गम्यते, पठ्यते च- 'अहंपि जाणामि जो एत्थ सारो' पादत्रयं तदेव, अहमपि जानामि योऽत्र सारो-यदिह मनुजजन्मनि प्रधानं चारित्रधर्मात्मकं, चस्य गम्यमानत्वात्, यच्च मे त्वं साधयसि, शेषं प्राग्वदिति सूत्रार्थः ॥ किञ्च मू. ( ४३४ ) हत्थिणपुरंमि चित्ता ! दट्ठूणं नरवई महिड्डिययं । कामभोगेसु गिद्धेणं नियाणमसुभं कडं ॥ वृ. हस्तिनागपुरे 'चित्ता' इति आकारोऽलाक्षणिकः, हे 'चित्र !' चित्रनामन् मुने ! दृष्ट्वा 'नरपति' सनत्कुमारनामानं चतुर्थचक्रवर्त्तिनं 'महर्द्धिकं' सातिशयसम्पदं 'कामभोगेषु' उक्तरूपेषु 'गृद्धेन' अभिकाङ्क्षावता 'निदान' जन्मान्तरे भोगाशंसात्मकम् 'अशुभानुबन्धि 'कृतं' निवर्त्तितमिति ॥ कदाचित्तत्र कृतेऽपि ततः प्रतिक्रान्तः स्यादत आह मू. (४३५ ) तस्स मे अप्पडिकंतस्स, इमं एयारिसं फलं । जाणमानोऽवि जं धम्मं, कामभोगेसु मुच्छिओ ॥ वृ. 'तस्स' त्ति सुव्यत्ययेन तस्मात् निदानात् 'मे' मम 'अप्रतिनिवृत्तस्य तदा हि त्वया बहुधोच्यमानेऽपि न मच्चेतसः प्रत्यावृत्तिभूदिति, 'इदमेतादृश्यम्' अनन्तरवक्ष्यमानरूपं 'फलं' कार्यं, यत् कीदृगित्याह-‘जाणमानोऽवि 'त्ति प्राकृतत्वात् 'जानन्नपि' अवबुध्यमानोऽपि यदहं 'धर्मं' श्रुतधर्मादिकं कामभोगेषु मूर्च्छितः - गृद्धः, तदेतत्कामभोगेषु मूर्छनं मम निदानकर्मणः फलम्, अन्यथा हि ‘ज्ञानस्य फलं विरती' रिति कथं न जानतोऽपि धर्मानुष्ठानावाप्तिः स्यादिति भाव इति सूत्रद्वयार्थः । पुनर्ददानफलमेवोदाहरणतो दर्शयितुमाह मू. (४३६ ) Jain Education International ३३१ नागो जहा पंकजलावसन्नो, दट्टु थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमनुव्वयामो ॥ वृ. 'नाग: ' हस्ती 'यथे 'ति दृष्टान्तोपदर्शकः पङ्कप्रधानं जलं यत्कलमुच्यते तत्रावसन्नोनिमग्न: पङ्कजलावसन्न:, सन् 'दृष्ट्वा' अवलोक्य 'स्थलं' जलविकल भूतलं 'न' नैव' अभिसमेति' प्राप्नोति 'तीरं' पारम्, अपेर्गम्यमानत्वात्तीरमप्यास्तां स्थलमिति भावः, इत्येवंविधनागवत् वयमित्यात्मनिर्देश 'कामगुणेषु' उक्तरूपेषु 'गृद्धाः ' मूच्छिता न 'भिक्षोः ' साधोः ‘मार्गं' पन्थानं सदाचारलक्षणम्'अनुव्रजामः' अनुसरामः । अभी हि पङ्कजलोपमाः कामभोगाः, ततस्तपरन्त्रतया न तत्पपरित्यागतो निरपायतया स्थलमिव मुनिमार्गमवच्छन्तोऽपि पङ्कजलावमग्नगजवद्वयमनुगन्तुं शक्नुम इति सूत्रार्थः ॥ पुनरनित्यतादर्शनाय मुनिराह मू. (४३७ ) अच्चेइ कालो तूरंति राइओ, न यावि भोगा पुरिसाण निच्चा । For Private & Personal Use Only -- www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388