________________
अध्ययनं - १३, [ नि. ३५५ ]
मू. (४३३) अहंपि जाणामि जहेह साहू ! जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा भवंति, जे दुज्जया अज्जो ! अम्हारिसेहिं ॥ वृ. अहमपि, न केवलं भवानित्यापिशब्दार्थः, 'जानामि' अवबुध्ये, तथा इति शेषः, 'यथा' येन प्रकारेण 'इह' अस्मिन् जगति साधो ! यत् 'मे' मम त्वं 'साधयसि' कथयसि 'वाक्यम्' उपदेशरूपं वचः ‘एतत्' यदनन्तरं भवतोक्तं, तत् किं न विपयान् परित्यजस्यत आह-'भोगाः ' शब्दादयः 'इमे' प्रत्यक्षा: 'सङ्गकरा: ' :' प्रतिबन्धोत्पादका भवन्ति ये यत्तदोश्च नित्याभिसम्बन्धात्ते दुःखेन जीयन्ते - अभिभूयन्ते इति दुर्जयाः दुस्त्यजा इतियावत् 'अज्जो' त्ति आर्य ! अस्मादृशैः, गुरुकर्मभिर्जन्तुभिरिति गम्यते, पठ्यते च- 'अहंपि जाणामि जो एत्थ सारो' पादत्रयं तदेव, अहमपि जानामि योऽत्र सारो-यदिह मनुजजन्मनि प्रधानं चारित्रधर्मात्मकं, चस्य गम्यमानत्वात्, यच्च मे त्वं साधयसि, शेषं प्राग्वदिति सूत्रार्थः ॥ किञ्च
मू. ( ४३४ )
हत्थिणपुरंमि चित्ता ! दट्ठूणं नरवई महिड्डिययं । कामभोगेसु गिद्धेणं नियाणमसुभं कडं ॥
वृ. हस्तिनागपुरे 'चित्ता' इति आकारोऽलाक्षणिकः, हे 'चित्र !' चित्रनामन् मुने ! दृष्ट्वा 'नरपति' सनत्कुमारनामानं चतुर्थचक्रवर्त्तिनं 'महर्द्धिकं' सातिशयसम्पदं 'कामभोगेषु' उक्तरूपेषु 'गृद्धेन' अभिकाङ्क्षावता 'निदान' जन्मान्तरे भोगाशंसात्मकम् 'अशुभानुबन्धि 'कृतं' निवर्त्तितमिति ॥ कदाचित्तत्र कृतेऽपि ततः प्रतिक्रान्तः स्यादत आह
मू. (४३५ )
तस्स मे अप्पडिकंतस्स, इमं एयारिसं फलं । जाणमानोऽवि जं धम्मं, कामभोगेसु मुच्छिओ ॥
वृ. 'तस्स' त्ति सुव्यत्ययेन तस्मात् निदानात् 'मे' मम 'अप्रतिनिवृत्तस्य तदा हि त्वया बहुधोच्यमानेऽपि न मच्चेतसः प्रत्यावृत्तिभूदिति, 'इदमेतादृश्यम्' अनन्तरवक्ष्यमानरूपं 'फलं' कार्यं, यत् कीदृगित्याह-‘जाणमानोऽवि 'त्ति प्राकृतत्वात् 'जानन्नपि' अवबुध्यमानोऽपि यदहं 'धर्मं' श्रुतधर्मादिकं कामभोगेषु मूर्च्छितः - गृद्धः, तदेतत्कामभोगेषु मूर्छनं मम निदानकर्मणः फलम्, अन्यथा हि ‘ज्ञानस्य फलं विरती' रिति कथं न जानतोऽपि धर्मानुष्ठानावाप्तिः स्यादिति भाव इति सूत्रद्वयार्थः । पुनर्ददानफलमेवोदाहरणतो दर्शयितुमाह
मू. (४३६ )
Jain Education International
३३१
नागो जहा पंकजलावसन्नो, दट्टु थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमनुव्वयामो ॥ वृ. 'नाग: ' हस्ती 'यथे 'ति दृष्टान्तोपदर्शकः पङ्कप्रधानं जलं यत्कलमुच्यते तत्रावसन्नोनिमग्न: पङ्कजलावसन्न:, सन् 'दृष्ट्वा' अवलोक्य 'स्थलं' जलविकल भूतलं 'न' नैव' अभिसमेति' प्राप्नोति 'तीरं' पारम्, अपेर्गम्यमानत्वात्तीरमप्यास्तां स्थलमिति भावः, इत्येवंविधनागवत् वयमित्यात्मनिर्देश 'कामगुणेषु' उक्तरूपेषु 'गृद्धाः ' मूच्छिता न 'भिक्षोः ' साधोः ‘मार्गं' पन्थानं सदाचारलक्षणम्'अनुव्रजामः' अनुसरामः । अभी हि पङ्कजलोपमाः कामभोगाः, ततस्तपरन्त्रतया न तत्पपरित्यागतो निरपायतया स्थलमिव मुनिमार्गमवच्छन्तोऽपि पङ्कजलावमग्नगजवद्वयमनुगन्तुं शक्नुम इति सूत्रार्थः ॥ पुनरनित्यतादर्शनाय मुनिराह
मू. (४३७ ) अच्चेइ कालो तूरंति राइओ, न यावि भोगा पुरिसाण निच्चा ।
For Private & Personal Use Only
--
www.jainelibrary.org