SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन- मूलसूत्रम् - १-१३ / ४३७ उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ वृ. ‘अत्येति' अतिक्रामति कालः यथाऽऽयुः कालः, किमित्येवमुच्यते ?, अत आह'त्वरन्ति' शीघ्रं गच्छन्ति ' रात्रयः ' रजन्यः, दिनोपलक्षणं चैतत्, ततोऽनेन जीवितव्यस्यानित्यत्वमुक्तम्, उक्तं हि ३३२ "क्षणयामदिवसमासच्छलेन गच्छन्ति जीवितदलानि । इति विद्वानपि कथमिह गच्छसि निद्रावशं रात्रौ ? ।। " अथवा ‘अत्येति’ अतीवयाति, कोऽसौ ? - कालः, कुत एतत् ? - यतस्त्वरन्ति रात्रयो, न चापि भोगाः पुरुषाणां ‘नित्या: ' शाश्वताः, अपेभिन्नक्रमत्वान्न केवलं जीवितमुक्तिनीतितो न नित्यं, किन्तु भोगा अपि, यत उपेत्य स्वप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं ' त्यजन्ति' परिहरन्ति, कमिव क इवेत्याह- 'दुमं' वृक्षं यथा क्षीणानिविनष्टानि फलानि यस्यासौ क्षीणफलस्तं, 'वा' इत्यौपम्ये, उक्तं हि - "पिव मिव विव वा इवार्थे" भिन्नक्रमश्चायं, ततः 'पक्षीव' विहग इव, फलोपमानि हि पुण्यानि, ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिवद्भोगा विमुञ्चन्तीति सूत्रार्थः ॥ यत एवमतः मू. ( ३४८ ) जईऽसि भोगे चइउं असत्तो, अज्जाई कम्माई करेहि रायं ! । धम्मे ठिओ सव्वपयाणुकंपी, तं होहिसि देवो इओ विउव्वी ॥ -'जइ वृ. यदि तावदसि त्वं भोगान् 'त्युक्तम्' अपहातुम् 'अशक्तः' असमर्थः, पठ्यते च-' तंसि भोगे चतुं असत्ते 'त्ति, यदि चैवं तावत्कर्तुं न शक्तस्ततः किमित्याह- 'आर्याणि' हेयधर्मेभ्यः-अतिनिस्त्रिंशतादिभ्यो दूरयातानि शिष्टजनोचितानीतियावत् 'कर्माणि' अनुष्ठानानि कुरु राजन् ! ‘धर्मे' प्रक्रमाद्गृहस्थधर्मे सम्यग्दष्ट्यदिशिष्टाचरिताचारलक्षणे स्थितः सन् 'सर्वप्रजानुकम्पी' समस्तप्राणिदयापरः, ततः किं फलमित्याह - 'ततः' इत्यार्यकर्मकरणाद् भविष्यसि ‘देव:' वैमानिक : 'इत:' इत्यस्मान्मनुष्यभवादनन्तरं विउव्वि 'त्ति वैक्रियशरीरवानित्यर्थ इति वृद्धाः, गृहस्थधर्मस्यापि सम्यक्त्वदेशविरतिरूपस्य देवलोकफलत्वेनोक्तत्वादिति भाव इति सूत्रार्थः ॥ एवमुक्तोऽपि यदाऽसौ न किञ्चित्प्रतिपद्यते तदा तदविनेयतामवधार्य मुनिराह मू. (४३९) न तुज्झ भोगे चईऊण बुद्धी, गिद्धोऽसि आरंभपरिग्गहेसुं । मोहं कओ इत्तिउ विप्पलावो, गच्छामि रायं! आमंतिओऽसि ॥ वृ. 'ने 'ति प्रतिषेधे तव 'भोगान्' शब्दादीन्, उपलक्षणत्वादनार्यकर्माणि वा, 'चइऊण'त्ति युक्तुं यद्वा सोपस्कारत्वाद्भोगांस्त्यक्त्वा धर्मो मया विधेयइति 'बुद्धिः' अवगतिः, किन्तु 'गृद्ध:' मूच्छितः 'असि' भवसि केषु ? - 'आरम्भपरिग्रहेषु' अवद्यहेतेषु व्यापारेषु चतुष्पदद्विपदादिस्वीकारेषु च, 'मोहं' ति मोघं निष्फलं यथा भवति एवं, सुब्व्यत्ययाद्वा मोघो-निष्फलो मोहेन वा - पूर्वजन्मनि मम भ्राताऽऽसीदिति स्नेहलक्षणेन 'कृत: ' विहितः एतावान् 'विप्रलापः ' विविधव्यर्थवचनोपन्यासात्मकः, सम्प्रती तु 'गच्छामि' व्रजामि राजन् ! आमन्त्रितः - संभाषितः, अनेकार्थत्वाद्धातूनां पृष्टो वा 'असि' भवसि, अयमाशयः - अनेकधा जीवितानित्यत्वादिदर्शनद्वारेणानुशिष्यमानस्यापि गुणाधिकक्लिश्यमानाविनेयेषु" इति सूत्रार्थः ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy