________________
अध्ययनं - १३, [ नि. ३५५ ]
इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभुत्तदाह
मू. (४४०) पंचालरायाऽविय बंभदत्तो, साहुस्स तस्स वयणं अवाउं । अनुत्तरे भुंजिय काम भोगे, अनुत्तरे सो नरए पविट्ठो ॥
वृ. ‘पंचालराआऽविय'त्ति 'अपि' पुनरर्थः, 'च: ' पूरणे, ततः पञ्चालराज: पुनर्ब्रह्मदत्तोब्रह्मदत्ताभिधानः ‘साधोः' तपस्विनः 'तस्य' अनन्तरोक्तस्य 'वचनं' हितोपदेशदर्शकं वाक्यम् 'अकृत्वा' वज्रतन्दुलवद्गुरुकर्मतयाऽत्यन्तदुर्भेदत्वादननुष्ठान 'अनुत्तरान्' सर्वोत्तमान् 'भुंक्त्वा' अनुपाल्य 'कामभोगान्' उक्तरूपान् 'अनुत्तरे' स्थित्यादिभिः सकलनरकज्येष्ठेऽप्रतिष्ठान इतियावत् 'स' ब्रह्मदत्त: 'नरके' प्रतीते 'प्रविष्ट: ' तदन्तरुत्पन्नः, तदनन निदानस्य नरकपर्यवसानफलत्वमुपदर्शितं भवतीति सूत्रार्थः ॥
नि. [ ३५५ ]
नि. [ ३५६ ]
नि. [ ३५७ ]
नि. [ ३५८ ]
इह चास्य शेषवक्तव्यतासूचिका अपि निर्युक्ति-गाथाः पञ्च दृश्यन्ते, तद्यथाइत्थीरयणपुरोहियभिज्जाणं वग्गहो विनासंमि । सेनावइस्स भेओ वक्कमणं चेव पुत्ताणं ॥ संगाम अत्थि भेओ मरणं पुन चूयपायवज्जाणे । कडगस्स य निब्भेओ दंडो अ पुरोहितयकुलस्स || जउघरपासयंमि अ दारे य सयंवरे अ थाले अ । तत्तो असर हथिए अ तह कुंडए चेव ॥ कुक्कडरहतिलपत्ते सुंदसणो दारुए य नयनिल्ले । पत्तच्छज्जसंयवर कलाउ तह आसने चेव ॥ कंचुयपज्जुमि अ हत्थो वणकुंजरे कुरुमई अ । एए कन्नालंभा बोद्धव्वा बंभदत्तस्स ॥ वृ. एतास्तु विशिष्टसम्प्रदायाभावान्न विव्रियन्ते ॥ सम्प्रति प्रसङ्गत एव चित्रवक्तव्यतोच्यतेमू. (४४१) चित्तोऽवि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसी । अनुत्तरं संजम पालइत्ता, अनुत्तरं सिद्धिगइं गओ ॥ त्तिबेभि ।
नि. [ ३५९ ]
वृ. 'चित्रोऽपि ' जन्मान्तरनामतश्चित्राभिधानस्तपस्व्यपि, अत्रापि 'अपि : ' पुनरर्थे, ततश्चित्रः पुनः 'कामेभ्यः' अभिलषणीयशब्दादिभ्यो विरक्तः - पराडमुखीभूतः कामः - अभिलाषोऽस्येति विरक्तकामः उदात्तं प्रधानं चारित्रं च सर्वविरतिरूपं तपश्च- द्वादशविधं यस्य च उदात्तचारित्रतपाः, पाठान्तरत:-उदग्रचारित्रता वा महेषी महर्षिर्वा, 'अनुत्तरं' सर्वसंयमस्थानोपरिवर्तिनं 'संजम 'त्ति संयमम्- आश्रवोपरमाणिदकं' पालयित्वा' आसेव्य 'अनुत्तरां' सर्वलोकाकाशोपरिवर्तिनीमतिप्रधानां वा ‘सिद्धिगतिं मुक्तिनाम्नीं गतिं 'गतः ' प्राप्त इति सूत्रार्थः ॥
'इति' परिसमाप्तौ, ब्रवमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् । अध्ययनं १३ समाप्तम्
मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे त्रयोदशमध्ययनं सनिर्युक्तिः सटीकं समाप्तम्
Jain Education International
For Private & Personal Use Only
३३३
www.jainelibrary.org