________________
३३०
उत्तराध्ययन-मूलसूत्रम्-१-१३/४२९ वृ.न तस्य-मृत्युना नीयमानस्य तत्कालभाविना दुःखेनात्यन्तपीडितस्य दु:खं शारीरं मानसं वा 'विभजन्ति' विभागीकुर्वन्ति 'ज्ञातयः' दूरवर्तिनः स्वजना न 'मित्रवर्गा' सुहृत्समूहा न 'सुताः' पुत्रा न बान्धवाः' निकटवर्तिनः स्वजनाः, किन्तु एक:-अद्वितीयः 'स्वयम्' आत्मना 'प्रत्यनुभवति' वेदयते 'दुःखं' क्लेशं, किमिति?, यतः 'कर्तारमेव' उपार्जयितारमेव 'अनुयाति' अनुगच्छति, किं तत् ?-कर्म, येन तत्कृतं तस्यैव फलमुपनयतीति भाव इति सूत्रद्वयार्थः ।। इत्थमशरणत्वभावनामभिधायैकत्वभावनामाहमू. (४३०) चिच्चा दुपयं च चउप्पयं च. खित्तं गिहंधणधन्नं च सव्वं ।
कम्मप्पबीओ अवसो पयाई, परं भवं सुंदर पावगं वा ।। वृ. 'त्यक्त्वा' उत्सृज्य 'द्विपदं च' भार्यादि 'चतुष्पदं च' हस्त्यादि 'क्षेत्रम्' इक्षुक्षेत्रादि 'गृहं' धवलगृहादि'धण'त्ति धनं-कनकादि धान्यं' शाल्यादि, चशब्दाद वस्त्रादि च, 'सर्व' निरवशेषं, ततः किमित्याह-कर्मैवात्मनो द्वितीयमस्येति कर्मात्मद्वितीयः 'अवशः' अस्वतत्र: प्रकर्षेण याति-प्राप्नोति प्रयाति, कं? -'परम्' अन्यं 'भवं' जन्म 'सुंदर'त्ति बिन्दुलोपात् 'सुन्दरं' स्वर्गादि पापकं वा' नरकादि, स्वकृतकर्मानुरूपमिति भावः। तत्र किमन्यदर्शनिनामिव सशरीर एव भवान्तरं यात्युत अन्यथेति ?, उच्यते, औदारिकशरीरापेक्षयाऽशरीर एव, तर्हि तत्त्यक्त्वेत्यत्र का वार्तेत्याहमू. (४३१) तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिउं पावगेणं।
भज्जा य पत्ताविय नायओ अ, दायारमन्नं अनुसंकमंति॥ वृ. 'तद्' इति यत्तेन त्यक्तम् ‘एकम्' अद्वितीयं तद्वितीयस्य जन्तोरन्यत्र सङ्क्रमणात् तूच्छम्असारमत एव कुस्तितं शरीरं शरीरकम्, अनयोस्तु विशेषणसमासः, से' तस्य भवान्तरगतस्य संबन्धि चीयन्तेमृतकदहनाय इन्धनानि अस्यामिति चितः-काष्ठरचनात्मिका तस्यां गतं-स्थितं चितिगतं दग्ध्वा 'तुः' पूरणे 'पावकेन' अग्निना भार्या च पुत्रोऽपि च ज्ञातयश्च 'दातारम्' अभिलषितवस्तुसम्पादयितारमन्यम् 'अनुसङ्क्रामन्ति' उपसर्पन्ति, ते हि गृहमनेनावरुद्धमास्त इति तद्वहिनिष्काश्य जनलज्जादिना च भस्मासात्कृत्य कृत्वा च लौकिककृत्यान्याक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थतत्परतया तथाविधमन्यमेवानुवर्तन्ते, न तु तत्प्रवृत्तिमपि पृच्छन्ति, आस्तां तदनुगमनमित्यभिप्राय इति सूत्रद्वयार्थः ।। किञ्चमू. (४३२) उवणिज्जई जीवियमप्पमायं, वण्णं जरा हरइ नरस्स रायं!।
पंचालराया! वयणं सुणाहि, मा कासि कम्माइं महालयाइ। वृ. 'उपनीयते' ढोक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिः 'जीवितम्' आयुः 'अप्रमादं' प्रमादं विनैव, आवीचीमरणतो निरन्तरमित्यभिप्राय:, सत्यपिचि जीविते 'वर्ण' सुस्निग्धच्छायात्मकं 'जरा' विश्रसा 'हरति' अपनयति नरस्य' मनुष्यस्य राजन्!' चक्रवर्ति!, यतश्चैवमतः 'पञ्चालराज!' पञ्चमण्डलोद्भवनृपते! वचनं' वाक्यं 'शृणु' आकर्णय, किं तत्?-मा कार्षीः, कानि? - 'कर्माणि' असदारम्भरूपाणि 'महालयाणि'त्ति अतिशयमहान्ति, महान् वा लय:कर्माश्लेषो येषु तानि, उभयत्र पञ्चेन्द्रियव्यपरोपणकुणिमभक्षणादीनीति सूत्रार्थः॥ एवं मुनिनोक्ते नृपतिराह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org