Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 330
________________ अध्ययनं - १३, [ नि. ३५५ ] मू. (४१९ ) शोभनमना इति सूत्रत्रयार्थः । इत्थं मुनिनाऽभिहिते ब्रह्मदत्तः स्वसमृद्ध्या निमन्त्रयितुमाहउच्चो अए महुकक्के य बंभे, पवेइया आवसहा य रम्मा । इमं गिहं वित्तधनप्पभूयं, पसाहि पंचालगुणोववेयं ॥ वृ. उच्चोदयो मधुः कर्कः, चशब्दान्मध्यां ब्रह्मा च पञ्च प्रधानाः प्रासादाः, प्रवेदिताः, मम वर्द्धकिपुरःसरैः सुरैरुपनीता इत्यर्थः, 'आवसथाश्च' शेषभवनप्रकारा 'रम्याः' रमणीयाः, पाठान्तरतश्च आवसथाः अतिरम्याः अतिरम्या:- सुरभ्या वा, एते तु यत्रैव चक्रिणे रोचते तत्रैव भवन्तीति वृद्धाः, किञ्च- 'इदं' प्रत्यक्षं 'गृहम्' अवस्थितप्रासादरूपं वित्तं प्रतीतं तच्च तद्धनं च- हिरण्यादि तेनोपेतं युक्तं वित्तधनोपेतं, पठन्ति च 'चित्तधणप्पभूयं 'ति, तत्र प्रभूतं - बहु चित्रम्- आश्चर्यमनेकप्रकारं वा धनमस्मिन्निति प्रभूतचित्रधनं, सूत्रे तु प्रभृतशब्दस्य परनिपातः प्राग्वत्, 'प्रसाधि' प्रतिपालय पञ्चाला नाम जनपदस्तस्मिन् गुणा-इन्द्रियोपकारिणो रूपादयस्तैरुपेतं पञ्चालगुणोपेतं किमुक्तं भवति ? पञ्चालेषु यानि विशिष्टवस्तु तत् तद्गेह एव तदासीत् । मू. (४२० ) नेट्टेहि गीएहि य वाइएहिं, नारीजनाहिं परिवारयंतो । भुंजाहि भोगाई इमाइं भिक्खू !, मम रोअई पव्वज्जा हु दुक्खं ॥ वृ. किं च 'नट्टेहिं 'ति द्वात्रिंशत्पात्रोपलक्षितैर्नाट्यर्नृत्यैर्वा विविधाङ्गहारादिस्वरूपैर्गीतै:ग्रामस्वरमूर्च्छनालक्षणैः, चस्य भित्रक्रमत्वात्, 'वाइएहिं ति वादित्रैश्च मृदङ्गमुकुन्दादिभिः ‘नारीजनान्' स्त्रीजनान्-परिदृश्यमानान्, सूत्रत्वात् सर्वत्र लिङ्गव्यत्ययः, भिक्षो!, इह तु यद्गजतुरङ्गमाद्यनभिधाय स्त्रीणामेवाभिधानं तत् स्त्रीलोलुपत्वात्तस्य, तासामेव वाऽत्यन्ताक्षेपकत्वख्यापनार्थं, कदाचिच्चित्रो वदेदित्थमेव सुखमित्याह-मह्यं रोचते' प्रतिभाति प्रव्रज्या, 'हुः ' अवधारणे भिन्नक्रमश्च, दुःखमेव, न मनागपि सुखं, दुःखहेतुत्वादिति भाव इति सूत्रद्वयार्थः ॥ इत्थं चक्रिणोक्ते मुनिः किं कृतवान् ? इत्याह मू. (४२१ ) तं पुव्वनेहेण कयानुरागं, नराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हियानुपेही, चित्तो इमं वयणमुदाहरित्था ।। वृ. 'तं' ब्रह्मदत्तं 'पूर्वस्नेहेन' जन्मान्तरप्ररूढप्रणयेन 'कृतानुरागं' विहिताभिष्वङ्गं' नराधिपं' राजानं 'कामागुणेषु' अभिलष्यमानशब्दादिषु 'गृद्धम्' अभिकाङ्क्षान्वितं 'धर्माश्रितः ' धर्मस्थितः 'तस्य' इति चक्रिणः हितं-पथ्यम् अनुप्रेक्षते-पर्यालोचयतीत्येवंशीलो हितानुप्रेक्षी-कथं नु नामास्य हितं स्यादिति विचिन्तनपरश्चित्रजीवयतिरिदं वाक्यं पाठान्तरतो वचनं वा 'उदाहरित्थ' त्ति ‘उदाहृतवान्' उक्तवानिति सूत्रार्थः ॥ किं तदुदाहृतवानित्याह मू. (४२२ ) सव्वं विलवियं गीयं, सव्वं नट्टं विडंबणा । सव्वे आभरणा भारा, सव्वे कामा दुहावहा । Jain Education International ३२७ -- वृ. 'सर्वम्' अशेषं विलपितमिव विलपितं निरर्थकतया रुदितयोनितया च तत्र निरर्थकतया मत्तबालकगीतवत् रुदितयोनितया च विरहावस्थमृतप्रोषितभर्तृकागीतवत्, किमित्याह-'गीतं' गानं, तथा सर्वं 'नृत्यं' गात्रविक्षेपणरूपं विडम्बितमिव विडम्बितं, यथा हि यक्षाविष्टः पीतमद्यादिर्वा यतस्ततो हस्तपादादीन् विक्षिपति, एव नृत्यन्नपीति, तथा सर्वाणि 'आभरणानि ' For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388