Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
उत्तराध्ययन-मूलसूत्रम्-१-१३/४१६ अत्थेहि कामेहि अ उत्तमेहिं, आया ममं पुत्रफलोववेओ ॥
वृ. 'सर्व' निरवशेषं 'सुचीर्णं' शोभनमनुष्ठितं, तपः प्रभृतीति गम्यते, चीर्णशब्दस्य 'सुचीर्णं' प्रोषितव्रत'मित्यादिरूढितः साधुत्वं, सह फलेन वर्त्तत इति सलेन वर्त्तत इति सफलं नराणामिति, उपलक्षणत्वादशेषाणामपि प्राणिनां किमिति ?, यतः कृतेभ्यः - अर्थादवश्यवेद्यतयोपरचितेभ्यः कर्मभ्यो न 'मोक्षः ' मुक्तिरस्तीति, ददति हि तानि निजफलमवश्यमिति भाव:, प्राकृतत्वाच्च सुब्व्यत्ययः, स्यादेतत्-त्वयैव व्यभिचारइत्याह-'अर्थेः' द्रव्यैरथैर्वा-प्रार्थनीयैः, वस्तुभिरिति गम्यते, कामैश्च-मनोज्ञशब्दादिभिः 'उत्तमैः' प्रधानैः, लक्षणे तृतीया, तत एतदुपलक्षितः सन्नात्मा मम पुण्यफलेन-शुभकर्मफलेनोपपेतः - अन्वितः स पुण्यफलोपपेतः इति ॥
यथा त्वं ‘जानासि' अवधारयसि 'संभूत!' पूर्वजन्मनि संभूताभिधान ! 'महानुभागं' बृहन्माहात्म्यं 'महर्द्धिकं' सातिशयविभूतियुक्तम् अत एव पुण्यफलोपेतं चित्रमपि 'जानीहि ' अवबुद्धस्व' तथैव' अविशिष्टमेव 'राजन्!' नृप !, किमित्येवमत आह - ऋद्धिः - सम्पत् द्युति:- दीप्तिस्तस्यापीति-जन्मान्तरनामतश्चित्राभिधानस्य, ममापीति भावः, चशब्दो यस्मादर्थे, ततो यस्मात्प्रभूता-बह्वीत्यर्थः यद्वाऽऽत्मा मम पुण्यफलोपेत इति, अनेन चित्र एवात्मानं निर्दिशति, तथा जानीहि संभूत इत्यादौ आत्मेत्यनुवर्त्तते, अर्थवशाच्च विभक्तिपरिणाम:, ततश्चैवं योज्यते - हे संभूत! यथा त्वभात्मानं महानुभागादिविशेषणविशिष्टं जानासि तथा चित्रमपि जानीहि, चित्रनाम्नो ममापि गृहस्थभावे एवंविधत्वादेवेति भावः, शेषं प्राग्वत् ॥
मू. ( ४१७ )
३२६
"
मू. (४१८ )
-
जानाहि संभूय ! महानुभागं, महिड्डियं पुन्नफलोववेयं । चित्तंपि जानाहि तहेव रायं !, इड्डी जुई तस्सवि अप्पभूआ ॥ महत्थरूवा वयणप्पमूया, गाहानुगीया नरसंघमज्झे । जं भिक्खुणो सीलगुणोववेया, इहऽज्जयंते समणोऽम्हि जाओ ॥ वृ. यदि तवाप्येवंविधा समृद्धिरासीत् तत्किमिति प्रव्रजित इत्याह- महान् - अपरिमितोऽनन्तद्रव्यपर्यायात्मकतयाऽर्थः - अभिधेयं यस्य तन्महार्थं रूपं स्वरूपं न तु चक्षुर्ग्राह्यो गुणः, ततो महार्थं रूपं यस्याः सा तथा, महतो वाऽर्थान् - जीवादितत्त्वरूपान् रूपयति-दर्शयतीति महार्थरूपा, 'वयणप्पभूय'त्ति वचनेन अप्रभूता अल्पभूता वा अल्पत्वं प्राप्ता वचनाल्पभूता वचनात्प्रभूता वा स्तोकाक्षरेतियावत्, केयमीदृशीत्याह - गीयत इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अन्विति - तीर्थकृद्गणधरादिभ्यः पश्चाद्गीता अनुगीता, कोऽर्थः ? - तीर्थकरादिभ्यः श्रुत्वा प्रतिपादिता स्थविरैरिति शेषः, अनुलोमं वा गीताऽनुगीता, अनेन श्रोत्रनुकूलैव देशना क्रियते इति ख्यापितं भवति । क्वेत्याह- नराणां पुरुषाणां सङ्घः- समूहस्तन्मध्ये, गाथामेव पुनर्विशेषयितुमाह - 'यां' गाथां ' भिक्षवः' मुनयः शीलं - चारित्रं तदेव गुणः, यद्वा गुणः पृथगेव ज्ञानं, ततः शीलगुणेन शीलगुणाभ्यां वा चारित्रज्ञानाभ्यामुपेताः - युक्ताः शीलगुणोपेताः 'इह' अस्मिन् जगति 'अञ्जयंते 'त्ति अर्जयन्ति पठन श्रवणतदर्थानुष्ठानादिभिरावर्जयन्ति । यद्वा 'जं भिक्खुणो' इत्यत्र श्रुत्वेति शेषः, ततो यां श्रुत्वा 'जयंति 'त्ति 'इह' अस्मिन् जिनप्रवचने 'यतन्ते' यत्नवन्तो भवन्ति, सोपस्कारत्वात्सा मयाऽप्याकणिता, ततः 'श्रमणः ' तपस्वी अस्मि अहं जातो, न तु दुःखदग्धत्वादिति भावः, पठ्यते च - 'सुमणो 'त्ति सुमनाः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388