________________
अध्ययनं - १३, [ नि. ३५५ ]
मू. (४१९ )
शोभनमना इति सूत्रत्रयार्थः । इत्थं मुनिनाऽभिहिते ब्रह्मदत्तः स्वसमृद्ध्या निमन्त्रयितुमाहउच्चो अए महुकक्के य बंभे, पवेइया आवसहा य रम्मा । इमं गिहं वित्तधनप्पभूयं, पसाहि पंचालगुणोववेयं ॥ वृ. उच्चोदयो मधुः कर्कः, चशब्दान्मध्यां ब्रह्मा च पञ्च प्रधानाः प्रासादाः, प्रवेदिताः, मम वर्द्धकिपुरःसरैः सुरैरुपनीता इत्यर्थः, 'आवसथाश्च' शेषभवनप्रकारा 'रम्याः' रमणीयाः, पाठान्तरतश्च आवसथाः अतिरम्याः अतिरम्या:- सुरभ्या वा, एते तु यत्रैव चक्रिणे रोचते तत्रैव भवन्तीति वृद्धाः, किञ्च- 'इदं' प्रत्यक्षं 'गृहम्' अवस्थितप्रासादरूपं वित्तं प्रतीतं तच्च तद्धनं च- हिरण्यादि तेनोपेतं युक्तं वित्तधनोपेतं, पठन्ति च 'चित्तधणप्पभूयं 'ति, तत्र प्रभूतं - बहु चित्रम्- आश्चर्यमनेकप्रकारं वा धनमस्मिन्निति प्रभूतचित्रधनं, सूत्रे तु प्रभृतशब्दस्य परनिपातः प्राग्वत्, 'प्रसाधि' प्रतिपालय पञ्चाला नाम जनपदस्तस्मिन् गुणा-इन्द्रियोपकारिणो रूपादयस्तैरुपेतं पञ्चालगुणोपेतं किमुक्तं भवति ? पञ्चालेषु यानि विशिष्टवस्तु तत् तद्गेह एव तदासीत् ।
मू. (४२० )
नेट्टेहि गीएहि य वाइएहिं, नारीजनाहिं परिवारयंतो ।
भुंजाहि भोगाई इमाइं भिक्खू !, मम रोअई पव्वज्जा हु दुक्खं ॥ वृ. किं च 'नट्टेहिं 'ति द्वात्रिंशत्पात्रोपलक्षितैर्नाट्यर्नृत्यैर्वा विविधाङ्गहारादिस्वरूपैर्गीतै:ग्रामस्वरमूर्च्छनालक्षणैः, चस्य भित्रक्रमत्वात्, 'वाइएहिं ति वादित्रैश्च मृदङ्गमुकुन्दादिभिः ‘नारीजनान्' स्त्रीजनान्-परिदृश्यमानान्, सूत्रत्वात् सर्वत्र लिङ्गव्यत्ययः, भिक्षो!, इह तु यद्गजतुरङ्गमाद्यनभिधाय स्त्रीणामेवाभिधानं तत् स्त्रीलोलुपत्वात्तस्य, तासामेव वाऽत्यन्ताक्षेपकत्वख्यापनार्थं, कदाचिच्चित्रो वदेदित्थमेव सुखमित्याह-मह्यं रोचते' प्रतिभाति प्रव्रज्या, 'हुः ' अवधारणे भिन्नक्रमश्च, दुःखमेव, न मनागपि सुखं, दुःखहेतुत्वादिति भाव इति सूत्रद्वयार्थः ॥ इत्थं चक्रिणोक्ते मुनिः किं कृतवान् ? इत्याह
मू. (४२१ )
तं पुव्वनेहेण कयानुरागं, नराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हियानुपेही, चित्तो इमं वयणमुदाहरित्था ।।
वृ. 'तं' ब्रह्मदत्तं 'पूर्वस्नेहेन' जन्मान्तरप्ररूढप्रणयेन 'कृतानुरागं' विहिताभिष्वङ्गं' नराधिपं' राजानं 'कामागुणेषु' अभिलष्यमानशब्दादिषु 'गृद्धम्' अभिकाङ्क्षान्वितं 'धर्माश्रितः ' धर्मस्थितः 'तस्य' इति चक्रिणः हितं-पथ्यम् अनुप्रेक्षते-पर्यालोचयतीत्येवंशीलो हितानुप्रेक्षी-कथं नु नामास्य हितं स्यादिति विचिन्तनपरश्चित्रजीवयतिरिदं वाक्यं पाठान्तरतो वचनं वा 'उदाहरित्थ' त्ति ‘उदाहृतवान्' उक्तवानिति सूत्रार्थः ॥ किं तदुदाहृतवानित्याह
मू. (४२२ )
सव्वं विलवियं गीयं, सव्वं नट्टं विडंबणा ।
सव्वे आभरणा भारा, सव्वे कामा दुहावहा ।
Jain Education International
३२७
--
वृ. 'सर्वम्' अशेषं विलपितमिव विलपितं निरर्थकतया रुदितयोनितया च तत्र निरर्थकतया मत्तबालकगीतवत् रुदितयोनितया च विरहावस्थमृतप्रोषितभर्तृकागीतवत्, किमित्याह-'गीतं' गानं, तथा सर्वं 'नृत्यं' गात्रविक्षेपणरूपं विडम्बितमिव विडम्बितं, यथा हि यक्षाविष्टः पीतमद्यादिर्वा यतस्ततो हस्तपादादीन् विक्षिपति, एव नृत्यन्नपीति, तथा सर्वाणि 'आभरणानि '
For Private & Personal Use Only
www.jainelibrary.org