________________
३२८
उत्तराध्ययन- मूलसूत्रम् - १-१३ / ४२२ मुकुटाङ्गदादीनि 'भारा' तत्त्वतो भाररूपत्वात्तेषां तथाविधवनिता भर्तृकारितसुवर्णस्थगितशिलापुत्रकाभरणवत्, सर्वे 'कामा: ' शब्दादयो 'दुःखवहाः' मृगाजीनामियायतौ दुःखावाप्तिहेतुत्वात्, मत्सरेर्ष्याविषादादिभिश्चित्तव्याकुलत्वोत्पादकत्वान्नरकादिहेतुत्वाच्चेति ।
मू. (४२३ )
बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं !।
विरत्तकामान तवोधनानं, जं भिक्खुणं सीलगुणे रयाणं ।।
वृ. तथा बालानां - विवेकरहितानामभिरामाः - चित्ताभिरतिहेतवो ये तेषु 'दुःखावहेषु' उक्तन्यायेन दुःखप्रापकेषु न तत्सुखं 'कामगुणेषु' मनोज्ञशब्दादिषु, सेव्यमानेष्विति शेषः, ‘राजन!’ पृथ्वीपते! ‘विरत्तकामानं 'त्ति प्राग्वत्, कामविरक्तानां विषयपराड्युखानां तप एव धनं येषां ते तपोधनास्तेषां यत्सुखमिति सम्बन्धः, 'भिक्षुणां' यतीनां शीलगुणयोर्वा सूत्रत्वाद् ‘रतानां’ आसक्तानामिति सूत्रद्वयार्थः ॥ बालेत्यादिसूत्रं चूर्णिकृता न व्याख्यातं, क्वचित्तु दृश्यत इत्यस्माभिरुन्नीतं ।। सम्प्रति धर्मफलोपदर्शनपुरःसरमुपदेशमाह
मू. (४२४ )
नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सव्वजनस्स वेसा, वसीअ सोवागनिवेसनेसुं ॥
वृ. ‘नरेन्द्र!' चक्रवर्त्तिन् ! जायन्तेऽस्यामिति जातिः ‘अधमा' निकृष्टा 'नराणां' मनुष्याणा मध्ये ‘श्वपाकजाति:’ चाण्डालजाति: 'दुहतो 'त्ति द्वयोरपि 'गतयो:' प्राप्तयोः किमुक्तं भवति?-यदाऽऽवां श्वपाकजातावुत्पन्नौ तदा सर्वजनगर्हिता जातिरासीत्, कदाचित्तामवाप्याप्यन्यत्रैवोषितौ स्यातामित्याह-यस्यां वयं प्राग्वच्च बहुवचनं, 'सर्वजनस्य' अशेषलोकस्य 'द्वैष्यौ' अप्रीतिकरौ 'वसीय'त्ति अवसाय-उपितौ, केषु ? - श्वपाकानां निवेशनानि-गृहाणि श्वपाकनिवेशनानि तेषु कदाचित्तत्रापि विज्ञानविशेषादिनाऽहीलनीयावेव स्यातामित्याह
मू. (४२५) तीसे अ जाईइ उ पावियाए, वुच्छा मु सोवागनिवेसणेसुं । सव्वस्स लोगस्स दुर्गुर्छाणिज्जा, इहं तु कम्माई पुरेकडाई ॥
वृ. तस्यां च जातौ श्वपाकसम्बन्धिन्यां च, 'तुः ' विशेषणे, ततश्च जात्यन्तरेभ्यः कुत्सि - तत्वं विशिनष्टि, पापैव पापिका तस्यां कुस्तितायां, पापहेतुभूतत्वेन वा पापिका तस्यां प्रापिकायां वा नरकादिकुगतेरिति गम्यते, 'वुच्छे' ति उषितौ 'मु' इत्यावां, केपु ? - श्वपाकनिवेशनेपु, कीदृशौ ? - सर्वस्य लोकस्य 'जुगुप्सनीयौ' हीलनीयौ 'इह' इत्यस्मिन् जन्मनि 'तुः ' पुनरर्थस्तत इह पुन: ‘कर्माणि' शुभानुष्ठानानि 'पुरेकडाई 'ति पूर्वजन्मोपार्जितानि विशिष्टजात्यादिनिबन्धनानीति शेषः, तत उत्पन्नप्रत्ययैः पुनस्तदुपार्जन एव यत्त्रो विधेयो न तु विषयाभिष्वङ्गव्याकुलितमानसैरेव स्थेयमिति भाव इति ।।
मू. (४२६) सो दानि सिं राय ! महानुभागो महिड्डिओ पुन्नफलोववेओ । चइत्तु भोगाई असासयाई, आयाणहेउं अभिनिक्खमाहि ॥
वृ. यतश्चैवमतः 'सः' इति यः पुरा संभूतनामाऽनगारा आसीद् 'इदानीम्' अस्मिन् काले 'स'त्ति पूरणे यद्वा 'दाणिसिं' ति देशीयमाषयेदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपेतश्च सन् दृष्टधर्मफलत्वेनाभिनिष्क्रोमेति सम्बन्धः, अथवा सोपस्कारत्वाद्यत् स एव त्वमिदानीं राजा महानुभागताद्यनवित इह जातस्तत्कर्माणि पुराकृतानीति पूर्वेण सम्बन्धः, कोऽर्थः ? -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org