Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 210
________________ अध्ययनं-५,[नि. २३५] २०७ यक्षैः सलोकता यक्षसलोकता ताम्, इयं च देवगतावेव भवतीत्यर्थादेव गतिमिति, अनेन च पण्डितमरणावसरेऽपि प्रसङ्गतो बालपण्डितमरणमुक्तमिति सूत्रार्थः ।। मू.(१५३) अह जे संवुडे भिक्खू, दुण्हमेगयरे सिया। सव्वदुक्खपहीणे वा, देवं वावि महिड्डिए। वृ. अथे' त्युपप्रदर्शने 'य' इत्यनुद्दिष्टनिर्देशे 'संवृत्' इति पिहितसमस्ताश्रवद्वार: 'भिक्षु'रिति भावभिक्षुः,सचद्वयोरन्यतर:-एकतरः 'स्यात्' भवेद,ययोर्द्वयोरन्यतर: स्यात् तावाह-सर्वाणिअशेषाणि यानि दुःखानि क्षुत्पिपासेष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षण-पुनरनुत्पत्त्यात्मकेन हीनो-रहितः सर्वदुःखग्रहीणः, स्यादिति सम्बन्धः, यद्वा-सर्वदुःखानि प्रहीणान्यस्येति सर्वदुःखग्रहीण: आहिताग्न्योदेराकृतिगणत्वात् निष्ठान्तस्य परनिपातः, स च सिद्ध एव, ततः स वा देवो वा, अपिः सम्भावने, सम्भवति हि संहननादिवैकल्यतो मुक्त्यनवाप्तौ देवोऽपि स्यादिति, कीदृग्?-महती ऋद्धिः-सुखादिसम्पदस्येति महद्धिक इति सूत्रार्थः ।। आह-गृह्णीमो देवो वा स्यादिति, यत्र चासौ देवो भवति तत्र कीदृशा आवासा:? कीदृशाश्च देवा? इत्याह.मू.(१५४) उत्तराई विमोहाई, जुइमंताणुपुव्वसो। समाइन्नाइ जक्खेहि, आवासाइ जसंसिणो॥ मू. (१५५) दीहाउया दित्तिमंता, समिद्धा कामरूविणो। अहुणोववन्नसंकासा, भुज्जो अच्चिमालिप्पभा। वृ.'उत्तरा' उपरिवर्तिनोऽनुत्तरविमानख्याः, सर्वोपरिवर्तित्वात्तेषा, विमोहा इवाल्पवेदादिमोहनीयोदयतया विमोहाः, अथवा मोहो द्विधा-द्रव्यतो भावतश्च, द्रव्यतोऽन्धकारो भावतश्च मिथ्यादर्शनादिः, सद्विविधोऽपि सततरत्नोद्योतितत्वेन सम्यग्दर्शनस्यैव च तत्र सम्भवेन विगतो येषु ते विमोहाः, द्युतिः-दीप्तिरन्यातिशायिनी विद्यते येषु ते द्युतिमन्तः, अनुपुव्वसो'त्ति प्राग्वदनुपूर्वतः क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु ह्यनुत्तरविमानावसानेषु पूर्वपूर्वापेक्षया प्रकर्षवन्त्येव विमोहत्वादीनि, 'समाकीर्णा' व्याप्ता ‘यक्षैः' देवेः, आ-समन्ताद्वसन्ति तेष्वित्यावासाः, प्राकृतत्वाच्च सर्वत्र नपुंसकतया निर्देशः, देवास्तु तत्र 'यशस्विनः' श्लाघान्विताः, दीर्घसागरोपमपरिमिततया आयुरेषामिति दीर्घायुषः, 'ऋद्धिमन्तो' रत्नादिसम्पदुपेताः 'समिद्धा' अतिदीप्ताः, कामरूपिणः' कामः-अभिलाषस्तेन रूपाणि कामरूपाणि तद्वन्तः, विविधवैक्रियक्त्यन्विता इत्यर्थः, न चैतदनुत्तरेष्वनुपपन्न विशेषणमिति वाच्यं, विकरणशक्तेस्तत्रापि सत्त्वात्, 'अधुनापपन्नसङ्काशाः' प्रथमोत्पन्नदेवतुल्याः, अनुत्तरेषु हि वर्णद्युत्यादि यावदायूस्तुल्यमेव भवति, भूयोऽचिमालिप्रभा' इति, भूयःशब्दः प्राचुर्ये, ततः प्रभूतादित्यदीप्तयो न टेकस्यैवादित्यस्य तादृशी द्युतिरस्तीति भूयोग्रहणमिति सूत्रार्थः ।। उपसंहर्तुमाह.. मू.(१५६) तानि ठाणाइ गच्छंति, सिक्खित्ता संजमंतवं। भिक्खाए वा गिहत्थे वा, जे संतिपरिनिव्वुडा॥ वृ. 'तानि' अभिहितरूपाणि तिष्ठन्त्येषु सुकृतिनो जन्तव इति स्थानानि-आवासात्मकानि 'गच्छन्ति' यान्ति, उपलक्षणत्वाद्गता गमिष्यन्ति च, उपलक्षणं चैतत् सौधर्मादिगमनस्य, तत्रापि तेषां केषाञ्चिद्गमनसम्भवात्, 'शिक्षित्वा' अभ्यस्य संयम' सप्तदेशभेदं तपो' द्वादश Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388