Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 325
________________ ३२२ उत्तराध्ययन-मूलसूत्रम्-१-१३/४०८ निटकवर्ती कटपादपः, शायितस्तत्र शीतलच्छाये तत्पल्लवोपरचितश्रस्तरे ब्रह्मदत्तः, कृतश्च वरधनुना तेन सह सङ्केतः- यथा यदि मां कथञ्चिद्दीर्धप्रहितपुरुषाः प्राप्स्यन्ति ततोऽहमन्योक्त्याऽभिज्ञानं करिष्ये, तत इतस्त्वया पलायितव्यमिति, गतोऽसौ जलान्वेषणाय, दृष्टं चैकत्रपद्मिनीखण्डमण्डितं सर:, गृहीतं च पद्मिनीपत्रपुटके जलं, प्रवृत्तस्य च ब्रह्मदत्ताभिमुखमागन्तुं ग्रहणं तद्वटासन्नदेशे, कथञ्चिदुपलब्धतदपसरणवृत्तान्तैर्दीर्घपृष्ठप्रहितपुरुपैरतिरोषवद्भिर्वरधनोर्बन्धनं वल्लीवितानेन आक्रोशनं चैव दुष्टवचसा कृतं । अन्यच्च-सहन्यते मुष्टिप्रहारादिभिरमात्यो-वरधनुः, भण्यते च-यथा 'देही ति ढोक्य कुमारमरे ! दुराचार ! क्व पुनरसौ नीतस्त्वया राजपुत्र इति?, अत्रान्तरे सङ्केतमनुसरता पठितमिदमनेन 'सहकारमञ्जरीमनुधावति मधुपो विमुच्य मधु मधुरम् । कमले कलयन् पश्चात्सङ्कोचकृतां खतनुबाधाम्॥' गुलीयविरेयणपीतो'त्ति प्राकृतत्वात्पीतविरेचनगुलिकः, स हि तैर्ग्रहीतुमुपक्रान्तोऽन्यथाऽऽत्मनो विमुक्तिमनवगच्छन् पूर्वलब्धां विरेचनगुटिकां प्रथममेव पयसा पीतवान्, विरक्तश्च तया, जाताश्च मुखे फेनबुबुदाः, एवं च कपटेन मृतः कपटमृतो मृत इति 'छर्दितः' त्यक्तस्तैः । इतश्च तत्पठितं श्रुत्वा कुमारो 'भीतः' इति त्रस्तः 'अथ' अनन्तरम् 'उप्पहं'ति उत्पथेन 'पलायित्थ'त्ति पलायितवान्, तथा चतं पलायमानमवलोक्य कृत्वा स्थविररूपं देवः किमस्य सत्त्वमस्त्युत नेति परीक्षणार्थं 'वाहेसिअ'त्ति वाहितवान् व्यंसितवानित्यर्थः कुवारं । ततश्च परिभ्रमतो वटपुरकं तस्माच्च ब्रह्मस्थलकं वटस्थलकं चैव भवति विश्रामविषयः कौशाम्बी वाराणसी राजगृहं गिरिपुरं मथुरा अहिच्छत्रा च। ततोऽपि गच्छताऽरण्यानीं प्रविष्टेन दृष्टास्तापसाः, प्रत्यभिज्ञातश्च तैर्ब्रह्मराजस्यास्मन्निजकस्य सुत इति, धृतश्चातुर्मासी, तत्र च तापसकुमारकै: सह क्रीडतैकस्मिन् दिनेऽवलोकितो वनहस्ति, समुत्पन्नं च नृपसुतसुलभमस्य कुतूहलं, प्रारब्धश्च विविधगजशिक्षाभिरमुंखेदयितुं, आरूढश्च निष्पन्दीकृत्य तत्पृष्ठं, प्रवृत्तश्चासौ कुमारापहरणाय, वीक्षितश्च कियदपि दूरंगतेनैकस्तरुः, लग्नश्च तदधो व्रजति हस्तिनि विटपैकदेशे कुमारः, अपक्रान्ते च करिणि ततस्तरोरित्तीर्य विमूढदिग्भागो भ्रमितुमारेभे, भ्राम्यंश्चारण्याद्विनिर्गत्य गतो वटपुरं, वटपुराच्च प्रस्थितः श्रावस्ति, गच्छंश्च प्राप्तस्तथाविधमेकमन्तरा ग्रामं, उपविष्टश्च तन्निकटविटपिनि विश्रमितुं, दृष्टश्चैकेन तत्रत्य श्रेष्ठिना, नीतश्च तेन स्वं गृहं, कृतं चाभ्यागतकर्त्तव्यं, परिणायितश्च नेमित्तिकादेशतः स्वदुहितरं, उपचरितश्च भुजगनिर्मोकसदृशैविविधवसनैर्लग्नेन्द्रनीलादिप्रधानमणिभिः कटककेयूरकुण्डलादिभिश्चाभरणैः, ततस्तद्गुणलुब्धमानसः स्थितस्तत्रैव कियत्कालं, जनयति तदा तद्दुहितरि कुमार। ___ इतश्च प्राप्ताः कृतान्तानुकारिणो दीर्घपृष्ठप्रहितपुरुषाः, प्रारब्धाः समन्ततस्तमवलोकितुं, उपलब्धतद्वृत्तान्तश्च नष्टस्तद्भयात्, प्रचलितश्च सुप्रतिष्ठपुराभिमुखं गन्तुं, तत्र च मिलितः कश्चिद्विट: कार्पटिको, दृष्टं चाभिमुखमागच्छत् किञ्चित् तथाविधं मिथुनकं, दृष्ट्वा च तदङ्गनां उदाररूपां कुमारमयमवोचत्-यदि युष्मत्प्रसादतः कथञ्चिदेनां कामयेय इति, ततस्तदुपरोधात्तेनोक्तं-प्रविश तहि वंशीकुडङ्ग, स्थितः पथि कुमारः प्राप्तं च मिथुनं, उक्तस्तत्पतिःमदीयं कलत्रमिह गर्भशूलाभ्याहतमास्ते तद्विसर्जय क्षणमेकं स्वकीयपत्नी, विसर्जिता चासौ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388