Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 323
________________ ३२० उत्तराध्ययन-मूलसूत्रम्-१-१३/४०८ स्वनिवासस्थानं, निरूपितं तत्र सत्रं, खानिता च तत्र प्रत्ययिकपुरुषैर्जतुगृहं यावत्सुरङ्गा, ज्ञापिताऽसौ वरधनोः, इतश्च गणितं तत्परिणयनलग्नं, निष्पन्नं च जतुगृहं, प्रेषिता च मन्त्रवचनतोऽन्यैव कन्यका मातुलेन, समागतो लग्नदिनः, कृतं सर्वसमृद्ध्योपयमनं, शायितश्च रजन्यां जतुगृहे कुमारः, प्रदीपितं च तद्द्वार एव सुप्तजनायां रजन्यां, ज्ञातं चासन्नस्थितेन वरधनुना, उत्थापितः कुमारो, दृष्टं च सर्वतः प्रदीप्तमेतेन, उक्तश्च वरधनु:-मित्र! किमिदानी क्रियितामिति, तेनोक्तं-मा भैषीः, यतः प्रतिविहतमत्र तातेन, अत्रान्तरे चागतं नागकुमारद्वयानुकारि भुवनमुद्भिद्य पुरुषद्वयम्, अभ्यधाश्च तत्-मा भैष्टाम्, आवां हि धनोर्गृहजातौ दासचेटकौ, तक्रियतां प्रसादो, निर्गम्यतां सुङ्गामार्गेण, इत्युक्तौ च तौ गतौ सुरङ्गाद्वारं, दृष्टं च तत्र प्रधानगश्वद्वयम्, उक्तं च ताभ्यां चेटकाभ्याम्-एतावारुह्य देशान्तरापक्रमणेनात्मानं रक्षतां दीर्धपृष्ठाभवन्तौ यावत्क्वचिदवसर: शुभो भवति, ततस्तद्वचनमाकर्ण्य किं किमेतत् ? इत्याकुलितचेतसो ब्रह्मदत्तस्य कथितः सर्वोऽपि वरधनुना चुलनीवृत्तान्तः, अभिहितं च-यथेदमेवेदानीं प्राप्तकालमिति, विनिर्गतौ च तत्प्रधानमश्वयुगलमारुह्येति तृतीयगाथातात्पर्यार्थः। एवं च प्राप्तावसरा ब्रह्मदत्तहिण्डी, ततस्तत्र ये कन्यालाभा ये च तत्पितरस्तदुपदर्शनाय गाथापञ्चकमाहनि.[३३९] चित्त अ विज्जुमाला विज्जुमई चित्तसेनओ भद्दा । पंथग नागजसा पुन कित्तिमई कित्तिसेनो य॥ नि.[३४०] देवी अ नागदत्ता जसवइ रयणवइ जक्खहरिलो य। वच्छी अ चारुदत्तो उसभो कच्चाइणी य सिलो।। नि.[३४१] धनदेवे वसुमित्ते सुदंसणे दारुए य निअडिल्ले। पुत्थी पिंगल पोए सागरदत्ते अ दीवसिहा ।। नि.[ ३४२] कंपिल्ले मलयवई वनराई सिंधुदत्त सोमा य। तह सिंधुसेन पज्जुनसेन वाणीर पइगा य ।। नि.[३४३] हरिएसा गोदत्ता कणेरुदत्ता कनेरुपइगा य। कुंजरकणेरुसेणा इसिवुड्डी कुरुमई देवी।। वृ. इदं च सोपस्कारतया व्याख्यायते-'चित्रश्च' चित्रनामा जनकस्तद्दुहितरौ विद्युन्माला विद्युन्मती च, तथा चित्रसेनकः पिता भद्रा च तद्दहिता, तथा पन्थकः पिता नागजसा कन्यका, पुनः समुच्चये, तथा कीर्तिमती कन्या कीर्तिसेनश्च तत्पिता। तथा देवी च नागदत्ता यशोमती रत्रवती च, पिता च सर्वासामपि यक्षहरिलः, 'चः' समुच्चये, वच्छी चकन्या चारुदत्तः पिता, तथा वृषभो जनकः, कात्यायनसगोत्रा तत्सुता शिला नाम। तथा धनदेवो नाम वणिक् अपरश्च वसुमित्रोऽन्यश्च सुदर्शनो दारुकश्च निकृतिमान्' मायापरः, चत्वारोऽमी कुक्कुटयुद्धव्यतिकरेमिलितास्तत्र च पुस्ती नाम कन्यका, तथा पिङ्गला नाम कन्या पोतश्च तत्पिता, सामस्तत्तश्च वणिक् तदङ्गजा च दीपशिखा। तथा काम्पिल्यः पिता मलयवती दुहिता, तथा वनराजी नाम कन्या तज्जनकश्च सिन्धुदत्तः, तथा तस्यैवान्या सोमा च नाम कन्या, तथा सिन्दुसेनप्रद्युम्नसेनयोर्यथाक्रमं वानीरनाम्नी प्रतिकाभिधाना चेति, पठ्यते च ‘प्रतिभा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388